Ṛk 3.1.12
Saṃhitā
अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः ।
उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥
अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः |
उद् उस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ||
akró ná babhríḥ samithé mahī́nām didṛkṣéyaḥ sūnáve bhā́ṛjīkaḥ ǀ
údusríyā jánitā yó jajā́nāpā́m gárbho nṛ́tamo yahvó agníḥ ǁ
akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ |
ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ ||
Padapāṭha
अ॒क्रः । न । ब॒भ्रिः । स॒म्ऽइ॒थे । म॒हीना॑म् । दि॒दृ॒क्षेयः॑ । सू॒नवे॑ । भाःऽऋ॑जीकः ।
उत् । उ॒स्रियाः॑ । जनि॑ता । यः । ज॒जान॑ । अ॒पाम् । गर्भः॑ । नृऽत॑मः । य॒ह्वः । अ॒ग्निः ॥
अक्रः । न । बभ्रिः । सम्ऽइथे । महीनाम् । दिदृक्षेयः । सूनवे । भाःऽऋजीकः ।
उत् । उस्रियाः । जनिता । यः । जजान । अपाम् । गर्भः । नृऽतमः । यह्वः । अग्निः ॥
akráḥ ǀ ná ǀ babhríḥ ǀ sam-ithé ǀ mahī́nām ǀ didṛkṣéyaḥ ǀ sūnáve ǀ bhā́ḥ-ṛjīkaḥ ǀ
út ǀ usríyāḥ ǀ jánitā ǀ yáḥ ǀ jajā́na ǀ apā́m ǀ gárbhaḥ ǀ nṛ́-tamaḥ ǀ yahváḥ ǀ agníḥ ǁ
akraḥ ǀ na ǀ babhriḥ ǀ sam-ithe ǀ mahīnām ǀ didṛkṣeyaḥ ǀ sūnave ǀ bhāḥ-ṛjīkaḥ ǀ
ut ǀ usriyāḥ ǀ janitā ǀ yaḥ ǀ jajāna ǀ apām ǀ garbhaḥ ǀ nṛ-tamaḥ ǀ yahvaḥ ǀ agniḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.001.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.15.02
- Maṇḍala · Anuvāka · Ṛk
- 03.01.012
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.