Ṛgveda · Maṇḍala 3 · Sūkta 54

Ṛk 3.54.22

Viśvedevās · Prajāpati Vācya Or Prajāpati Vaiśvāmitra

The whole sūkta Link

Saṃhitā

स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।
विश्वाँ॑ अग्ने पृ॒त्सु तांजे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः ॥

स्वदस्व हव्या सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि |
विश्वां अग्ने पृत्सु ताञ् जेषि शत्रून् अहा विश्वा सुमना दीदिही नः ||

svádasva havyā́ sámíṣo didīhyasmadryáksám mimīhi śrávāṃsi ǀ
víśvām̐ agne pṛtsú tā́ñjeṣi śátrūnáhā víśvā sumánā dīdihī naḥ ǁ

svadasva havyā sam iṣo didīhy asmadryak sam mimīhi śravāṃsi |
viśvāṃ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ ||

Padapāṭha

स्वद॑स्व । ह॒व्या । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ।
विश्वा॑न् । अ॒ग्ने॒ । पृ॒त्ऽसु । तान् । जे॒षि॒ । शत्रू॑न् । अहा॑ । विश्वा॑ । सु॒ऽमनाः॑ । दी॒दि॒हि॒ । नः॒ ॥

स्वदस्व । हव्या । सम् । इषः । दिदीहि । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि ।
विश्वान् । अग्ने । पृत्ऽसु । तान् । जेषि । शत्रून् । अहा । विश्वा । सुऽमनाः । दीदिहि । नः ॥

svádasva ǀ havyā́ ǀ sám ǀ íṣaḥ ǀ didīhi ǀ asmadryák ǀ sám ǀ mimīhi ǀ śrávāṃsi ǀ
víśvān ǀ agne ǀ pṛt-sú ǀ tā́n ǀ jeṣi ǀ śátrūn ǀ áhā ǀ víśvā ǀ su-mánāḥ ǀ dīdihi ǀ naḥ ǁ

svadasva ǀ havyā ǀ sam ǀ iṣaḥ ǀ didīhi ǀ asmadryak ǀ sam ǀ mimīhi ǀ śravāṃsi ǀ
viśvān ǀ agne ǀ pṛt-su ǀ tān ǀ jeṣi ǀ śatrūn ǀ ahā ǀ viśvā ǀ su-manāḥ ǀ dīdihi ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
03.054.22
Aṣṭaka · Adhyāya · Varga · Ṛk
3.3.27.07
Maṇḍala · Anuvāka · Ṛk
03.05.022
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Prajāpati Vācya Or Prajāpati Vaiśvāmitra
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.54.22

Interpretations

Sāyaṇa

उपोद्घातः

पुशो पुरोडाशस्विष्टकृतः स्वदस्व हव्येति याज्या । सुत्रितं च । स्वदस्व हव्या समिषो दिदीहीति पुरोडाशस्विश्टकृतः । आ. ३-५ । इति ।

हे अग्ने हव्या हवनयोग्यानि हवींशि स्वदस्व । स्वादय । अस्माकमिषोऽन्नानि सं दिदीहि । सम्यक् प्रकाशय । दीपितान तानि श्रवांस्यन्नान्यस्मद्र्यगस्मदभिमुखानि संमिमीहि सम्मानय । कुर्वित्यर्थः । ततः पृत्सु सङ्रामेषु तान्बाधकान्विश्वान्य शत्रून् ज्र्षि । जय । अथ सुमनाः शोभनमनस्कः सन् नोऽस्माकं विश्वाहा सर्वाण्यहानि दीदिहि । अग्निहोत्रादिकर्मयोग्यानि प्रकाशय । स्वदस्व । स्वद आस्वादने । लोटि रूपं । थासो लसार्वधातुकस्वरे धातुस्वरः । दिदीहि । दिवु क्रीडादावित्यस्य लोटि बहुलं छन्दसिति विकरणस्य श्लुः । परत्वात् हलि चेति दीर्घत्वे कृते पश्चाद्वलि लोपः । निघातः । अस्मद्र्यक् । अस्मानञ्चतित्यन्तचतेः क्विप् । विष्वग्देवयोश्च टेरिति यणः स्वरितत्वं । मिमीहि । माङ् माने शब्दे च । जुहोत्यादिः । तस्य लोटि व्यत्ययेन परस्मैपदं । निघातः । सुमनाः । सोर्मनसीत्युतरपदाद्युदात्तत्वं । दीदिहि । दिवेर्युङ् लुकि लोटि तुजादित्वादभ्यासस्य दीर्घः । वलि लोपः ॥ २२ ॥