Ṛk 3.1.5
Saṃhitā
शु॒क्रेभि॒रंगै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभिः॑ प॒वित्रैः॑ ।
शो॒चिर्वसा॑नः॒ पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥
शुक्रेभिर् अङ्गै रज आततन्वान् क्रतुम् पुनानः कविभिः पवित्रैः |
शोचिर् वसानः पर्य् आयुर् अपां श्रियो मिमीते बृहतीर् अनूनाः ||
śukrébhiráṅgai rája ātatanvā́nkrátum punānáḥ kavíbhiḥ pavítraiḥ ǀ
śocírvásānaḥ páryā́yurapā́m śríyo mimīte bṛhatī́ránūnāḥ ǁ
śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ |
śocir vasānaḥ pary āyur apāṃ śriyo mimīte bṛhatīr anūnāḥ ||
Padapāṭha
शु॒क्रेभिः॑ । अङ्गैः॑ । रजः॑ । आ॒ऽत॒त॒न्वान् । क्रतु॑म् । पु॒ना॒नः । क॒विऽभिः॑ । प॒वित्रैः॑ ।
शो॒चिः । वसा॑नः । परि॑ । आयुः॑ । अ॒पाम् । श्रियः॑ । मि॒मी॒ते॒ । बृ॒ह॒तीः । अनू॑नाः ॥
शुक्रेभिः । अङ्गैः । रजः । आऽततन्वान् । क्रतुम् । पुनानः । कविऽभिः । पवित्रैः ।
शोचिः । वसानः । परि । आयुः । अपाम् । श्रियः । मिमीते । बृहतीः । अनूनाः ॥
śukrébhiḥ ǀ áṅgaiḥ ǀ rájaḥ ǀ ā-tatanvā́n ǀ krátum ǀ punānáḥ ǀ kaví-bhiḥ ǀ pavítraiḥ ǀ
śocíḥ ǀ vásānaḥ ǀ pári ǀ ā́yuḥ ǀ apā́m ǀ śríyaḥ ǀ mimīte ǀ bṛhatī́ḥ ǀ ánūnāḥ ǁ
śukrebhiḥ ǀ aṅgaiḥ ǀ rajaḥ ǀ ā-tatanvān ǀ kratum ǀ punānaḥ ǀ kavi-bhiḥ ǀ pavitraiḥ ǀ
śociḥ ǀ vasānaḥ ǀ pari ǀ āyuḥ ǀ apām ǀ śriyaḥ ǀ mimīte ǀ bṛhatīḥ ǀ anūnāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.001.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.13.05
- Maṇḍala · Anuvāka · Ṛk
- 03.01.005
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.