Ṛk 3.4.6
Saṃhitā
आ भंद॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे ।
यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिंद्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥
आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे |
यथा नो मित्रो वरुणो जुजोषद् इन्द्रो मरुत्वां उत वा महोभिः ||
ā́ bhándamāne uṣásā úpāke utá smayete tanvā́ vírūpe ǀ
yáthā no mitró váruṇo jújoṣadíndro marútvām̐ utá vā máhobhiḥ ǁ
ā bhandamāne uṣasā upāke uta smayete tanvā virūpe |
yathā no mitro varuṇo jujoṣad indro marutvāṃ uta vā mahobhiḥ ||
Padapāṭha
आ । भन्द॑माने॒ इति॑ । उ॒षसौ॑ । उपा॑के॒ इति॑ । उ॒त । स्म॒ये॒ते॒ इति॑ । त॒न्वा॑ । विरू॑पे॒ इति॒ विऽरू॑पे ।
यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । जुजो॑षत् । इन्द्रः॑ । म॒रुत्वा॑न् । उ॒त । वा॒ । महः॑ऽभिः ॥
आ । भन्दमाने इति । उषसौ । उपाके इति । उत । स्मयेते इति । तन्वा । विरूपे इति विऽरूपे ।
यथा । नः । मित्रः । वरुणः । जुजोषत् । इन्द्रः । मरुत्वान् । उत । वा । महःऽभिः ॥
ā́ ǀ bhándamāne íti ǀ uṣásau ǀ úpāke íti ǀ utá ǀ smayete íti ǀ tanvā́ ǀ vírūpe íti ví-rūpe ǀ
yáthā ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ jújoṣat ǀ índraḥ ǀ marútvān ǀ utá ǀ vā ǀ máhaḥ-bhiḥ ǁ
ā ǀ bhandamāne iti ǀ uṣasau ǀ upāke iti ǀ uta ǀ smayete iti ǀ tanvā ǀ virūpe iti vi-rūpe ǀ
yathā ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ jujoṣat ǀ indraḥ ǀ marutvān ǀ uta ǀ vā ǀ mahaḥ-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.004.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.23.01
- Maṇḍala · Anuvāka · Ṛk
- 03.01.055
- Devatā देवता
- 1-4: Agni; 5-11: Hymn Āprī
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.