Ṛk 3.50.4
Saṃhitā
इ॒मं कामं॑ मंदया॒ गोभि॒रश्वै॑श्चं॒द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इंद्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥
इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च |
स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ||
imám kā́mam mandayā góbhiráśvaiścandrávatā rā́dhasā papráthaśca ǀ
svaryávo matíbhistúbhyam víprā índrāya vā́haḥ kuśikā́so akran ǁ
imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca |
svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran ||
Padapāṭha
इ॒मम् । काम॑म् । म॒न्द॒य॒ । गोभिः॑ । अश्वैः॑ । च॒न्द्रऽव॑ता । राध॑सा । प॒प्रथः॑ । च॒ ।
स्वः॒ऽयवः॑ । म॒तिऽभिः॑ । तुभ्य॑म् । विप्राः॑ । इन्द्रा॑य । वाहः॑ । कु॒शि॒कासः॑ । अ॒क्र॒न् ॥
इमम् । कामम् । मन्दय । गोभिः । अश्वैः । चन्द्रऽवता । राधसा । पप्रथः । च ।
स्वःऽयवः । मतिऽभिः । तुभ्यम् । विप्राः । इन्द्राय । वाहः । कुशिकासः । अक्रन् ॥
imám ǀ kā́mam ǀ mandaya ǀ góbhiḥ ǀ áśvaiḥ ǀ candrá-vatā ǀ rā́dhasā ǀ papráthaḥ ǀ ca ǀ
svaḥ-yávaḥ ǀ matí-bhiḥ ǀ túbhyam ǀ víprāḥ ǀ índrāya ǀ vā́haḥ ǀ kuśikā́saḥ ǀ akran ǁ
imam ǀ kāmam ǀ mandaya ǀ gobhiḥ ǀ aśvaiḥ ǀ candra-vatā ǀ rādhasā ǀ paprathaḥ ǀ ca ǀ
svaḥ-yavaḥ ǀ mati-bhiḥ ǀ tubhyam ǀ viprāḥ ǀ indrāya ǀ vāhaḥ ǀ kuśikāsaḥ ǀ akran ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.050.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.14.04
- Maṇḍala · Anuvāka · Ṛk
- 03.04.078
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.