Ṛk 3.1.2
Saṃhitā
प्रांचं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् ।
दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥
प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिर् अग्निं नमसा दुवस्यन् |
दिवः शशासुर् विदथा कवीनां गृत्साय चित् तवसे गातुम् ईषुः ||
prā́ñcam yajñám cakṛma várdhatām gī́ḥ samídbhiragním námasā duvasyan ǀ
diváḥ śaśāsurvidáthā kavīnā́m gṛ́tsāya cittaváse gātúmīṣuḥ ǁ
prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan |
divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ ||
Padapāṭha
प्राञ्च॑म् । य॒ज्ञम् । च॒कृ॒म॒ । वर्ध॑ताम् । गीः । स॒मित्ऽभिः॑ । अ॒ग्निम् । नम॑सा । दु॒व॒स्य॒न् ।
दि॒वः । श॒शा॒सुः॒ । वि॒दथा॑ । क॒वी॒नाम् । गृत्सा॑य । चि॒त् । त॒वसे॑ । गा॒तुम् । ई॒षुः॒ ॥
प्राञ्चम् । यज्ञम् । चकृम । वर्धताम् । गीः । समित्ऽभिः । अग्निम् । नमसा । दुवस्यन् ।
दिवः । शशासुः । विदथा । कवीनाम् । गृत्साय । चित् । तवसे । गातुम् । ईषुः ॥
prā́ñcam ǀ yajñám ǀ cakṛma ǀ várdhatām ǀ gī́ḥ ǀ samít-bhiḥ ǀ agním ǀ námasā ǀ duvasyan ǀ
diváḥ ǀ śaśāsuḥ ǀ vidáthā ǀ kavīnā́m ǀ gṛ́tsāya ǀ cit ǀ taváse ǀ gātúm ǀ īṣuḥ ǁ
prāñcam ǀ yajñam ǀ cakṛma ǀ vardhatām ǀ gīḥ ǀ samit-bhiḥ ǀ agnim ǀ namasā ǀ duvasyan ǀ
divaḥ ǀ śaśāsuḥ ǀ vidathā ǀ kavīnām ǀ gṛtsāya ǀ cit ǀ tavase ǀ gātum ǀ īṣuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.001.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.13.02
- Maṇḍala · Anuvāka · Ṛk
- 03.01.002
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.