Ṛk 2.1.10
Saṃhitā
त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॒॑स्त्वं वाज॑स्य क्षु॒मतो॑ रा॒य ई॑शिषे ।
त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ॥
त्वम् अग्न ऋभुर् आके नमस्यस् त्वं वाजस्य क्षुमतो राय ईशिषे |
त्वं वि भास्य् अनु दक्षि दावने त्वं विशिक्षुर् असि यज्ञम् आतनिः ||
tvámagna ṛbhúrāké namasyástvám vā́jasya kṣumáto rāyá īśiṣe ǀ
tvám ví bhāsyánu dakṣi dāváne tvám viśíkṣurasi yajñámātániḥ ǁ
tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe |
tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ ||
Padapāṭha
त्वम् । अ॒ग्ने॒ । ऋ॒भुः । आ॒के । न॒म॒स्यः॑ । त्वम् । वाज॑स्य । क्षु॒ऽमतः॑ । रा॒यः । ई॒शि॒षे॒ ।
त्वम् । वि । भा॒सि॒ । अनु॑ । ध॒क्षि॒ । दा॒वने॑ । त्वम् । वि॒ऽशिक्षुः॑ । अ॒सि॒ । य॒ज्ञम् । आ॒ऽतनिः॑ ॥
त्वम् । अग्ने । ऋभुः । आके । नमस्यः । त्वम् । वाजस्य । क्षुऽमतः । रायः । ईशिषे ।
त्वम् । वि । भासि । अनु । धक्षि । दावने । त्वम् । विऽशिक्षुः । असि । यज्ञम् । आऽतनिः ॥
tvám ǀ agne ǀ ṛbhúḥ ǀ āké ǀ namasyáḥ ǀ tvám ǀ vā́jasya ǀ kṣu-mátaḥ ǀ rāyáḥ ǀ īśiṣe ǀ
tvám ǀ ví ǀ bhāsi ǀ ánu ǀ dhakṣi ǀ dāváne ǀ tvám ǀ vi-śíkṣuḥ ǀ asi ǀ yajñám ǀ ā-tániḥ ǁ
tvam ǀ agne ǀ ṛbhuḥ ǀ āke ǀ namasyaḥ ǀ tvam ǀ vājasya ǀ kṣu-mataḥ ǀ rāyaḥ ǀ īśiṣe ǀ
tvam ǀ vi ǀ bhāsi ǀ anu ǀ dhakṣi ǀ dāvane ǀ tvam ǀ vi-śikṣuḥ ǀ asi ǀ yajñam ǀ ā-taniḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.001.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.18.05
- Maṇḍala · Anuvāka · Ṛk
- 02.01.010
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.