Ṛk 3.13.1
Saṃhitā
प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै ।
गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥
प्र वो देवायाग्नये बर्हिष्ठम् अर्चास्मै |
गमद् देवेभिर् आ स नो यजिष्ठो बर्हिर् आ सदत् ||
prá vo devā́yāgnáye bárhiṣṭhamarcāsmai ǀ
gámaddevébhirā́ sá no yájiṣṭho barhírā́ sadat ǁ
pra vo devāyāgnaye barhiṣṭham arcāsmai |
gamad devebhir ā sa no yajiṣṭho barhir ā sadat ||
Padapāṭha
प्र । वः॒ । दे॒वाय॑ । अ॒ग्नये॑ । बर्हि॑ष्ठम् । अ॒र्च॒ । अ॒स्मै॒ ।
गम॑त् । दे॒वेभिः॑ । आ । सः । नः॒ । यजि॑ष्ठः । ब॒र्हिः । आ । स॒द॒त् ॥
प्र । वः । देवाय । अग्नये । बर्हिष्ठम् । अर्च । अस्मै ।
गमत् । देवेभिः । आ । सः । नः । यजिष्ठः । बर्हिः । आ । सदत् ॥
prá ǀ vaḥ ǀ devā́ya ǀ agnáye ǀ bárhiṣṭham ǀ arca ǀ asmai ǀ
gámat ǀ devébhiḥ ǀ ā́ ǀ sáḥ ǀ naḥ ǀ yájiṣṭhaḥ ǀ barhíḥ ǀ ā́ ǀ sadat ǁ
pra ǀ vaḥ ǀ devāya ǀ agnaye ǀ barhiṣṭham ǀ arca ǀ asmai ǀ
gamat ǀ devebhiḥ ǀ ā ǀ saḥ ǀ naḥ ǀ yajiṣṭhaḥ ǀ barhiḥ ǀ ā ǀ sadat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.013.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.13.01
- Maṇḍala · Anuvāka · Ṛk
- 03.02.001
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Ṛṣabha Vaiśvāmitra
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.