Ṛk 3.1.3
Saṃhitā
मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बंधु॑र्ज॒नुषा॑ पृथि॒व्याः ।
अविं॑दन्नु दर्श॒तम॒प्स्वं१॒॑तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णां ॥
मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर् जनुषा पृथिव्याः |
अविन्दन्न् उ दर्शतम् अप्स्व् अन्तर् देवासो अग्निम् अपसि स्वसॄणाम् ||
máyo dadhe médhiraḥ pūtádakṣo diváḥ subándhurjanúṣā pṛthivyā́ḥ ǀ
ávindannu darśatámapsvántárdevā́so agnímapási svásṝṇām ǁ
mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ |
avindann u darśatam apsv antar devāso agnim apasi svasṝṇām ||
Padapāṭha
मयः॑ । द॒धे॒ । मेधि॑रः । पू॒तऽद॑क्षः । दि॒वः । सु॒ऽबन्धुः॑ । ज॒नुषा॑ । पृ॒थि॒व्याः ।
अवि॑न्दन् । ऊं॒ इति॑ । द॒र्श॒तम् । अ॒प्ऽसु । अ॒न्तः । दे॒वासः॑ । अ॒ग्निम् । अ॒पसि॑ । स्वसॄ॑णाम् ॥
मयः । दधे । मेधिरः । पूतऽदक्षः । दिवः । सुऽबन्धुः । जनुषा । पृथिव्याः ।
अविन्दन् । ऊं इति । दर्शतम् । अप्ऽसु । अन्तः । देवासः । अग्निम् । अपसि । स्वसॄणाम् ॥
máyaḥ ǀ dadhe ǀ médhiraḥ ǀ pūtá-dakṣaḥ ǀ diváḥ ǀ su-bándhuḥ ǀ janúṣā ǀ pṛthivyā́ḥ ǀ
ávindan ǀ ūṃ íti ǀ darśatám ǀ ap-sú ǀ antáḥ ǀ devā́saḥ ǀ agním ǀ apási ǀ svásṝṇām ǁ
mayaḥ ǀ dadhe ǀ medhiraḥ ǀ pūta-dakṣaḥ ǀ divaḥ ǀ su-bandhuḥ ǀ januṣā ǀ pṛthivyāḥ ǀ
avindan ǀ ūṃ iti ǀ darśatam ǀ ap-su ǀ antaḥ ǀ devāsaḥ ǀ agnim ǀ apasi ǀ svasṝṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.001.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.13.03
- Maṇḍala · Anuvāka · Ṛk
- 03.01.003
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.