Sūkta 1
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles bhuriktriṣṭup (4, 6, 11, 12, 14); nicṛttriṣṭup (3, 5, 8, 10); virāḍjagatī (2, 15); paṅktiḥ (1); virāṭtrisṭup (7); bhurikpaṅkti (9); svarāṭpaṅkti (13); nicṛjjagatī (16)
2nd set of styles jagatī
-
Ṛk 1
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि |
त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ||tvámagne dyúbhistvámāśuśukṣáṇistvámadbhyástvámáśmanaspári ǀ
tvám vánebhyastvámóṣadhībhyastvám nṛṇā́m nṛpate jāyase śúciḥ ǁtvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari |
tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ ||त्वम् । अ॒ग्ने॒ । द्युऽभिः॑ । त्वम् । आ॒शु॒शु॒क्षणिः॑ । त्वम् । अ॒त्ऽभ्यः । त्वम् । अश्म॑नः । परि॑ ।
त्वम् । वने॑भ्यः । त्वम् । ओष॑धीभ्यः । त्वम् । नृ॒णाम् । नृ॒ऽप॒ते॒ । जा॒य॒से॒ । शुचिः॑ ॥त्वम् । अग्ने । द्युऽभिः । त्वम् । आशुशुक्षणिः । त्वम् । अत्ऽभ्यः । त्वम् । अश्मनः । परि ।
त्वम् । वनेभ्यः । त्वम् । ओषधीभ्यः । त्वम् । नृणाम् । नृऽपते । जायसे । शुचिः ॥tvám ǀ agne ǀ dyú-bhiḥ ǀ tvám ǀ āśuśukṣáṇiḥ ǀ tvám ǀ at-bhyáḥ ǀ tvám ǀ áśmanaḥ ǀ pári ǀ
tvám ǀ vánebhyaḥ ǀ tvám ǀ óṣadhībhyaḥ ǀ tvám ǀ nṛṇā́m ǀ nṛ-pate ǀ jāyase ǀ śúciḥ ǁtvam ǀ agne ǀ dyu-bhiḥ ǀ tvam ǀ āśuśukṣaṇiḥ ǀ tvam ǀ at-bhyaḥ ǀ tvam ǀ aśmanaḥ ǀ pari ǀ
tvam ǀ vanebhyaḥ ǀ tvam ǀ oṣadhībhyaḥ ǀ tvam ǀ nṛṇām ǀ nṛ-pate ǀ jāyase ǀ śuciḥ ǁ2.1.1 Aṣṭaka 2.5.17.1Anuvāka 2.1.1
-
Ṛk 2
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।
तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः |
तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ||távāgne hotrám táva potrámṛtvíyam táva neṣṭrám tvámagnídṛtāyatáḥ ǀ
táva praśāstrám tvámadhvarīyasi brahmā́ cā́si gṛhápatiśca no dáme ǁtavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ |
tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame ||तव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः ।
तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥तव । अग्ने । होत्रम् । तव । पोत्रम् । ऋत्वियम् । तव । नेष्ट्रम् । त्वम् । अग्नित् । ऋतऽयतः ।
तव । प्रऽशास्त्रम् । त्वम् । अध्वरिऽयसि । ब्रह्मा । च । असि । गृहऽपतिः । च । नः । दमे ॥táva ǀ agne ǀ hotrám ǀ táva ǀ potrám ǀ ṛtvíyam ǀ táva ǀ neṣṭrám ǀ tvám ǀ agnít ǀ ṛta-yatáḥ ǀ
táva ǀ pra-śāstrám ǀ tvám ǀ adhvari-yasi ǀ brahmā́ ǀ ca ǀ ási ǀ gṛhá-patiḥ ǀ ca ǀ naḥ ǀ dáme ǁtava ǀ agne ǀ hotram ǀ tava ǀ potram ǀ ṛtviyam ǀ tava ǀ neṣṭram ǀ tvam ǀ agnit ǀ ṛta-yataḥ ǀ
tava ǀ pra-śāstram ǀ tvam ǀ adhvari-yasi ǀ brahmā ǀ ca ǀ asi ǀ gṛha-patiḥ ǀ ca ǀ naḥ ǀ dame ǁ2.1.2 Aṣṭaka 2.5.17.2Anuvāka 2.1.2
-
Ṛk 3
त्वम॑ग्न॒ इंद्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ ।
त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥त्वम् अग्न इन्द्रो वृषभः सताम् असि त्वं विष्णुर् उरुगायो नमस्यः |
त्वम् ब्रह्मा रयिविद् ब्रह्मणस् पते त्वं विधर्तः सचसे पुरन्ध्या ||tvámagna índro vṛṣabháḥ satā́masi tvám víṣṇururugāyó namasyáḥ ǀ
tvám brahmā́ rayivídbrahmaṇaspate tvám vidhartaḥ sacase púraṃdhyā ǁtvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ |
tvam brahmā rayivid brahmaṇas pate tvaṃ vidhartaḥ sacase purandhyā ||त्वम् । अ॒ग्ने॒ । इन्द्रः॑ । वृ॒ष॒भः । स॒ताम् । अ॒सि॒ । त्वम् । विष्णुः॑ । उ॒रु॒ऽगा॒यः । न॒म॒स्यः॑ ।
त्वम् । ब्र॒ह्मा । र॒यि॒ऽवित् । ब्र॒ह्म॒णः॒ । प॒ते॒ । त्वम् । वि॒ध॒र्त॒रिति॑ विऽधर्तः । स॒च॒से॒ । पुर॑म्ऽध्या ॥त्वम् । अग्ने । इन्द्रः । वृषभः । सताम् । असि । त्वम् । विष्णुः । उरुऽगायः । नमस्यः ।
त्वम् । ब्रह्मा । रयिऽवित् । ब्रह्मणः । पते । त्वम् । विधर्तरिति विऽधर्तः । सचसे । पुरम्ऽध्या ॥tvám ǀ agne ǀ índraḥ ǀ vṛṣabháḥ ǀ satā́m ǀ asi ǀ tvám ǀ víṣṇuḥ ǀ uru-gāyáḥ ǀ namasyáḥ ǀ
tvám ǀ brahmā́ ǀ rayi-vít ǀ brahmaṇaḥ ǀ pate ǀ tvám ǀ vidhartaríti vi-dhartaḥ ǀ sacase ǀ púram-dhyā ǁtvam ǀ agne ǀ indraḥ ǀ vṛṣabhaḥ ǀ satām ǀ asi ǀ tvam ǀ viṣṇuḥ ǀ uru-gāyaḥ ǀ namasyaḥ ǀ
tvam ǀ brahmā ǀ rayi-vit ǀ brahmaṇaḥ ǀ pate ǀ tvam ǀ vidhartariti vi-dhartaḥ ǀ sacase ǀ puram-dhyā ǁ2.1.3 Aṣṭaka 2.5.17.3Anuvāka 2.1.3
-
Ṛk 4
त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ ।
त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ सं॒भुजं॒ त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥त्वम् अग्ने राजा वरुणो धृतव्रतस् त्वम् मित्रो भवसि दस्म ईड्यः |
त्वम् अर्यमा सत्पतिर् यस्य सम्भुजं त्वम् अंशो विदथे देव भाजयुः ||tvámagne rā́jā váruṇo dhṛtávratastvám mitró bhavasi dasmá ī́ḍyaḥ ǀ
tvámaryamā́ sátpatiryásya sambhújam tvámáṃśo vidáthe deva bhājayúḥ ǁtvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ |
tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ ||त्वम् । अ॒ग्ने॒ । राजा॑ । वरु॑णः । धृ॒तऽव्र॑तः । त्वम् । मि॒त्रः । भ॒व॒सि॒ । द॒स्मः । ईड्यः॑ ।
त्वम् । अ॒र्य॒मा । सत्ऽप॑तिः । यस्य॑ । स॒म्ऽभुज॑म् । त्वम् । अंशः॑ । वि॒दथे॑ । दे॒व॒ । भा॒ज॒युः ॥त्वम् । अग्ने । राजा । वरुणः । धृतऽव्रतः । त्वम् । मित्रः । भवसि । दस्मः । ईड्यः ।
त्वम् । अर्यमा । सत्ऽपतिः । यस्य । सम्ऽभुजम् । त्वम् । अंशः । विदथे । देव । भाजयुः ॥tvám ǀ agne ǀ rā́jā ǀ váruṇaḥ ǀ dhṛtá-vrataḥ ǀ tvám ǀ mitráḥ ǀ bhavasi ǀ dasmáḥ ǀ ī́ḍyaḥ ǀ
tvám ǀ aryamā́ ǀ sát-patiḥ ǀ yásya ǀ sam-bhújam ǀ tvám ǀ áṃśaḥ ǀ vidáthe ǀ deva ǀ bhājayúḥ ǁtvam ǀ agne ǀ rājā ǀ varuṇaḥ ǀ dhṛta-vrataḥ ǀ tvam ǀ mitraḥ ǀ bhavasi ǀ dasmaḥ ǀ īḍyaḥ ǀ
tvam ǀ aryamā ǀ sat-patiḥ ǀ yasya ǀ sam-bhujam ǀ tvam ǀ aṃśaḥ ǀ vidathe ǀ deva ǀ bhājayuḥ ǁ2.1.4 Aṣṭaka 2.5.17.4Anuvāka 2.1.4
-
Ṛk 5
त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्यं॑ ।
त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसुः॑ ॥त्वम् अग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् |
त्वम् आशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ||tvámagne tváṣṭā vidhaté suvī́ryam táva gnā́vo mitramahaḥ sajātyám ǀ
tvámāśuhémā rariṣe sváśvyam tvám narā́m śárdho asi purūvásuḥ ǁtvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam |
tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ ||त्वम् । अ॒ग्ने॒ । त्वष्टा॑ । वि॒ध॒ते । सु॒ऽवीर्य॑म् । तव॑ । ग्नावः॑ । मि॒त्र॒ऽम॒हः॒ । स॒ऽजा॒त्य॑म् ।
त्वम् । आ॒शु॒ऽहेमा॑ । र॒रि॒षे॒ । सु॒ऽअश्व्य॑म् । त्वम् । न॒राम् । शर्धः॑ । अ॒सि॒ । पु॒रु॒ऽवसुः॑ ॥त्वम् । अग्ने । त्वष्टा । विधते । सुऽवीर्यम् । तव । ग्नावः । मित्रऽमहः । सऽजात्यम् ।
त्वम् । आशुऽहेमा । ररिषे । सुऽअश्व्यम् । त्वम् । नराम् । शर्धः । असि । पुरुऽवसुः ॥tvám ǀ agne ǀ tváṣṭā ǀ vidhaté ǀ su-vī́ryam ǀ táva ǀ gnā́vaḥ ǀ mitra-mahaḥ ǀ sa-jātyám ǀ
tvám ǀ āśu-hémā ǀ rariṣe ǀ su-áśvyam ǀ tvám ǀ narā́m ǀ śárdhaḥ ǀ asi ǀ puru-vásuḥ ǁtvam ǀ agne ǀ tvaṣṭā ǀ vidhate ǀ su-vīryam ǀ tava ǀ gnāvaḥ ǀ mitra-mahaḥ ǀ sa-jātyam ǀ
tvam ǀ āśu-hemā ǀ rariṣe ǀ su-aśvyam ǀ tvam ǀ narām ǀ śardhaḥ ǀ asi ǀ puru-vasuḥ ǁ2.1.5 Aṣṭaka 2.5.17.5Anuvāka 2.1.5
-
Ṛk 6
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ॥त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वं शर्धो मारुतम् पृक्ष ईशिषे |
त्वं वातैर् अरुणैर् यासि शङ्गयस् त्वम् पूषा विधतः पासि नु त्मना ||tvámagne rudró ásuro mahó divástvám śárdho mā́rutam pṛkṣá īśiṣe ǀ
tvám vā́tairaruṇáiryāsi śaṃgayástvám pūṣā́ vidhatáḥ pāsi nú tmánā ǁtvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe |
tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā ||त्वम् । अ॒ग्ने॒ । रु॒द्रः । असु॑रः । म॒हः । दि॒वः । त्वम् । शर्धः॑ । मारु॑तम् । पृ॒क्षः । ई॒शि॒षे॒ ।
त्वम् । वातैः॑ । अ॒रु॒णैः । या॒सि॒ । श॒म्ऽग॒यः । त्वम् । पू॒षा । वि॒ध॒तः । पा॒सि॒ । नु । त्मना॑ ॥त्वम् । अग्ने । रुद्रः । असुरः । महः । दिवः । त्वम् । शर्धः । मारुतम् । पृक्षः । ईशिषे ।
त्वम् । वातैः । अरुणैः । यासि । शम्ऽगयः । त्वम् । पूषा । विधतः । पासि । नु । त्मना ॥tvám ǀ agne ǀ rudráḥ ǀ ásuraḥ ǀ maháḥ ǀ diváḥ ǀ tvám ǀ śárdhaḥ ǀ mā́rutam ǀ pṛkṣáḥ ǀ īśiṣe ǀ
tvám ǀ vā́taiḥ ǀ aruṇáiḥ ǀ yāsi ǀ śam-gayáḥ ǀ tvám ǀ pūṣā́ ǀ vidhatáḥ ǀ pāsi ǀ nú ǀ tmánā ǁtvam ǀ agne ǀ rudraḥ ǀ asuraḥ ǀ mahaḥ ǀ divaḥ ǀ tvam ǀ śardhaḥ ǀ mārutam ǀ pṛkṣaḥ ǀ īśiṣe ǀ
tvam ǀ vātaiḥ ǀ aruṇaiḥ ǀ yāsi ǀ śam-gayaḥ ǀ tvam ǀ pūṣā ǀ vidhataḥ ǀ pāsi ǀ nu ǀ tmanā ǁ2.1.6 Aṣṭaka 2.5.18.1Anuvāka 2.1.6
-
Ṛk 7
त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि ।
त्वं भगो॑ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ॥त्वम् अग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि |
त्वम् भगो नृपते वस्व ईशिषे त्वम् पायुर् दमे यस् ते ऽविधत् ||tvámagne draviṇodā́ araṃkṛ́te tvám deváḥ savitā́ ratnadhā́ asi ǀ
tvám bhágo nṛpate vásva īśiṣe tvám pāyúrdáme yásté’vidhat ǁtvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi |
tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat ||त्वम् । अ॒ग्ने॒ । द्र॒वि॒णः॒ऽदाः । अ॒र॒म्ऽकृते॑ । त्वम् । दे॒वः । स॒वि॒ता । र॒त्न॒ऽधाः । अ॒सि॒ ।
त्वम् । भगः॑ । नृ॒ऽप॒ते॒ । वस्वः॑ । ई॒शि॒षे॒ । त्वम् । पा॒युः । दमे॑ । यः । ते॒ । अवि॑धत् ॥त्वम् । अग्ने । द्रविणःऽदाः । अरम्ऽकृते । त्वम् । देवः । सविता । रत्नऽधाः । असि ।
त्वम् । भगः । नृऽपते । वस्वः । ईशिषे । त्वम् । पायुः । दमे । यः । ते । अविधत् ॥tvám ǀ agne ǀ draviṇaḥ-dā́ḥ ǀ aram-kṛ́te ǀ tvám ǀ deváḥ ǀ savitā́ ǀ ratna-dhā́ḥ ǀ asi ǀ
tvám ǀ bhágaḥ ǀ nṛ-pate ǀ vásvaḥ ǀ īśiṣe ǀ tvám ǀ pāyúḥ ǀ dáme ǀ yáḥ ǀ te ǀ ávidhat ǁtvam ǀ agne ǀ draviṇaḥ-dāḥ ǀ aram-kṛte ǀ tvam ǀ devaḥ ǀ savitā ǀ ratna-dhāḥ ǀ asi ǀ
tvam ǀ bhagaḥ ǀ nṛ-pate ǀ vasvaḥ ǀ īśiṣe ǀ tvam ǀ pāyuḥ ǀ dame ǀ yaḥ ǀ te ǀ avidhat ǁ2.1.7 Aṣṭaka 2.5.18.2Anuvāka 2.1.7
-
Ṛk 8
त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा॑नं सुवि॒दत्र॑मृंजते ।
त्वं विश्वा॑नि स्वनीक पत्यसे॒ त्वं स॒हस्रा॑णि श॒ता दश॒ प्रति॑ ॥त्वाम् अग्ने दम आ विश्पतिं विशस् त्वां राजानं सुविदत्रम् ऋञ्जते |
त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ||tvā́magne dáma ā́ viśpátim víśastvā́m rā́jānam suvidátramṛñjate ǀ
tvám víśvāni svanīka patyase tvám sahásrāṇi śatā́ dáśa práti ǁtvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate |
tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati ||त्वाम् । अ॒ग्ने॒ । दमे॑ । आ । वि॒श्पति॑म् । विशः॑ । त्वाम् । राजा॑नम् । सु॒ऽवि॒दत्र॑म् । ऋ॒ञ्ज॒ते॒ ।
त्वम् । विश्वा॑नि । सु॒ऽअ॒नी॒क॒ । प॒त्य॒से॒ । त्वम् । स॒हस्रा॑णि । श॒ता । दश॑ । प्रति॑ ॥त्वाम् । अग्ने । दमे । आ । विश्पतिम् । विशः । त्वाम् । राजानम् । सुऽविदत्रम् । ऋञ्जते ।
त्वम् । विश्वानि । सुऽअनीक । पत्यसे । त्वम् । सहस्राणि । शता । दश । प्रति ॥tvā́m ǀ agne ǀ dáme ǀ ā́ ǀ viśpátim ǀ víśaḥ ǀ tvā́m ǀ rā́jānam ǀ su-vidátram ǀ ṛñjate ǀ
tvám ǀ víśvāni ǀ su-anīka ǀ patyase ǀ tvám ǀ sahásrāṇi ǀ śatā́ ǀ dáśa ǀ práti ǁtvām ǀ agne ǀ dame ǀ ā ǀ viśpatim ǀ viśaḥ ǀ tvām ǀ rājānam ǀ su-vidatram ǀ ṛñjate ǀ
tvam ǀ viśvāni ǀ su-anīka ǀ patyase ǀ tvam ǀ sahasrāṇi ǀ śatā ǀ daśa ǀ prati ǁ2.1.8 Aṣṭaka 2.5.18.3Anuvāka 2.1.8
-
Ṛk 9
त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या॑ तनू॒रुचं॑ ।
त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त्त्वं सखा॑ सु॒शेवः॑ पास्या॒धृषः॑ ॥त्वाम् अग्ने पितरम् इष्टिभिर् नरस् त्वाम् भ्रात्राय शम्या तनूरुचम् |
त्वम् पुत्रो भवसि यस् ते ऽविधत् त्वं सखा सुशेवः पास्य् आधृषः ||tvā́magne pitáramiṣṭíbhirnárastvā́m bhrātrā́ya śámyā tanūrúcam ǀ
tvám putró bhavasi yásté’vidhattvám sákhā suśévaḥ pāsyādhṛ́ṣaḥ ǁtvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam |
tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ ||त्वाम् । अ॒ग्ने॒ । पि॒तर॑म् । इ॒ष्टिऽभिः॑ । नरः॑ । त्वाम् । भ्रा॒त्राय॑ । शम्या॑ । त॒नू॒ऽरुच॑म् ।
त्वम् । पु॒त्रः । भ॒व॒सि॒ । यः । ते॒ । अवि॑धत् । त्वम् । सखा॑ । सु॒ऽशेवः॑ । पा॒सि॒ । आ॒ऽधृषः॑ ॥त्वाम् । अग्ने । पितरम् । इष्टिऽभिः । नरः । त्वाम् । भ्रात्राय । शम्या । तनूऽरुचम् ।
त्वम् । पुत्रः । भवसि । यः । ते । अविधत् । त्वम् । सखा । सुऽशेवः । पासि । आऽधृषः ॥tvā́m ǀ agne ǀ pitáram ǀ iṣṭí-bhiḥ ǀ náraḥ ǀ tvā́m ǀ bhrātrā́ya ǀ śámyā ǀ tanū-rúcam ǀ
tvám ǀ putráḥ ǀ bhavasi ǀ yáḥ ǀ te ǀ ávidhat ǀ tvám ǀ sákhā ǀ su-śévaḥ ǀ pāsi ǀ ā-dhṛ́ṣaḥ ǁtvām ǀ agne ǀ pitaram ǀ iṣṭi-bhiḥ ǀ naraḥ ǀ tvām ǀ bhrātrāya ǀ śamyā ǀ tanū-rucam ǀ
tvam ǀ putraḥ ǀ bhavasi ǀ yaḥ ǀ te ǀ avidhat ǀ tvam ǀ sakhā ǀ su-śevaḥ ǀ pāsi ǀ ā-dhṛṣaḥ ǁ2.1.9 Aṣṭaka 2.5.18.4Anuvāka 2.1.9
-
Ṛk 10
त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॒॑स्त्वं वाज॑स्य क्षु॒मतो॑ रा॒य ई॑शिषे ।
त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ॥त्वम् अग्न ऋभुर् आके नमस्यस् त्वं वाजस्य क्षुमतो राय ईशिषे |
त्वं वि भास्य् अनु दक्षि दावने त्वं विशिक्षुर् असि यज्ञम् आतनिः ||tvámagna ṛbhúrāké namasyástvám vā́jasya kṣumáto rāyá īśiṣe ǀ
tvám ví bhāsyánu dakṣi dāváne tvám viśíkṣurasi yajñámātániḥ ǁtvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe |
tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ ||त्वम् । अ॒ग्ने॒ । ऋ॒भुः । आ॒के । न॒म॒स्यः॑ । त्वम् । वाज॑स्य । क्षु॒ऽमतः॑ । रा॒यः । ई॒शि॒षे॒ ।
त्वम् । वि । भा॒सि॒ । अनु॑ । ध॒क्षि॒ । दा॒वने॑ । त्वम् । वि॒ऽशिक्षुः॑ । अ॒सि॒ । य॒ज्ञम् । आ॒ऽतनिः॑ ॥त्वम् । अग्ने । ऋभुः । आके । नमस्यः । त्वम् । वाजस्य । क्षुऽमतः । रायः । ईशिषे ।
त्वम् । वि । भासि । अनु । धक्षि । दावने । त्वम् । विऽशिक्षुः । असि । यज्ञम् । आऽतनिः ॥tvám ǀ agne ǀ ṛbhúḥ ǀ āké ǀ namasyáḥ ǀ tvám ǀ vā́jasya ǀ kṣu-mátaḥ ǀ rāyáḥ ǀ īśiṣe ǀ
tvám ǀ ví ǀ bhāsi ǀ ánu ǀ dhakṣi ǀ dāváne ǀ tvám ǀ vi-śíkṣuḥ ǀ asi ǀ yajñám ǀ ā-tániḥ ǁtvam ǀ agne ǀ ṛbhuḥ ǀ āke ǀ namasyaḥ ǀ tvam ǀ vājasya ǀ kṣu-mataḥ ǀ rāyaḥ ǀ īśiṣe ǀ
tvam ǀ vi ǀ bhāsi ǀ anu ǀ dhakṣi ǀ dāvane ǀ tvam ǀ vi-śikṣuḥ ǀ asi ǀ yajñam ǀ ā-taniḥ ǁ2.1.10 Aṣṭaka 2.5.18.5Anuvāka 2.1.10
-
Ṛk 11
त्वम॑ग्ने॒ अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा ।
त्वमिळा॑ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ॥त्वम् अग्ने अदितिर् देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा |
त्वम् इऌआ शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ||tvámagne áditirdeva dāśúṣe tvám hótrā bhā́ratī vardhase girā́ ǀ
tvámíḷā śatáhimāsi dákṣase tvám vṛtrahā́ vasupate sárasvatī ǁtvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā |
tvam iḷā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī ||त्वम् । अ॒ग्ने॒ । अदि॑तिः । दे॒व॒ । दा॒शुषे॑ । त्वम् । होत्रा॑ । भार॑ती । व॒र्ध॒से॒ । गि॒रा ।
त्वम् । इळा॑ । श॒तऽहि॑मा । अ॒सि॒ । दक्ष॑से । त्वम् । वृ॒त्र॒ऽहा । व॒सु॒ऽप॒ते॒ । सर॑स्वती ॥त्वम् । अग्ने । अदितिः । देव । दाशुषे । त्वम् । होत्रा । भारती । वर्धसे । गिरा ।
त्वम् । इळा । शतऽहिमा । असि । दक्षसे । त्वम् । वृत्रऽहा । वसुऽपते । सरस्वती ॥tvám ǀ agne ǀ áditiḥ ǀ deva ǀ dāśúṣe ǀ tvám ǀ hótrā ǀ bhā́ratī ǀ vardhase ǀ girā́ ǀ
tvám ǀ íḷā ǀ śatá-himā ǀ asi ǀ dákṣase ǀ tvám ǀ vṛtra-hā́ ǀ vasu-pate ǀ sárasvatī ǁtvam ǀ agne ǀ aditiḥ ǀ deva ǀ dāśuṣe ǀ tvam ǀ hotrā ǀ bhāratī ǀ vardhase ǀ girā ǀ
tvam ǀ iḷā ǀ śata-himā ǀ asi ǀ dakṣase ǀ tvam ǀ vṛtra-hā ǀ vasu-pate ǀ sarasvatī ǁ2.1.11 Aṣṭaka 2.5.19.1Anuvāka 2.1.11
-
Ṛk 12
त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ ।
त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥त्वम् अग्ने सुभृत उत्तमं वयस् तव स्पार्हे वर्ण आ संदृशि श्रियः |
त्वं वाजः प्रतरणो बृहन्न् असि त्वं रयिर् बहुलो विश्वतस् पृथुः ||tvámagne súbhṛta uttamám váyastáva spārhé várṇa ā́ saṃdṛ́śi śríyaḥ ǀ
tvám vā́jaḥ pratáraṇo bṛhánnasi tvám rayírbahuló viśvátaspṛthúḥ ǁtvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ |
tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ ||त्वम् । अ॒ग्ने॒ । सुऽभृ॑तः । उ॒त्ऽत॒मम् । वयः॑ । तव॑ । स्पा॒र्हे । वर्णे॑ । आ । स॒म्ऽदृशि॑ । श्रियः॑ ।
त्वम् । वाजः॑ । प्र॒ऽतर॑णः । बृ॒हन् । अ॒सि॒ । त्वम् । र॒यिः । ब॒हु॒लः । वि॒श्वतः॑ । पृ॒थुः ॥त्वम् । अग्ने । सुऽभृतः । उत्ऽतमम् । वयः । तव । स्पार्हे । वर्णे । आ । सम्ऽदृशि । श्रियः ।
त्वम् । वाजः । प्रऽतरणः । बृहन् । असि । त्वम् । रयिः । बहुलः । विश्वतः । पृथुः ॥tvám ǀ agne ǀ sú-bhṛtaḥ ǀ ut-tamám ǀ váyaḥ ǀ táva ǀ spārhé ǀ várṇe ǀ ā́ ǀ sam-dṛ́śi ǀ śríyaḥ ǀ
tvám ǀ vā́jaḥ ǀ pra-táraṇaḥ ǀ bṛhán ǀ asi ǀ tvám ǀ rayíḥ ǀ bahuláḥ ǀ viśvátaḥ ǀ pṛthúḥ ǁtvam ǀ agne ǀ su-bhṛtaḥ ǀ ut-tamam ǀ vayaḥ ǀ tava ǀ spārhe ǀ varṇe ǀ ā ǀ sam-dṛśi ǀ śriyaḥ ǀ
tvam ǀ vājaḥ ǀ pra-taraṇaḥ ǀ bṛhan ǀ asi ǀ tvam ǀ rayiḥ ǀ bahulaḥ ǀ viśvataḥ ǀ pṛthuḥ ǁ2.1.12 Aṣṭaka 2.5.19.2Anuvāka 2.1.12
-
Ṛk 13
त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यं१॒॑ त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे ।
त्वां रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑दं॒त्याहु॑तं ॥त्वाम् अग्न आदित्यास आस्यं त्वां जिह्वां शुचयश् चक्रिरे कवे |
त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविर् अदन्त्य् आहुतम् ||tvā́magna ādityā́sa āsyám tvā́m jihvā́m śúcayaścakrire kave ǀ
tvā́m rātiṣā́co adhvaréṣu saścire tvé devā́ havíradantyā́hutam ǁtvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave |
tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam ||त्वाम् । अ॒ग्ने॒ । आ॒दि॒त्यासः॑ । आ॒स्य॑म् । त्वाम् । जि॒ह्वाम् । शुच॑यः । च॒क्रि॒रे॒ । क॒वे॒ ।
त्वाम् । रा॒ति॒ऽसाचः॑ । अ॒ध्व॒रेषु॑ । स॒श्चि॒रे॒ । त्वे इति॑ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ॥त्वाम् । अग्ने । आदित्यासः । आस्यम् । त्वाम् । जिह्वाम् । शुचयः । चक्रिरे । कवे ।
त्वाम् । रातिऽसाचः । अध्वरेषु । सश्चिरे । त्वे इति । देवाः । हविः । अदन्ति । आऽहुतम् ॥tvā́m ǀ agne ǀ ādityā́saḥ ǀ āsyám ǀ tvā́m ǀ jihvā́m ǀ śúcayaḥ ǀ cakrire ǀ kave ǀ
tvā́m ǀ rāti-sā́caḥ ǀ adhvaréṣu ǀ saścire ǀ tvé íti ǀ devā́ḥ ǀ havíḥ ǀ adanti ǀ ā́-hutam ǁtvām ǀ agne ǀ ādityāsaḥ ǀ āsyam ǀ tvām ǀ jihvām ǀ śucayaḥ ǀ cakrire ǀ kave ǀ
tvām ǀ rāti-sācaḥ ǀ adhvareṣu ǀ saścire ǀ tve iti ǀ devāḥ ǀ haviḥ ǀ adanti ǀ ā-hutam ǁ2.1.13 Aṣṭaka 2.5.19.3Anuvāka 2.1.13
-
Ṛk 14
त्वे अ॑ग्ने॒ विश्वे॑ अ॒मृता॑सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑दं॒त्याहु॑तं ।
त्वया॒ मर्ता॑सः स्वदंत आसु॒तिं त्वं गर्भो॑ वी॒रुधां॑ जज्ञिषे॒ शुचिः॑ ॥त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविर् अदन्त्य् आहुतम् |
त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ||tvé agne víśve amṛ́tāso adrúha āsā́ devā́ havíradantyā́hutam ǀ
tváyā mártāsaḥ svadanta āsutím tvám gárbho vīrúdhām jajñiṣe śúciḥ ǁtve agne viśve amṛtāso adruha āsā devā havir adanty āhutam |
tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ ||त्वे इति॑ । अ॒ग्ने॒ । विश्वे॑ । अ॒मृता॑सः । अ॒द्रुहः॑ । आ॒सा । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ।
त्वया॑ । मर्ता॑सः । स्व॒द॒न्ते॒ । आ॒ऽसु॒तिम् । त्वम् । गर्भः॑ । वी॒रुधा॑म् । ज॒ज्ञि॒षे॒ । शुचिः॑ ॥त्वे इति । अग्ने । विश्वे । अमृतासः । अद्रुहः । आसा । देवाः । हविः । अदन्ति । आऽहुतम् ।
त्वया । मर्तासः । स्वदन्ते । आऽसुतिम् । त्वम् । गर्भः । वीरुधाम् । जज्ञिषे । शुचिः ॥tvé íti ǀ agne ǀ víśve ǀ amṛ́tāsaḥ ǀ adrúhaḥ ǀ āsā́ ǀ devā́ḥ ǀ havíḥ ǀ adanti ǀ ā́-hutam ǀ
tváyā ǀ mártāsaḥ ǀ svadante ǀ ā-sutím ǀ tvám ǀ gárbhaḥ ǀ vīrúdhām ǀ jajñiṣe ǀ śúciḥ ǁtve iti ǀ agne ǀ viśve ǀ amṛtāsaḥ ǀ adruhaḥ ǀ āsā ǀ devāḥ ǀ haviḥ ǀ adanti ǀ ā-hutam ǀ
tvayā ǀ martāsaḥ ǀ svadante ǀ ā-sutim ǀ tvam ǀ garbhaḥ ǀ vīrudhām ǀ jajñiṣe ǀ śuciḥ ǁ2.1.14 Aṣṭaka 2.5.19.4Anuvāka 2.1.14
-
Ṛk 15
त्वं तान्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे ।
पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥त्वं तान् सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे |
पृक्षो यद् अत्र महिना वि ते भुवद् अनु द्यावापृथिवी रोदसी उभे ||tvám tā́nsám ca práti cāsi majmánā́gne sujāta prá ca deva ricyase ǀ
pṛkṣó yádátra mahinā́ ví te bhúvadánu dyā́vāpṛthivī́ ródasī ubhé ǁtvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase |
pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe ||त्वम् । तान् । सम् । च॒ । प्रति॑ । च॒ । अ॒सि॒ । म॒ज्मना॑ । अग्ने॑ । सु॒ऽजा॒त॒ । प्र । च॒ । दे॒व॒ । रि॒च्य॒से॒ ।
पृ॒क्षः । यत् । अत्र॑ । म॒हि॒ना । वि । ते॒ । भुव॑त् । अनु॑ । द्यावा॑पृथि॒वी इति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥त्वम् । तान् । सम् । च । प्रति । च । असि । मज्मना । अग्ने । सुऽजात । प्र । च । देव । रिच्यसे ।
पृक्षः । यत् । अत्र । महिना । वि । ते । भुवत् । अनु । द्यावापृथिवी इति । रोदसी इति । उभे इति ॥tvám ǀ tā́n ǀ sám ǀ ca ǀ práti ǀ ca ǀ asi ǀ majmánā ǀ ágne ǀ su-jāta ǀ prá ǀ ca ǀ deva ǀ ricyase ǀ
pṛkṣáḥ ǀ yát ǀ átra ǀ mahinā́ ǀ ví ǀ te ǀ bhúvat ǀ ánu ǀ dyā́vāpṛthivī́ íti ǀ ródasī íti ǀ ubhé íti ǁtvam ǀ tān ǀ sam ǀ ca ǀ prati ǀ ca ǀ asi ǀ majmanā ǀ agne ǀ su-jāta ǀ pra ǀ ca ǀ deva ǀ ricyase ǀ
pṛkṣaḥ ǀ yat ǀ atra ǀ mahinā ǀ vi ǀ te ǀ bhuvat ǀ anu ǀ dyāvāpṛthivī iti ǀ rodasī iti ǀ ubhe iti ǁ2.1.15 Aṣṭaka 2.5.19.5Anuvāka 2.1.15
-
Ṛk 16
ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जंति॑ सू॒रयः॑ ।
अ॒स्मांच॒ तांश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः |
अस्माञ् च तांश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ||yé stotṛ́bhyo góagrāmáśvapeśasamágne rātímupasṛjánti sūráyaḥ ǀ
asmā́ñca tā́ṃśca prá hí néṣi vásya ā́ bṛhádvadema vidáthe suvī́rāḥ ǁye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ |
asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ ||ये । स्तो॒तृऽभ्यः॑ । गोऽअ॑ग्राम् । अश्व॑ऽपेशसम् । अग्ने॑ । रा॒तिम् । उ॒प॒ऽसृ॒जन्ति॑ । सू॒रयः॑ ।
अ॒स्मान् । च॒ । तान् । च॒ । प्र । हि । नेषि॑ । वस्यः॑ । आ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥ये । स्तोतृऽभ्यः । गोऽअग्राम् । अश्वऽपेशसम् । अग्ने । रातिम् । उपऽसृजन्ति । सूरयः ।
अस्मान् । च । तान् । च । प्र । हि । नेषि । वस्यः । आ । बृहत् । वदेम । विदथे । सुऽवीराः ॥yé ǀ stotṛ́-bhyaḥ ǀ gó-agrām ǀ áśva-peśasam ǀ ágne ǀ rātím ǀ upa-sṛjánti ǀ sūráyaḥ ǀ
asmā́n ǀ ca ǀ tā́n ǀ ca ǀ prá ǀ hí ǀ néṣi ǀ vásyaḥ ǀ ā́ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁye ǀ stotṛ-bhyaḥ ǀ go-agrām ǀ aśva-peśasam ǀ agne ǀ rātim ǀ upa-sṛjanti ǀ sūrayaḥ ǀ
asmān ǀ ca ǀ tān ǀ ca ǀ pra ǀ hi ǀ neṣi ǀ vasyaḥ ǀ ā ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ2.1.16 Aṣṭaka 2.5.19.6Anuvāka 2.1.16
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.