Ṛgveda · Maṇḍala 3 · Sūkta 55

Ṛk 3.55.22

Viśvedevas, Uṣās · Viśvedevas, Agni · Viśvedevas, Ahorātrī · Viśvedevas, Rodasī · Viśvedevas, Rodasī Or Dyuniśa · Viśvedevas, Diśaḥ · Viśvedevas, Indra, Parjanyātmā, Tvaṣṭṛ · Prajāpati Vācya Or Prajāpati Vaiśvāmitra

The whole sūkta Link

Saṃhitā

नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इंद्र पृथि॒वी बि॑भर्ति ।
सखा॑यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेकं॑ ॥

निष्षिध्वरीस् त ओषधीर् उतापो रयिं त इन्द्र पृथिवी बिभर्ति |
सखायस् ते वामभाजः स्याम महद् देवानाम् असुरत्वम् एकम् ||

niṣṣídhvarīsta óṣadhīrutā́po rayím ta indra pṛthivī́ bibharti ǀ
sákhāyaste vāmabhā́jaḥ syāma maháddevā́nāmasuratvámékam ǁ

niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti |
sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam ||

Padapāṭha

निः॒ऽसिध्व॑रीः । ते॒ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । ते॒ । इ॒न्द्र॒ । पृ॒थि॒वी । बि॒भ॒र्ति॒ ।
सखा॑यः । ते॒ । वा॒म॒ऽभाजः॑ । स्या॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

निःऽसिध्वरीः । ते । ओषधीः । उत । आपः । रयिम् । ते । इन्द्र । पृथिवी । बिभर्ति ।
सखायः । ते । वामऽभाजः । स्याम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥

niḥ-sídhvarīḥ ǀ te ǀ óṣadhīḥ ǀ utá ǀ ā́paḥ ǀ rayím ǀ te ǀ indra ǀ pṛthivī́ ǀ bibharti ǀ
sákhāyaḥ ǀ te ǀ vāma-bhā́jaḥ ǀ syāma ǀ mahát ǀ devā́nām ǀ asura-tvám ǀ ékam ǁ

niḥ-sidhvarīḥ ǀ te ǀ oṣadhīḥ ǀ uta ǀ āpaḥ ǀ rayim ǀ te ǀ indra ǀ pṛthivī ǀ bibharti ǀ
sakhāyaḥ ǀ te ǀ vāma-bhājaḥ ǀ syāma ǀ mahat ǀ devānām ǀ asura-tvam ǀ ekam ǁ

References

Maṇḍala · Sūkta · Ṛk
03.055.22
Aṣṭaka · Adhyāya · Varga · Ṛk
3.3.31.07
Maṇḍala · Anuvāka · Ṛk
03.05.044
Devatā देवता
1: Viśvedevas, Uṣās; 2-10: Viśvedevas, Agni; 11: Viśvedevas, Ahorātrī; 12-14: Viśvedevas, Rodasī; 15: Viśvedevas, Rodasī Or Dyuniśa; 16: Viśvedevas, Diśaḥ; 17-22: Viśvedevas, Indra, Parjanyātmā, Tvaṣṭṛ
Ṛṣi ऋषि
Prajāpati Vācya Or Prajāpati Vaiśvāmitra
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.55.22

Interpretations

Sāyaṇa

हे पर्जनात्मकेन्द्र ओषधीरोषधयस्ते निश्षिध्वरीर्निश्षिध्वर्यो नितरां त्वत्कर्तृकसिद्धिमत्यः । उतापि च आपस्त्वत्तो निःसृताः । पृथिवी ते तव भोगयोग्यं रयिं धनं बिभर्ति । पुरू वसूनि पृथिवी बिभर्ति । ऋग्वे. ३-५१-५ । इति हि निगमः । ततस्ते तव सखायो हविष्प्रदा नोपकारकाः स्तोतारो वयं वामभाजः स्याम । सर्वे वननीयधनभागिनो भवेम । तदेतद्देवानां महदैश्वर्यं । निष्षिध्वरीः । षिधु संराद्धौ । संपदादिलक्षणो भावे क्विप् । तदस्यास्तीत्यर्थे छन्दसीवनिपाविति वनिप् । वनो र चेति ङीप् रेफश्च । निसा सह समासः । निसः सकारं छान्दसत्वादनादृत्योपसर्गात्सुनोतीत्यादिना षत्वं । ङीपः पित्त्वादनुदात्तत्वे धातुस्वरः । बिभर्ति । डुभृञ् धारणपोषणयोरित्यस्य लटि भृञामिदित्यभ्यौसस्येत्वं । निघातः । वामभाजः । भज सेवायां । भजो ण्विः । पा. ३-२-६२ ॥ इति ण्विः । कृदुत्तरपदस्वरः ॥ २२ ॥