Ṛk 3.1.4
Saṃhitā
अव॑र्धयन्त्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा ।
शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥
अवर्धयन् सुभगं सप्त यह्वीः श्वेतं जज्ञानम् अरुषम् महित्वा |
शिशुं न जातम् अभ्य् आरुर् अश्वा देवासो अग्निं जनिमन् वपुष्यन् ||
ávardhayantsubhágam saptá yahvī́ḥ śvetám jajñānámaruṣám mahitvā́ ǀ
śíśum ná jātámabhyā́ruráśvā devā́so agním jánimanvapuṣyan ǁ
avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā |
śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan ||
Padapāṭha
अव॑र्धयन् । सु॒ऽभग॑म् । स॒प्त । य॒ह्वीः । श्वे॒तम् । ज॒ज्ञा॒नम् । अ॒रु॒षम् । म॒हि॒ऽत्वा ।
शिशु॑म् । न । जा॒तम् । अ॒भि । आ॒रुः॒ । अश्वाः॑ । दे॒वासः॑ । अ॒ग्निम् । जनि॑मन् । व॒पु॒ष्य॒न् ॥
अवर्धयन् । सुऽभगम् । सप्त । यह्वीः । श्वेतम् । जज्ञानम् । अरुषम् । महिऽत्वा ।
शिशुम् । न । जातम् । अभि । आरुः । अश्वाः । देवासः । अग्निम् । जनिमन् । वपुष्यन् ॥
ávardhayan ǀ su-bhágam ǀ saptá ǀ yahvī́ḥ ǀ śvetám ǀ jajñānám ǀ aruṣám ǀ mahi-tvā́ ǀ
śíśum ǀ ná ǀ jātám ǀ abhí ǀ āruḥ ǀ áśvāḥ ǀ devā́saḥ ǀ agním ǀ jániman ǀ vapuṣyan ǁ
avardhayan ǀ su-bhagam ǀ sapta ǀ yahvīḥ ǀ śvetam ǀ jajñānam ǀ aruṣam ǀ mahi-tvā ǀ
śiśum ǀ na ǀ jātam ǀ abhi ǀ āruḥ ǀ aśvāḥ ǀ devāsaḥ ǀ agnim ǀ janiman ǀ vapuṣyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.001.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.13.04
- Maṇḍala · Anuvāka · Ṛk
- 03.01.004
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.