Ṛk 3.1.13
Saṃhitā
अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पं ।
दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥
अपां गर्भं दर्शतम् ओषधीनां वना जजान सुभगा विरूपम् |
देवासश् चिन् मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ||
apā́m gárbham darśatámóṣadhīnām vánā jajāna subhágā vírūpam ǀ
devā́saścinmánasā sám hí jagmúḥ pániṣṭham jātám tavásam duvasyan ǁ
apāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam |
devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan ||
Padapāṭha
अ॒पाम् । गर्भ॑म् । द॒र्श॒तम् । ओष॑धीनाम् । वना॑ । ज॒जा॒न॒ । सु॒ऽभगा॑ । विऽरू॑पम् ।
दे॒वासः॑ । चि॒त् । मन॑सा । सम् । हि । ज॒ग्मुः । पनि॑ष्ठम् । जा॒तम् । त॒वस॑म् । दु॒व॒स्य॒न् ॥
अपाम् । गर्भम् । दर्शतम् । ओषधीनाम् । वना । जजान । सुऽभगा । विऽरूपम् ।
देवासः । चित् । मनसा । सम् । हि । जग्मुः । पनिष्ठम् । जातम् । तवसम् । दुवस्यन् ॥
apā́m ǀ gárbham ǀ darśatám ǀ óṣadhīnām ǀ vánā ǀ jajāna ǀ su-bhágā ǀ ví-rūpam ǀ
devā́saḥ ǀ cit ǀ mánasā ǀ sám ǀ hí ǀ jagmúḥ ǀ pániṣṭham ǀ jātám ǀ tavásam ǀ duvasyan ǁ
apām ǀ garbham ǀ darśatam ǀ oṣadhīnām ǀ vanā ǀ jajāna ǀ su-bhagā ǀ vi-rūpam ǀ
devāsaḥ ǀ cit ǀ manasā ǀ sam ǀ hi ǀ jagmuḥ ǀ paniṣṭham ǀ jātam ǀ tavasam ǀ duvasyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.001.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.15.03
- Maṇḍala · Anuvāka · Ṛk
- 03.01.013
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.