Ṛk 3.3.5
Saṃhitā
चं॒द्रम॒ग्निं चं॒द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विदं॑ ।
वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥
चन्द्रम् अग्निं चन्द्ररथं हरिव्रतं वैश्वानरम् अप्सुषदं स्वर्विदम् |
विगाहं तूर्णिं तविषीभिर् आवृतम् भूर्णिं देवास इह सुश्रियं दधुः ||
candrámagním candráratham hárivratam vaiśvānarámapsuṣádam svarvídam ǀ
vigāhám tū́rṇim táviṣībhirā́vṛtam bhū́rṇim devā́sa ihá suśríyam dadhuḥ ǁ
candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam |
vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ ||
Padapāṭha
च॒न्द्रम् । अ॒ग्निम् । च॒न्द्रऽर॑थम् । हरि॑ऽव्रतम् । वै॒श्वा॒न॒रम् । अ॒प्सु॒ऽसद॑म् । स्वः॒ऽविद॑म् ।
वि॒ऽगा॒हम् । तूर्णि॑म् । तवि॑षीभिः । आऽवृ॑तम् । भूर्णि॑म् । दे॒वासः॑ । इ॒ह । सु॒ऽश्रिय॑म् । द॒धुः॒ ॥
चन्द्रम् । अग्निम् । चन्द्रऽरथम् । हरिऽव्रतम् । वैश्वानरम् । अप्सुऽसदम् । स्वःऽविदम् ।
विऽगाहम् । तूर्णिम् । तविषीभिः । आऽवृतम् । भूर्णिम् । देवासः । इह । सुऽश्रियम् । दधुः ॥
candrám ǀ agním ǀ candrá-ratham ǀ hári-vratam ǀ vaiśvānarám ǀ apsu-sádam ǀ svaḥ-vídam ǀ
vi-gāhám ǀ tū́rṇim ǀ táviṣībhiḥ ǀ ā́-vṛtam ǀ bhū́rṇim ǀ devā́saḥ ǀ ihá ǀ su-śríyam ǀ dadhuḥ ǁ
candram ǀ agnim ǀ candra-ratham ǀ hari-vratam ǀ vaiśvānaram ǀ apsu-sadam ǀ svaḥ-vidam ǀ
vi-gāham ǀ tūrṇim ǀ taviṣībhiḥ ǀ ā-vṛtam ǀ bhūrṇim ǀ devāsaḥ ǀ iha ǀ su-śriyam ǀ dadhuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.003.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.20.05
- Maṇḍala · Anuvāka · Ṛk
- 03.01.043
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.