Ṛk 3.1.10
Saṃhitā
पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः ।
वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सबं॑धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॒॑नि पा॑हि ॥
पितुश् च गर्भं जनितुश् च बभ्रे पूर्वीर् एको अधयत् पीप्यानाः |
वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ||
pitúśca gárbham janitúśca babhre pūrvī́réko adhayatpī́pyānāḥ ǀ
vṛ́ṣṇe sapátnī śúcaye sábandhū ubhé asmai manuṣyéní pāhi ǁ
pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ |
vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi ||
Padapāṭha
पि॒तुः । च॒ । गर्भ॑म् । ज॒नि॒तुः । च॒ । ब॒भ्रे॒ । पू॒र्वीः । एकः॑ । अ॒ध॒य॒त् । पीप्या॑नाः ।
वृष्णे॑ । स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ । शुच॑ये । सब॑न्धू॒ इति॒ सऽब॑न्धू । उ॒भे इति॑ । अ॒स्मै॒ । म॒नु॒ष्ये॒३॒॑ इति॑ । नि । पा॒हि॒ ॥
पितुः । च । गर्भम् । जनितुः । च । बभ्रे । पूर्वीः । एकः । अधयत् । पीप्यानाः ।
वृष्णे । सपत्नी इति सऽपत्नी । शुचये । सबन्धू इति सऽबन्धू । उभे इति । अस्मै । मनुष्ये इति । नि । पाहि ॥
pitúḥ ǀ ca ǀ gárbham ǀ janitúḥ ǀ ca ǀ babhre ǀ pūrvī́ḥ ǀ ékaḥ ǀ adhayat ǀ pī́pyānāḥ ǀ
vṛ́ṣṇe ǀ sapátnī íti sa-pátnī ǀ śúcaye ǀ sábandhū íti sá-bandhū ǀ ubhé íti ǀ asmai ǀ manuṣyé íti ǀ ní ǀ pāhi ǁ
pituḥ ǀ ca ǀ garbham ǀ janituḥ ǀ ca ǀ babhre ǀ pūrvīḥ ǀ ekaḥ ǀ adhayat ǀ pīpyānāḥ ǀ
vṛṣṇe ǀ sapatnī iti sa-patnī ǀ śucaye ǀ sabandhū iti sa-bandhū ǀ ubhe iti ǀ asmai ǀ manuṣye iti ǀ ni ǀ pāhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.001.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.14.05
- Maṇḍala · Anuvāka · Ṛk
- 03.01.010
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.