Sūkta 21
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles svarāṭtriṣṭup (1, 2); virāḍjagatī (3, 4); nicṛjjagatī (5); triṣṭup (6)
2nd set of styles jagatī (1-5); triṣṭubh (6)
-
Ṛk 1
वि॒श्व॒जिते॑ धन॒जिते॑ स्व॒र्जिते॑ सत्रा॒जिते॑ नृ॒जित॑ उर्वरा॒जिते॑ ।
अ॒श्व॒जिते॑ गो॒जिते॑ अ॒ब्जिते॑ भ॒रेंद्रा॑य॒ सोमं॑ यज॒ताय॑ हर्य॒तं ॥विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते |
अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ||viśvajíte dhanajíte svarjíte satrājíte nṛjíta urvarājíte ǀ
aśvajíte gojíte abjíte bharéndrāya sómam yajatā́ya haryatám ǁviśvajite dhanajite svarjite satrājite nṛjita urvarājite |
aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam ||वि॒श्व॒ऽजिते॑ । ध॒न॒ऽजिते॑ । स्वः॒ऽजिते॑ । स॒त्रा॒ऽजिते॑ । नृ॒ऽजिते॑ । उ॒र्व॒रा॒ऽजिते॑ ।
अ॒श्व॒ऽजिते॑ । गो॒ऽजिते॑ । अ॒प्ऽजिते॑ । भ॒र॒ । इन्द्रा॑य । सोम॑म् । य॒ज॒ताय॑ । ह॒र्य॒तम् ॥विश्वऽजिते । धनऽजिते । स्वःऽजिते । सत्राऽजिते । नृऽजिते । उर्वराऽजिते ।
अश्वऽजिते । गोऽजिते । अप्ऽजिते । भर । इन्द्राय । सोमम् । यजताय । हर्यतम् ॥viśva-jíte ǀ dhana-jíte ǀ svaḥ-jíte ǀ satrā-jíte ǀ nṛ-jíte ǀ urvarā-jíte ǀ
aśva-jíte ǀ go-jíte ǀ ap-jíte ǀ bhara ǀ índrāya ǀ sómam ǀ yajatā́ya ǀ haryatám ǁviśva-jite ǀ dhana-jite ǀ svaḥ-jite ǀ satrā-jite ǀ nṛ-jite ǀ urvarā-jite ǀ
aśva-jite ǀ go-jite ǀ ap-jite ǀ bhara ǀ indrāya ǀ somam ǀ yajatāya ǀ haryatam ǁ2.21.1 Aṣṭaka 2.6.27.1Anuvāka 2.2.96
-
Ṛk 2
अ॒भि॒भुवे॑ऽभिभं॒गाय॑ वन्व॒तेऽषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ।
तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी॑तवे सत्रा॒साहे॒ नम॒ इंद्रा॑य वोचत ॥अभिभुवे ऽभिभङ्गाय वन्वते ऽषाऌहाय सहमानाय वेधसे |
तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ||abhibhúve’bhibhaṅgā́ya vanvaté’ṣāḷhāya sáhamānāya vedháse ǀ
tuvigráye váhnaye duṣṭárītave satrāsā́he náma índrāya vocata ǁabhibhuve 'bhibhaṅgāya vanvate 'ṣāḷhāya sahamānāya vedhase |
tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata ||अ॒भि॒ऽभुवे॑ । अ॒भि॒ऽभ॒ङ्गाय॑ । व॒न्व॒ते । अषा॑ळ्हाय । सह॑मानाय । वे॒धसे॑ ।
तु॒वि॒ऽग्रये॑ । वह्न॑ये । दु॒स्तरी॑तवे । स॒त्रा॒ऽसहे॑ । नमः॑ । इन्द्रा॑य । वो॒च॒त॒ ॥अभिऽभुवे । अभिऽभङ्गाय । वन्वते । अषाळ्हाय । सहमानाय । वेधसे ।
तुविऽग्रये । वह्नये । दुस्तरीतवे । सत्राऽसहे । नमः । इन्द्राय । वोचत ॥abhi-bhúve ǀ abhi-bhaṅgā́ya ǀ vanvaté ǀ áṣāḷhāya ǀ sáhamānāya ǀ vedháse ǀ
tuvi-gráye ǀ váhnaye ǀ dustárītave ǀ satrā-sáhe ǀ námaḥ ǀ índrāya ǀ vocata ǁabhi-bhuve ǀ abhi-bhaṅgāya ǀ vanvate ǀ aṣāḷhāya ǀ sahamānāya ǀ vedhase ǀ
tuvi-graye ǀ vahnaye ǀ dustarītave ǀ satrā-sahe ǀ namaḥ ǀ indrāya ǀ vocata ǁ2.21.2 Aṣṭaka 2.6.27.2Anuvāka 2.2.97
-
Ṛk 3
स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः ।
वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा॑रि॒त इंद्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या॑ ॥सत्रासाहो जनभक्षो जनंसहश् च्यवनो युध्मो अनु जोषम् उक्षितः |
वृतञ्चयः सहुरिर् विक्ष्व् आरित इन्द्रस्य वोचम् प्र कृतानि वीर्या ||satrāsāhó janabhakṣó janaṃsaháścyávano yudhmó ánu jóṣamukṣitáḥ ǀ
vṛtaṃcayáḥ sáhurirvikṣvā́ritá índrasya vocam prá kṛtā́ni vīryā́ ǁsatrāsāho janabhakṣo janaṃsahaś cyavano yudhmo anu joṣam ukṣitaḥ |
vṛtañcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā ||स॒त्रा॒ऽस॒हः । ज॒न॒ऽभ॒क्षः । ज॒न॒म्ऽस॒हः । च्यव॑नः । यु॒ध्मः । अनु॑ । जोष॑म् । उ॒क्षि॒तः ।
वृ॒त॒म्ऽच॒यः । सहु॑रिः । वि॒क्षु । आ॒रि॒तः । इन्द्र॑स्य । वो॒च॒म् । प्र । कृ॒तानि॑ । वी॒र्या॑ ॥सत्राऽसहः । जनऽभक्षः । जनम्ऽसहः । च्यवनः । युध्मः । अनु । जोषम् । उक्षितः ।
वृतम्ऽचयः । सहुरिः । विक्षु । आरितः । इन्द्रस्य । वोचम् । प्र । कृतानि । वीर्या ॥satrā-saháḥ ǀ jana-bhakṣáḥ ǀ janam-saháḥ ǀ cyávanaḥ ǀ yudhmáḥ ǀ ánu ǀ jóṣam ǀ ukṣitáḥ ǀ
vṛtam-cayáḥ ǀ sáhuriḥ ǀ vikṣú ǀ āritáḥ ǀ índrasya ǀ vocam ǀ prá ǀ kṛtā́ni ǀ vīryā́ ǁsatrā-sahaḥ ǀ jana-bhakṣaḥ ǀ janam-sahaḥ ǀ cyavanaḥ ǀ yudhmaḥ ǀ anu ǀ joṣam ǀ ukṣitaḥ ǀ
vṛtam-cayaḥ ǀ sahuriḥ ǀ vikṣu ǀ āritaḥ ǀ indrasya ǀ vocam ǀ pra ǀ kṛtāni ǀ vīryā ǁ2.21.3 Aṣṭaka 2.6.27.3Anuvāka 2.2.98
-
Ṛk 4
अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो गं॑भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः ।
र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिंद्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत् ॥अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः |
रध्रचोदः श्नथनो वीऌइतस् पृथुर् इन्द्रः सुयज्ञ उषसः स्वर् जनत् ||anānudó vṛṣabhó dódhato vadhó gambhīrá ṛṣvó ásamaṣṭakāvyaḥ ǀ
radhracodáḥ śnáthano vīḷitáspṛthúríndraḥ suyajñá uṣásaḥ svárjanat ǁanānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ |
radhracodaḥ śnathano vīḷitas pṛthur indraḥ suyajña uṣasaḥ svar janat ||अ॒न॒नु॒ऽदः । वृ॒ष॒भः । दोध॑तः । व॒धः । ग॒म्भी॒रः । ऋ॒ष्वः । अस॑मष्टऽकाव्यः ।
र॒ध्र॒ऽचो॒दः । श्नथ॑नः । वी॒ळि॒तः । पृ॒थुः । इन्द्रः॑ । सु॒ऽय॒ज्ञः । उ॒षसः॑ । स्वः॑ । ज॒न॒त् ॥अननुऽदः । वृषभः । दोधतः । वधः । गम्भीरः । ऋष्वः । असमष्टऽकाव्यः ।
रध्रऽचोदः । श्नथनः । वीळितः । पृथुः । इन्द्रः । सुऽयज्ञः । उषसः । स्वः । जनत् ॥ananu-dáḥ ǀ vṛṣabháḥ ǀ dódhataḥ ǀ vadháḥ ǀ gambhīráḥ ǀ ṛṣváḥ ǀ ásamaṣṭa-kāvyaḥ ǀ
radhra-codáḥ ǀ śnáthanaḥ ǀ vīḷitáḥ ǀ pṛthúḥ ǀ índraḥ ǀ su-yajñáḥ ǀ uṣásaḥ ǀ sváḥ ǀ janat ǁananu-daḥ ǀ vṛṣabhaḥ ǀ dodhataḥ ǀ vadhaḥ ǀ gambhīraḥ ǀ ṛṣvaḥ ǀ asamaṣṭa-kāvyaḥ ǀ
radhra-codaḥ ǀ śnathanaḥ ǀ vīḷitaḥ ǀ pṛthuḥ ǀ indraḥ ǀ su-yajñaḥ ǀ uṣasaḥ ǀ svaḥ ǀ janat ǁ2.21.4 Aṣṭaka 2.6.27.4Anuvāka 2.2.99
-
Ṛk 5
य॒ज्ञेन॑ गा॒तुम॒प्तुरो॑ विविद्रिरे॒ धियो॑ हिन्वा॒ना उ॒शिजो॑ मनी॒षिणः॑ ।
अ॒भि॒स्वरा॑ नि॒षदा॒ गा अ॑व॒स्यव॒ इंद्रे॑ हिन्वा॒ना द्रवि॑णान्याशत ॥यज्ञेन गातुम् अप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः |
अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्य् आशत ||yajñéna gātúmaptúro vividrire dhíyo hinvānā́ uśíjo manīṣíṇaḥ ǀ
abhisvárā niṣádā gā́ avasyáva índre hinvānā́ dráviṇānyāśata ǁyajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ |
abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata ||य॒ज्ञेन॑ । गा॒तुम् । अ॒प्ऽतुरः॑ । वि॒वि॒द्रि॒रे॒ । धियः॑ । हि॒न्वा॒नाः । उ॒शिजः॑ । म॒नी॒षिणः॑ ।
अ॒भि॒ऽस्वरा॑ । नि॒ऽसदा॑ । गाः । अ॒व॒स्यवः॑ । इन्द्रे॑ । हि॒न्वा॒नाः । द्रवि॑णानि । आ॒श॒त॒ ॥यज्ञेन । गातुम् । अप्ऽतुरः । विविद्रिरे । धियः । हिन्वानाः । उशिजः । मनीषिणः ।
अभिऽस्वरा । निऽसदा । गाः । अवस्यवः । इन्द्रे । हिन्वानाः । द्रविणानि । आशत ॥yajñéna ǀ gātúm ǀ ap-túraḥ ǀ vividrire ǀ dhíyaḥ ǀ hinvānā́ḥ ǀ uśíjaḥ ǀ manīṣíṇaḥ ǀ
abhi-svárā ǀ ni-sádā ǀ gā́ḥ ǀ avasyávaḥ ǀ índre ǀ hinvānā́ḥ ǀ dráviṇāni ǀ āśata ǁyajñena ǀ gātum ǀ ap-turaḥ ǀ vividrire ǀ dhiyaḥ ǀ hinvānāḥ ǀ uśijaḥ ǀ manīṣiṇaḥ ǀ
abhi-svarā ǀ ni-sadā ǀ gāḥ ǀ avasyavaḥ ǀ indre ǀ hinvānāḥ ǀ draviṇāni ǀ āśata ǁ2.21.5 Aṣṭaka 2.6.27.5Anuvāka 2.2.100
-
Ṛk 6
इंद्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे ।
पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्नां॑ ॥इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वम् अस्मे |
पोषं रयीणाम् अरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वम् अह्नाम् ||índra śréṣṭhāni dráviṇāni dhehi cíttim dákṣasya subhagatvámasmé ǀ
póṣam rayīṇā́máriṣṭim tanū́nām svādmā́nam vācáḥ sudinatvámáhnām ǁindra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme |
poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām ||इन्द्र॑ । श्रेष्ठा॑नि । द्रवि॑णानि । धे॒हि॒ । चित्ति॑म् । दक्ष॑स्य । सु॒ऽभ॒ग॒त्वम् । अ॒स्मे इति॑ ।
पोष॑म् । र॒यी॒णाम् । अरि॑ष्टिम् । त॒नूना॑म् । स्वा॒द्मान॑म् । वा॒चः । सु॒दि॒न॒ऽत्वम् । अह्ना॑म् ॥इन्द्र । श्रेष्ठानि । द्रविणानि । धेहि । चित्तिम् । दक्षस्य । सुऽभगत्वम् । अस्मे इति ।
पोषम् । रयीणाम् । अरिष्टिम् । तनूनाम् । स्वाद्मानम् । वाचः । सुदिनऽत्वम् । अह्नाम् ॥índra ǀ śréṣṭhāni ǀ dráviṇāni ǀ dhehi ǀ cíttim ǀ dákṣasya ǀ su-bhagatvám ǀ asmé íti ǀ
póṣam ǀ rayīṇā́m ǀ áriṣṭim ǀ tanū́nām ǀ svādmā́nam ǀ vācáḥ ǀ sudina-tvám ǀ áhnām ǁindra ǀ śreṣṭhāni ǀ draviṇāni ǀ dhehi ǀ cittim ǀ dakṣasya ǀ su-bhagatvam ǀ asme iti ǀ
poṣam ǀ rayīṇām ǀ ariṣṭim ǀ tanūnām ǀ svādmānam ǀ vācaḥ ǀ sudina-tvam ǀ ahnām ǁ2.21.6 Aṣṭaka 2.6.27.6Anuvāka 2.2.101
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.