Ṛk 3.1.15
Saṃhitā
ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः ।
दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥
ईळे च त्वा यजमानो हविर्भिर् ईळे सखित्वं सुमतिं निकामः |
देवैर् अवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिर् अनीकैः ||
ī́ḷe ca tvā yájamāno havírbhirī́ḷe sakhitvám sumatím níkāmaḥ ǀ
deváirávo mimīhi sám jaritré rákṣā ca no dámyebhiránīkaiḥ ǁ
īḷe ca tvā yajamāno havirbhir īḷe sakhitvaṃ sumatiṃ nikāmaḥ |
devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ ||
Padapāṭha
ईळे॑ । च॒ । त्वा॒ । यज॑मानः । ह॒विःऽभिः॑ । ईळे॑ । स॒खि॒ऽत्वम् । सु॒ऽम॒तिम् । निऽका॑मः ।
दे॒वैः । अवः॑ । मि॒मी॒हि॒ । सम् । ज॒रि॒त्रे । रक्ष॑ । च॒ । नः॒ । दम्ये॑भिः । अनी॑कैः ॥
ईळे । च । त्वा । यजमानः । हविःऽभिः । ईळे । सखिऽत्वम् । सुऽमतिम् । निऽकामः ।
देवैः । अवः । मिमीहि । सम् । जरित्रे । रक्ष । च । नः । दम्येभिः । अनीकैः ॥
ī́ḷe ǀ ca ǀ tvā ǀ yájamānaḥ ǀ havíḥ-bhiḥ ǀ ī́ḷe ǀ sakhi-tvám ǀ su-matím ǀ ní-kāmaḥ ǀ
deváiḥ ǀ ávaḥ ǀ mimīhi ǀ sám ǀ jaritré ǀ rákṣa ǀ ca ǀ naḥ ǀ dámyebhiḥ ǀ ánīkaiḥ ǁ
īḷe ǀ ca ǀ tvā ǀ yajamānaḥ ǀ haviḥ-bhiḥ ǀ īḷe ǀ sakhi-tvam ǀ su-matim ǀ ni-kāmaḥ ǀ
devaiḥ ǀ avaḥ ǀ mimīhi ǀ sam ǀ jaritre ǀ rakṣa ǀ ca ǀ naḥ ǀ damyebhiḥ ǀ anīkaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.001.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.15.05
- Maṇḍala · Anuvāka · Ṛk
- 03.01.015
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.