Ṛk 3.4.7
Saṃhitā
दैव्या॒ होता॑रा प्रथ॒मा न्यृं॑जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदंति ।
ऋ॒तं शंसं॑त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥
दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति |
ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ||
dáivyā hótārā prathamā́ nyṛ́ñje saptá pṛkṣā́saḥ svadháyā madanti ǀ
ṛtám śáṃsanta ṛtámíttá āhuránu vratám vratapā́ dī́dhyānāḥ ǁ
daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti |
ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ ||
Padapāṭha
दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ ।
ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥
दैव्या । होतारा । प्रथमा । नि । ऋञ्जे । सप्त । पृक्षासः । स्वधया । मदन्ति ।
ऋतम् । शंसन्तः । ऋतम् । इत् । ते । आहुः । अनु । व्रतम् । व्रतऽपाः । दीध्यानाः ॥
dáivyā ǀ hótārā ǀ prathamā́ ǀ ní ǀ ṛñje ǀ saptá ǀ pṛkṣā́saḥ ǀ svadháyā ǀ madanti ǀ
ṛtám ǀ śáṃsantaḥ ǀ ṛtám ǀ ít ǀ té ǀ āhuḥ ǀ ánu ǀ vratám ǀ vrata-pā́ḥ ǀ dī́dhyānāḥ ǁ
daivyā ǀ hotārā ǀ prathamā ǀ ni ǀ ṛñje ǀ sapta ǀ pṛkṣāsaḥ ǀ svadhayā ǀ madanti ǀ
ṛtam ǀ śaṃsantaḥ ǀ ṛtam ǀ it ǀ te ǀ āhuḥ ǀ anu ǀ vratam ǀ vrata-pāḥ ǀ dīdhyānāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.004.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.23.02
- Maṇḍala · Anuvāka · Ṛk
- 03.01.056
- Devatā देवता
- 1-4: Agni; 5-11: Hymn Āprī
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.