Ṛk 3.47.3
Saṃhitā
उ॒त ऋ॒तुभि॑र्ऋतुपाः पाहि॒ सोम॒मिंद्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।
याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ॥
उत ऋतुभिर् ऋतुपाः पाहि सोमम् इन्द्र देवेभिः सखिभिः सुतं नः |
यां आभजो मरुतो ये त्वान्व् अहन् वृत्रम् अदधुस् तुभ्यम् ओजः ||
utá ṛtúbhirṛtupāḥ pāhi sómamíndra devébhiḥ sákhibhiḥ sutám naḥ ǀ
yā́m̐ ā́bhajo marúto yé tvā́nváhanvṛtrámádadhustúbhyamójaḥ ǁ
uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ |
yāṃ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ ||
Padapāṭha
उ॒त । ऋ॒तुऽभिः॑ । ऋ॒तु॒ऽपाः॒ । पा॒हि॒ । सोम॑म् । इन्द्र॑ । दे॒वेभिः॑ । सखि॑ऽभिः । सु॒तम् । नः॒ ।
यान् । आ । अभ॑जः । म॒रुतः॑ । ये । त्वा॒ । अनु॑ । अह॑न् । वृ॒त्रम् । अद॑धुः । तुभ्य॑म् । ओजः॑ ॥
उत । ऋतुऽभिः । ऋतुऽपाः । पाहि । सोमम् । इन्द्र । देवेभिः । सखिऽभिः । सुतम् । नः ।
यान् । आ । अभजः । मरुतः । ये । त्वा । अनु । अहन् । वृत्रम् । अदधुः । तुभ्यम् । ओजः ॥
utá ǀ ṛtú-bhiḥ ǀ ṛtu-pāḥ ǀ pāhi ǀ sómam ǀ índra ǀ devébhiḥ ǀ sákhi-bhiḥ ǀ sutám ǀ naḥ ǀ
yā́n ǀ ā́ ǀ ábhajaḥ ǀ marútaḥ ǀ yé ǀ tvā ǀ ánu ǀ áhan ǀ vṛtrám ǀ ádadhuḥ ǀ túbhyam ǀ ójaḥ ǁ
uta ǀ ṛtu-bhiḥ ǀ ṛtu-pāḥ ǀ pāhi ǀ somam ǀ indra ǀ devebhiḥ ǀ sakhi-bhiḥ ǀ sutam ǀ naḥ ǀ
yān ǀ ā ǀ abhajaḥ ǀ marutaḥ ǀ ye ǀ tvā ǀ anu ǀ ahan ǀ vṛtram ǀ adadhuḥ ǀ tubhyam ǀ ojaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.047.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.11.03
- Maṇḍala · Anuvāka · Ṛk
- 03.04.062
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.