Sūkta 27
- Devatā देवता
- 1-9, 11-16: Ādityās; 10, 17: Ādityās, Varuṇa
- Ṛṣi ऋषि
- Somahūti Bhārgava Śaunaka Or Kūrma Gārtsamada
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 6, 13-15); triṣṭup (2, 4, 5, 8, 12, 17); svarāṭpaṅkti (9, 10); virāṭtrisṭup (11, 16); bhurikpaṅkti (7)
2nd set of styles triṣṭubh
-
Ṛk 1
इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि ।
शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंशः॑ ॥इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि |
शृणोतु मित्रो अर्यमा भगो नस् तुविजातो वरुणो दक्षो अंशः ||imā́ gíra ādityébhyo ghṛtásnūḥ sanā́drā́jabhyo juhvā́ juhomi ǀ
śṛṇótu mitró aryamā́ bhágo nastuvijātó váruṇo dákṣo áṃśaḥ ǁimā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi |
śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ ||इ॒माः । गिरः॑ । आ॒दि॒त्येभ्यः॑ । घृ॒तऽस्नूः॑ । स॒नात् । राज॑ऽभ्यः । जु॒ह्वा॑ । जु॒हो॒मि॒ ।
शृ॒णोतु॑ । मि॒त्रः । अ॒र्य॒मा । भगः॑ । नः॒ । तु॒वि॒ऽजा॒तः । वरु॑णः । दक्षः॑ । अंशः॑ ॥इमाः । गिरः । आदित्येभ्यः । घृतऽस्नूः । सनात् । राजऽभ्यः । जुह्वा । जुहोमि ।
शृणोतु । मित्रः । अर्यमा । भगः । नः । तुविऽजातः । वरुणः । दक्षः । अंशः ॥imā́ḥ ǀ gíraḥ ǀ ādityébhyaḥ ǀ ghṛtá-snūḥ ǀ sanā́t ǀ rā́ja-bhyaḥ ǀ juhvā́ ǀ juhomi ǀ
śṛṇótu ǀ mitráḥ ǀ aryamā́ ǀ bhágaḥ ǀ naḥ ǀ tuvi-jātáḥ ǀ váruṇaḥ ǀ dákṣaḥ ǀ áṃśaḥ ǁimāḥ ǀ giraḥ ǀ ādityebhyaḥ ǀ ghṛta-snūḥ ǀ sanāt ǀ rāja-bhyaḥ ǀ juhvā ǀ juhomi ǀ
śṛṇotu ǀ mitraḥ ǀ aryamā ǀ bhagaḥ ǀ naḥ ǀ tuvi-jātaḥ ǀ varuṇaḥ ǀ dakṣaḥ ǀ aṃśaḥ ǁ2.27.1 Aṣṭaka 2.7.6.1Anuvāka 2.3.45
-
Ṛk 2
इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ॑र्य॒मा वरु॑णो जुषंत ।
आ॒दि॒त्यासः॒ शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ॥इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त |
आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ||imám stómam sákratavo me adyá mitró aryamā́ váruṇo juṣanta ǀ
ādityā́saḥ śúcayo dhā́rapūtā ávṛjinā anavadyā́ áriṣṭāḥ ǁimaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta |
ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ ||इ॒मम् । स्तोम॑म् । सऽक्र॑तवः । मे॒ । अ॒द्य । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । जु॒ष॒न्त॒ ।
आ॒दि॒त्यासः॑ । शुच॑यः । धार॑ऽपूताः । अवृ॑जिनाः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥इमम् । स्तोमम् । सऽक्रतवः । मे । अद्य । मित्रः । अर्यमा । वरुणः । जुषन्त ।
आदित्यासः । शुचयः । धारऽपूताः । अवृजिनाः । अनवद्याः । अरिष्टाः ॥imám ǀ stómam ǀ sá-kratavaḥ ǀ me ǀ adyá ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ juṣanta ǀ
ādityā́saḥ ǀ śúcayaḥ ǀ dhā́ra-pūtāḥ ǀ ávṛjināḥ ǀ anavadyā́ḥ ǀ áriṣṭāḥ ǁimam ǀ stomam ǀ sa-kratavaḥ ǀ me ǀ adya ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ juṣanta ǀ
ādityāsaḥ ǀ śucayaḥ ǀ dhāra-pūtāḥ ǀ avṛjināḥ ǀ anavadyāḥ ǀ ariṣṭāḥ ǁ2.27.2 Aṣṭaka 2.7.6.2Anuvāka 2.3.46
-
Ṛk 3
त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्सं॑तो भूर्य॒क्षाः ।
अं॒तः प॑श्यंति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दंति॑ ॥त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः |
अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिद् अन्ति ||tá ādityā́sa urávo gabhīrā́ ádabdhāso dípsanto bhūryakṣā́ḥ ǀ
antáḥ paśyanti vṛjinótá sādhú sárvam rā́jabhyaḥ paramā́ cidánti ǁta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ |
antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti ||ते । आ॒दि॒त्यासः॑ । उ॒रवः॑ । ग॒भी॒राः । अद॑ब्धासः । दिप्स॑न्तः । भू॒रि॒ऽअ॒क्षाः ।
अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । वृ॒जि॒ना । उ॒त । सा॒धु । सर्व॑म् । राज॑ऽभ्यः । प॒र॒मा । चि॒त् । अन्ति॑ ॥ते । आदित्यासः । उरवः । गभीराः । अदब्धासः । दिप्सन्तः । भूरिऽअक्षाः ।
अन्तरिति । पश्यन्ति । वृजिना । उत । साधु । सर्वम् । राजऽभ्यः । परमा । चित् । अन्ति ॥té ǀ ādityā́saḥ ǀ urávaḥ ǀ gabhīrā́ḥ ǀ ádabdhāsaḥ ǀ dípsantaḥ ǀ bhūri-akṣā́ḥ ǀ
antáríti ǀ paśyanti ǀ vṛjinā́ ǀ utá ǀ sādhú ǀ sárvam ǀ rā́ja-bhyaḥ ǀ paramā́ ǀ cit ǀ ánti ǁte ǀ ādityāsaḥ ǀ uravaḥ ǀ gabhīrāḥ ǀ adabdhāsaḥ ǀ dipsantaḥ ǀ bhūri-akṣāḥ ǀ
antariti ǀ paśyanti ǀ vṛjinā ǀ uta ǀ sādhu ǀ sarvam ǀ rāja-bhyaḥ ǀ paramā ǀ cit ǀ anti ǁ2.27.3 Aṣṭaka 2.7.6.3Anuvāka 2.3.47
-
Ṛk 4
धा॒रयं॑त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः ।
दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ॥धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः |
दीर्घाधियो रक्षमाणा असुर्यम् ऋतावानश् चयमाना ऋणानि ||dhāráyanta ādityā́so jágatsthā́ devā́ víśvasya bhúvanasya gopā́ḥ ǀ
dīrghā́dhiyo rákṣamāṇā asuryámṛtā́vānaścáyamānā ṛṇā́ni ǁdhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ |
dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni ||धा॒रय॑न्तः । आ॒दि॒त्यासः॑ । जग॑त् । स्थाः । दे॒वाः । विश्व॑स्य । भुव॑नस्य । गो॒पाः ।
दी॒र्घऽधि॑यः । रक्ष॑माणाः । अ॒सु॒र्य॑म् । ऋ॒तऽवा॑नः । चय॑मानाः । ऋ॒णानि॑ ॥धारयन्तः । आदित्यासः । जगत् । स्थाः । देवाः । विश्वस्य । भुवनस्य । गोपाः ।
दीर्घऽधियः । रक्षमाणाः । असुर्यम् । ऋतऽवानः । चयमानाः । ऋणानि ॥dhāráyantaḥ ǀ ādityā́saḥ ǀ jágat ǀ sthā́ḥ ǀ devā́ḥ ǀ víśvasya ǀ bhúvanasya ǀ gopā́ḥ ǀ
dīrghá-dhiyaḥ ǀ rákṣamāṇāḥ ǀ asuryám ǀ ṛtá-vānaḥ ǀ cáyamānāḥ ǀ ṛṇā́ni ǁdhārayantaḥ ǀ ādityāsaḥ ǀ jagat ǀ sthāḥ ǀ devāḥ ǀ viśvasya ǀ bhuvanasya ǀ gopāḥ ǀ
dīrgha-dhiyaḥ ǀ rakṣamāṇāḥ ǀ asuryam ǀ ṛta-vānaḥ ǀ cayamānāḥ ǀ ṛṇāni ǁ2.27.4 Aṣṭaka 2.7.6.4Anuvāka 2.3.48
-
Ṛk 5
वि॒द्यामा॑दित्या॒ अव॑सो वो अ॒स्य यद॑र्यमन्भ॒य आ चि॑न्मयो॒भु ।
यु॒ष्माकं॑ मित्रावरुणा॒ प्रणी॑तौ॒ परि॒ श्वभ्रे॑व दुरि॒तानि॑ वृज्यां ॥विद्याम् आदित्या अवसो वो अस्य यद् अर्यमन् भय आ चिन् मयोभु |
युष्माकम् मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ||vidyā́mādityā ávaso vo asyá yádaryamanbhayá ā́ cinmayobhú ǀ
yuṣmā́kam mitrāvaruṇā práṇītau pári śvábhreva duritā́ni vṛjyām ǁvidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu |
yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām ||वि॒द्याम् । आ॒दि॒त्याः॒ । अव॑सः । वः॒ । अ॒स्य । यत् । अ॒र्य॒म॒न् । भ॒ये । आ । चि॒त् । म॒यः॒ऽभु ।
यु॒ष्माक॑म् । मि॒त्रा॒व॒रु॒णा॒ । प्रऽनी॑तौ । परि॑ । श्वभ्रा॑ऽइव । दुः॒ऽइ॒तानि॑ । वृ॒ज्या॒म् ॥विद्याम् । आदित्याः । अवसः । वः । अस्य । यत् । अर्यमन् । भये । आ । चित् । मयःऽभु ।
युष्माकम् । मित्रावरुणा । प्रऽनीतौ । परि । श्वभ्राऽइव । दुःऽइतानि । वृज्याम् ॥vidyā́m ǀ ādityāḥ ǀ ávasaḥ ǀ vaḥ ǀ asyá ǀ yát ǀ aryaman ǀ bhayé ǀ ā́ ǀ cit ǀ mayaḥ-bhú ǀ
yuṣmā́kam ǀ mitrāvaruṇā ǀ prá-nītau ǀ pári ǀ śvábhrā-iva ǀ duḥ-itā́ni ǀ vṛjyām ǁvidyām ǀ ādityāḥ ǀ avasaḥ ǀ vaḥ ǀ asya ǀ yat ǀ aryaman ǀ bhaye ǀ ā ǀ cit ǀ mayaḥ-bhu ǀ
yuṣmākam ǀ mitrāvaruṇā ǀ pra-nītau ǀ pari ǀ śvabhrā-iva ǀ duḥ-itāni ǀ vṛjyām ǁ2.27.5 Aṣṭaka 2.7.6.5Anuvāka 2.3.49
-
Ṛk 6
सु॒गो हि वो॑ अर्यमन्मित्र॒ पंथा॑ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ ।
तेना॑दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हंतु॒ शर्म॑ ॥सुगो हि वो अर्यमन् मित्र पन्था अनृक्षरो वरुण साधुर् अस्ति |
तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ||sugó hí vo aryamanmitra pánthā anṛkṣaró varuṇa sādhúrásti ǀ
ténādityā ádhi vocatā no yácchatā no duṣparihántu śárma ǁsugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti |
tenādityā adhi vocatā no yacchatā no duṣparihantu śarma ||सु॒ऽगः । हि । वः॒ । अ॒र्य॒म॒न् । मि॒त्र॒ । पन्थाः॑ । अ॒नृ॒क्ष॒रः । व॒रु॒ण॒ । सा॒धुः । अस्ति॑ ।
तेन॑ । आ॒दि॒त्याः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । यच्छ॑त । नः॒ । दुः॒ऽप॒रि॒हन्तु॑ । शर्म॑ ॥सुऽगः । हि । वः । अर्यमन् । मित्र । पन्थाः । अनृक्षरः । वरुण । साधुः । अस्ति ।
तेन । आदित्याः । अधि । वोचत । नः । यच्छत । नः । दुःऽपरिहन्तु । शर्म ॥su-gáḥ ǀ hí ǀ vaḥ ǀ aryaman ǀ mitra ǀ pánthāḥ ǀ anṛkṣaráḥ ǀ varuṇa ǀ sādhúḥ ǀ ásti ǀ
téna ǀ ādityāḥ ǀ ádhi ǀ vocata ǀ naḥ ǀ yácchata ǀ naḥ ǀ duḥ-parihántu ǀ śárma ǁsu-gaḥ ǀ hi ǀ vaḥ ǀ aryaman ǀ mitra ǀ panthāḥ ǀ anṛkṣaraḥ ǀ varuṇa ǀ sādhuḥ ǀ asti ǀ
tena ǀ ādityāḥ ǀ adhi ǀ vocata ǀ naḥ ǀ yacchata ǀ naḥ ǀ duḥ-parihantu ǀ śarma ǁ2.27.6 Aṣṭaka 2.7.7.1Anuvāka 2.3.50
-
Ṛk 7
पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां॑स्यर्य॒मा सु॒गेभिः॑ ।
बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ॥पिपर्तु नो अदिती राजपुत्राति द्वेषांस्य् अर्यमा सुगेभिः |
बृहन् मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ||pípartu no áditī rā́japutrā́ti dvéṣāṃsyaryamā́ sugébhiḥ ǀ
bṛhánmitrásya váruṇasya śármópa syāma puruvī́rā áriṣṭāḥ ǁpipartu no aditī rājaputrāti dveṣāṃsy aryamā sugebhiḥ |
bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ ||पिप॑र्तु । नः॒ । अदि॑तिः । राज॑ऽपु॒त्रा । अति॑ । द्वेषां॑सि । अ॒र्य॒मा । सु॒ऽगेभिः॑ ।
बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । शर्म॑ । उप॑ । स्या॒म॒ । पु॒रु॒ऽवीराः॑ । अरि॑ष्टाः ॥पिपर्तु । नः । अदितिः । राजऽपुत्रा । अति । द्वेषांसि । अर्यमा । सुऽगेभिः ।
बृहत् । मित्रस्य । वरुणस्य । शर्म । उप । स्याम । पुरुऽवीराः । अरिष्टाः ॥pípartu ǀ naḥ ǀ áditiḥ ǀ rā́ja-putrā́ ǀ áti ǀ dvéṣāṃsi ǀ aryamā́ ǀ su-gébhiḥ ǀ
bṛhát ǀ mitrásya ǀ váruṇasya ǀ śárma ǀ úpa ǀ syāma ǀ puru-vī́rāḥ ǀ áriṣṭāḥ ǁpipartu ǀ naḥ ǀ aditiḥ ǀ rāja-putrā ǀ ati ǀ dveṣāṃsi ǀ aryamā ǀ su-gebhiḥ ǀ
bṛhat ǀ mitrasya ǀ varuṇasya ǀ śarma ǀ upa ǀ syāma ǀ puru-vīrāḥ ǀ ariṣṭāḥ ǁ2.27.7 Aṣṭaka 2.7.7.2Anuvāka 2.3.51
-
Ṛk 8
ति॒स्रो भूमी॑र्धारय॒न् त्रीँरु॒त द्यूंत्रीणि॑ व्र॒ता वि॒दथे॑ अं॒तरे॑षां ।
ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥तिस्रो भूमीर् धारयन् त्रींर् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् |
ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ||tisró bhū́mīrdhārayan trī́m̐rutá dyū́ntrī́ṇi vratā́ vidáthe antáreṣām ǀ
ṛténādityā máhi vo mahitvám tádaryamanvaruṇa mitra cā́ru ǁtisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām |
ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru ||ति॒स्रः । भूमीः॑ । धा॒र॒य॒न् । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । व्र॒ता । वि॒दथे॑ । अ॒न्तः । ए॒षा॒म् ।
ऋ॒तेन॑ । आ॒दि॒त्याः॒ । महि॑ । वः॒ । म॒हि॒ऽत्वम् । तत् । अ॒र्य॒म॒न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु॑ ॥तिस्रः । भूमीः । धारयन् । त्रीन् । उत । द्यून् । त्रीणि । व्रता । विदथे । अन्तः । एषाम् ।
ऋतेन । आदित्याः । महि । वः । महिऽत्वम् । तत् । अर्यमन् । वरुण । मित्र । चारु ॥tisráḥ ǀ bhū́mīḥ ǀ dhārayan ǀ trī́n ǀ utá ǀ dyū́n ǀ trī́ṇi ǀ vratā́ ǀ vidáthe ǀ antáḥ ǀ eṣām ǀ
ṛténa ǀ ādityāḥ ǀ máhi ǀ vaḥ ǀ mahi-tvám ǀ tát ǀ aryaman ǀ varuṇa ǀ mitra ǀ cā́ru ǁtisraḥ ǀ bhūmīḥ ǀ dhārayan ǀ trīn ǀ uta ǀ dyūn ǀ trīṇi ǀ vratā ǀ vidathe ǀ antaḥ ǀ eṣām ǀ
ṛtena ǀ ādityāḥ ǀ mahi ǀ vaḥ ǀ mahi-tvam ǀ tat ǀ aryaman ǀ varuṇa ǀ mitra ǀ cāru ǁ2.27.8 Aṣṭaka 2.7.7.3Anuvāka 2.3.52
-
Ṛk 9
त्री रो॑च॒ना दि॒व्या धा॑रयंत हिर॒ण्ययाः॒ शुच॑यो॒ धार॑पूताः ।
अस्व॑प्नजो अनिमि॒षा अद॑ब्धा उरु॒शंसा॑ ऋ॒जवे॒ मर्त्या॑य ॥त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः |
अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ||trī́ rocanā́ divyā́ dhārayanta hiraṇyáyāḥ śúcayo dhā́rapūtāḥ ǀ
ásvapnajo animiṣā́ ádabdhā uruśáṃsā ṛjáve mártyāya ǁtrī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ |
asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya ||त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ । हि॒र॒ण्ययाः॑ । शुच॑यः । धार॑ऽपूताः ।
अस्व॑प्नऽजः । अ॒नि॒ऽमि॒षाः । अद॑ब्धाः । उ॒रु॒ऽशंसाः॑ । ऋ॒जवे॑ । मर्त्या॑य ॥त्री । रोचना । दिव्या । धारयन्त । हिरण्ययाः । शुचयः । धारऽपूताः ।
अस्वप्नऽजः । अनिऽमिषाः । अदब्धाः । उरुऽशंसाः । ऋजवे । मर्त्याय ॥trī́ ǀ rocanā́ ǀ divyā́ ǀ dhārayanta ǀ hiraṇyáyāḥ ǀ śúcayaḥ ǀ dhā́ra-pūtāḥ ǀ
ásvapna-jaḥ ǀ ani-miṣā́ḥ ǀ ádabdhāḥ ǀ uru-śáṃsāḥ ǀ ṛjáve ǀ mártyāya ǁtrī ǀ rocanā ǀ divyā ǀ dhārayanta ǀ hiraṇyayāḥ ǀ śucayaḥ ǀ dhāra-pūtāḥ ǀ
asvapna-jaḥ ǀ ani-miṣāḥ ǀ adabdhāḥ ǀ uru-śaṃsāḥ ǀ ṛjave ǀ martyāya ǁ2.27.9 Aṣṭaka 2.7.7.4Anuvāka 2.3.53
-
Ṛk 10
त्वं विश्वे॑षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ताः॑ ।
श॒तं नो॑ रास्व श॒रदो॑ वि॒चक्षे॒ऽश्यामायूं॑षि॒ सुधि॑तानि॒ पूर्वा॑ ॥त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः |
शतं नो रास्व शरदो विचक्षे ऽश्यामायूंषि सुधितानि पूर्वा ||tvám víśveṣām varuṇāsi rā́jā yé ca devā́ asura yé ca mártāḥ ǀ
śatám no rāsva śarádo vicákṣe’śyā́mā́yūṃṣi súdhitāni pū́rvā ǁtvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ |
śataṃ no rāsva śarado vicakṣe 'śyāmāyūṃṣi sudhitāni pūrvā ||त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ । ये । च॒ । दे॒वाः । अ॒सु॒र॒ । ये । च॒ । मर्ताः॑ ।
श॒तम् । नः॒ । रा॒स्व॒ । श॒रदः॑ । वि॒ऽचक्षे॑ । अ॒श्याम॑ । आयूं॑षि । सुऽधि॑तानि । पूर्वा॑ ॥त्वम् । विश्वेषाम् । वरुण । असि । राजा । ये । च । देवाः । असुर । ये । च । मर्ताः ।
शतम् । नः । रास्व । शरदः । विऽचक्षे । अश्याम । आयूंषि । सुऽधितानि । पूर्वा ॥tvám ǀ víśveṣām ǀ varuṇa ǀ asi ǀ rā́jā ǀ yé ǀ ca ǀ devā́ḥ ǀ asura ǀ yé ǀ ca ǀ mártāḥ ǀ
śatám ǀ naḥ ǀ rāsva ǀ śarádaḥ ǀ vi-cákṣe ǀ aśyā́ma ǀ ā́yūṃṣi ǀ sú-dhitāni ǀ pū́rvā ǁtvam ǀ viśveṣām ǀ varuṇa ǀ asi ǀ rājā ǀ ye ǀ ca ǀ devāḥ ǀ asura ǀ ye ǀ ca ǀ martāḥ ǀ
śatam ǀ naḥ ǀ rāsva ǀ śaradaḥ ǀ vi-cakṣe ǀ aśyāma ǀ āyūṃṣi ǀ su-dhitāni ǀ pūrvā ǁ2.27.10 Aṣṭaka 2.7.7.5Anuvāka 2.3.54
-
Ṛk 11
न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा ।
पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्यां ॥न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा |
पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयं ज्योतिर् अश्याम् ||ná dakṣiṇā́ ví cikite ná savyā́ ná prācī́namādityā nótá paścā́ ǀ
pākyā́ cidvasavo dhīryā́ cidyuṣmā́nīto ábhayam jyótiraśyām ǁna dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā |
pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃ jyotir aśyām ||न । द॒क्षि॒णा । वि । चि॒कि॒ते॒ । न । स॒व्या । न । प्रा॒चीन॑म् । आ॒दि॒त्याः॒ । न । उ॒त । प॒श्चा ।
पा॒क्या॑ । चि॒त् । व॒स॒वः॒ । धी॒र्या॑ । चि॒त् । यु॒ष्माऽनी॑तः । अभ॑यम् । ज्योतिः॑ । अ॒श्या॒म् ॥न । दक्षिणा । वि । चिकिते । न । सव्या । न । प्राचीनम् । आदित्याः । न । उत । पश्चा ।
पाक्या । चित् । वसवः । धीर्या । चित् । युष्माऽनीतः । अभयम् । ज्योतिः । अश्याम् ॥ná ǀ dakṣiṇā́ ǀ ví ǀ cikite ǀ ná ǀ savyā́ ǀ ná ǀ prācī́nam ǀ ādityāḥ ǀ ná ǀ utá ǀ paścā́ ǀ
pākyā́ ǀ cit ǀ vasavaḥ ǀ dhīryā́ ǀ cit ǀ yuṣmā́-nītaḥ ǀ ábhayam ǀ jyótiḥ ǀ aśyām ǁna ǀ dakṣiṇā ǀ vi ǀ cikite ǀ na ǀ savyā ǀ na ǀ prācīnam ǀ ādityāḥ ǀ na ǀ uta ǀ paścā ǀ
pākyā ǀ cit ǀ vasavaḥ ǀ dhīryā ǀ cit ǀ yuṣmā-nītaḥ ǀ abhayam ǀ jyotiḥ ǀ aśyām ǁ2.27.11 Aṣṭaka 2.7.8.1Anuvāka 2.3.55
-
Ṛk 12
यो राज॑भ्य ऋत॒निभ्यो॑ द॒दाश॒ यं व॒र्धयं॑ति पु॒ष्टय॑श्च॒ नित्याः॑ ।
स रे॒वान्या॑ति प्रथ॒मो रथे॑न वसु॒दावा॑ वि॒दथे॑षु प्रश॒स्तः ॥यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश् च नित्याः |
स रेवान् याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ||yó rā́jabhya ṛtaníbhyo dadā́śa yám vardháyanti puṣṭáyaśca nítyāḥ ǀ
sá revā́nyāti prathamó ráthena vasudā́vā vidátheṣu praśastáḥ ǁyo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ |
sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ ||यः । राज॑ऽभ्यः । ऋ॒त॒निऽभ्यः॑ । द॒दाश॑ । यम् । व॒र्धय॑न्ति । पु॒ष्टयः॑ । च॒ । नित्याः॑ ।
सः । रे॒वान् । या॒ति॒ । प्र॒थ॒मः । रथे॑न । व॒सु॒ऽदावा॑ । वि॒दथे॑षु । प्र॒ऽश॒स्तः ॥यः । राजऽभ्यः । ऋतनिऽभ्यः । ददाश । यम् । वर्धयन्ति । पुष्टयः । च । नित्याः ।
सः । रेवान् । याति । प्रथमः । रथेन । वसुऽदावा । विदथेषु । प्रऽशस्तः ॥yáḥ ǀ rā́ja-bhyaḥ ǀ ṛtaní-bhyaḥ ǀ dadā́śa ǀ yám ǀ vardháyanti ǀ puṣṭáyaḥ ǀ ca ǀ nítyāḥ ǀ
sáḥ ǀ revā́n ǀ yāti ǀ prathamáḥ ǀ ráthena ǀ vasu-dā́vā ǀ vidátheṣu ǀ pra-śastáḥ ǁyaḥ ǀ rāja-bhyaḥ ǀ ṛtani-bhyaḥ ǀ dadāśa ǀ yam ǀ vardhayanti ǀ puṣṭayaḥ ǀ ca ǀ nityāḥ ǀ
saḥ ǀ revān ǀ yāti ǀ prathamaḥ ǀ rathena ǀ vasu-dāvā ǀ vidatheṣu ǀ pra-śastaḥ ǁ2.27.12 Aṣṭaka 2.7.8.2Anuvāka 2.3.56
-
Ṛk 13
शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ ।
नकि॒ष्टं घ्नं॒त्यंति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः |
नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ ||śúcirapáḥ sūyávasā ádabdha úpa kṣeti vṛddhávayāḥ suvī́raḥ ǀ
nákiṣṭám ghnantyántito ná dūrā́dyá ādityā́nām bhávati práṇītau ǁśucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ |
nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau ||शुचिः॑ । अ॒पः । सु॒ऽयव॑साः । अद॑ब्धः । उप॑ । क्षे॒ति॒ । वृ॒द्धऽव॑याः । सु॒ऽवीरः॑ ।
नकिः॑ । तम् । घ्न॒न्ति॒ । अन्ति॑तः । न । दू॒रात् । यः । आ॒दि॒त्याना॑म् । भव॑ति । प्रऽनी॑तौ ॥शुचिः । अपः । सुऽयवसाः । अदब्धः । उप । क्षेति । वृद्धऽवयाः । सुऽवीरः ।
नकिः । तम् । घ्नन्ति । अन्तितः । न । दूरात् । यः । आदित्यानाम् । भवति । प्रऽनीतौ ॥śúciḥ ǀ apáḥ ǀ su-yávasāḥ ǀ ádabdhaḥ ǀ úpa ǀ kṣeti ǀ vṛddhá-vayāḥ ǀ su-vī́raḥ ǀ
nákiḥ ǀ tám ǀ ghnanti ǀ ántitaḥ ǀ ná ǀ dūrā́t ǀ yáḥ ǀ ādityā́nām ǀ bhávati ǀ prá-nītau ǁśuciḥ ǀ apaḥ ǀ su-yavasāḥ ǀ adabdhaḥ ǀ upa ǀ kṣeti ǀ vṛddha-vayāḥ ǀ su-vīraḥ ǀ
nakiḥ ǀ tam ǀ ghnanti ǀ antitaḥ ǀ na ǀ dūrāt ǀ yaḥ ǀ ādityānām ǀ bhavati ǀ pra-nītau ǁ2.27.13 Aṣṭaka 2.7.8.3Anuvāka 2.3.57
-
Ṛk 14
अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो॑ व॒यं च॑कृ॒मा कच्चि॒दागः॑ ।
उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिंद्र॒ मा नो॑ दी॒र्घा अ॒भि न॑शं॒तमि॑स्राः ॥अदिते मित्र वरुणोत मृऌअ यद् वो वयं चकृमा कच् चिद् आगः |
उर्व् अश्याम् अभयं ज्योतिर् इन्द्र मा नो दीर्घा अभि नशन् तमिस्राः ||ádite mítra váruṇotá mṛḷa yádvo vayám cakṛmā́ káccidā́gaḥ ǀ
urváśyāmábhayam jyótirindra mā́ no dīrghā́ abhí naśantámisrāḥ ǁadite mitra varuṇota mṛḷa yad vo vayaṃ cakṛmā kac cid āgaḥ |
urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ ||अदि॑ते । मित्र॑ । वरु॑ण । उ॒त । मृ॒ळ॒ । यत् । वः॒ । व॒यम् । च॒कृ॒म । कत् । चि॒त् । आगः॑ ।
उ॒रु । अ॒श्या॒म् । अभ॑यम् । ज्योतिः॑ । इ॒न्द्र॒ । मा । नः॒ । दी॒र्घाः । अ॒भि । न॒श॒न् । तमि॑स्राः ॥अदिते । मित्र । वरुण । उत । मृळ । यत् । वः । वयम् । चकृम । कत् । चित् । आगः ।
उरु । अश्याम् । अभयम् । ज्योतिः । इन्द्र । मा । नः । दीर्घाः । अभि । नशन् । तमिस्राः ॥ádite ǀ mítra ǀ váruṇa ǀ utá ǀ mṛḷa ǀ yát ǀ vaḥ ǀ vayám ǀ cakṛmá ǀ kát ǀ cit ǀ ā́gaḥ ǀ
urú ǀ aśyām ǀ ábhayam ǀ jyótiḥ ǀ indra ǀ mā́ ǀ naḥ ǀ dīrghā́ḥ ǀ abhí ǀ naśan ǀ támisrāḥ ǁadite ǀ mitra ǀ varuṇa ǀ uta ǀ mṛḷa ǀ yat ǀ vaḥ ǀ vayam ǀ cakṛma ǀ kat ǀ cit ǀ āgaḥ ǀ
uru ǀ aśyām ǀ abhayam ǀ jyotiḥ ǀ indra ǀ mā ǀ naḥ ǀ dīrghāḥ ǀ abhi ǀ naśan ǀ tamisrāḥ ǁ2.27.14 Aṣṭaka 2.7.8.4Anuvāka 2.3.58
-
Ṛk 15
उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् ।
उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै ॥उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् |
उभा क्षयाव् आजयन् याति पृत्सूभाव् अर्धौ भवतः साधू अस्मै ||ubhé asmai pīpayataḥ samīcī́ divó vṛṣṭím subhágo nā́ma púṣyan ǀ
ubhā́ kṣáyāvājáyanyāti pṛtsū́bhā́várdhau bhavataḥ sādhū́ asmai ǁubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan |
ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai ||उ॒भे इति॑ । अ॒स्मै॒ । पी॒प॒य॒तः॒ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । वृ॒ष्टिम् । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ।
उ॒भा । क्षयौ॑ । आ॒ऽजय॑न् । या॒ति॒ । पृ॒त्ऽसु । उ॒भौ । अर्धौ॑ । भ॒व॒तः॒ । सा॒धू इति॑ । अ॒स्मै॒ ॥उभे इति । अस्मै । पीपयतः । समीची इति सम्ऽईची । दिवः । वृष्टिम् । सुऽभगः । नाम । पुष्यन् ।
उभा । क्षयौ । आऽजयन् । याति । पृत्ऽसु । उभौ । अर्धौ । भवतः । साधू इति । अस्मै ॥ubhé íti ǀ asmai ǀ pīpayataḥ ǀ samīcī́ íti sam-īcī́ ǀ diváḥ ǀ vṛṣṭím ǀ su-bhágaḥ ǀ nā́ma ǀ púṣyan ǀ
ubhā́ ǀ kṣáyau ǀ ā-jáyan ǀ yāti ǀ pṛt-sú ǀ ubháu ǀ árdhau ǀ bhavataḥ ǀ sādhū́ íti ǀ asmai ǁubhe iti ǀ asmai ǀ pīpayataḥ ǀ samīcī iti sam-īcī ǀ divaḥ ǀ vṛṣṭim ǀ su-bhagaḥ ǀ nāma ǀ puṣyan ǀ
ubhā ǀ kṣayau ǀ ā-jayan ǀ yāti ǀ pṛt-su ǀ ubhau ǀ ardhau ǀ bhavataḥ ǀ sādhū iti ǀ asmai ǁ2.27.15 Aṣṭaka 2.7.8.5Anuvāka 2.3.59
-
Ṛk 16
या वो॑ मा॒या अ॑भि॒द्रुहे॑ यजत्राः॒ पाशा॑ आदित्या रि॒पवे॒ विचृ॑त्ताः ।
अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्म॑न्त्स्याम ॥या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः |
अश्वीव तां अति येषं रथेनारिष्टा उराव् आ शर्मन् स्याम ||yā́ vo māyā́ abhidrúhe yajatrāḥ pā́śā ādityā ripáve vícṛttāḥ ǀ
aśvī́va tā́m̐ áti yeṣam ráthenā́riṣṭā urā́vā́ śármantsyāma ǁyā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ |
aśvīva tāṃ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma ||याः । वः॒ । मा॒याः । अ॒भि॒ऽद्रुहे॑ । य॒ज॒त्राः॒ । पाशाः॑ । आ॒दि॒त्याः॒ । रि॒पवे॑ । विऽचृ॑त्ताः ।
अ॒श्वीऽइ॑व । तान् । अति॑ । ये॒ष॒म् । रथे॑न । अरि॑ष्टाः । उ॒रौ । आ । शर्म॑न् । स्या॒म॒ ॥याः । वः । मायाः । अभिऽद्रुहे । यजत्राः । पाशाः । आदित्याः । रिपवे । विऽचृत्ताः ।
अश्वीऽइव । तान् । अति । येषम् । रथेन । अरिष्टाः । उरौ । आ । शर्मन् । स्याम ॥yā́ḥ ǀ vaḥ ǀ māyā́ḥ ǀ abhi-drúhe ǀ yajatrāḥ ǀ pā́śāḥ ǀ ādityāḥ ǀ ripáve ǀ ví-cṛttāḥ ǀ
aśvī́-iva ǀ tā́n ǀ áti ǀ yeṣam ǀ ráthena ǀ áriṣṭāḥ ǀ uráu ǀ ā́ ǀ śárman ǀ syāma ǁyāḥ ǀ vaḥ ǀ māyāḥ ǀ abhi-druhe ǀ yajatrāḥ ǀ pāśāḥ ǀ ādityāḥ ǀ ripave ǀ vi-cṛttāḥ ǀ
aśvī-iva ǀ tān ǀ ati ǀ yeṣam ǀ rathena ǀ ariṣṭāḥ ǀ urau ǀ ā ǀ śarman ǀ syāma ǁ2.27.16 Aṣṭaka 2.7.8.6Anuvāka 2.3.60
-
Ṛk 17
माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।
मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः |
मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ||mā́hám maghóno varuṇa priyásya bhūridā́vna ā́ vidam śū́namāpéḥ ǀ
mā́ rāyó rājantsuyámādáva sthām bṛhádvadema vidáthe suvī́rāḥ ǁmāham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ |
mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ ||मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।
मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरिऽदाव्नः । आ । विदम् । शूनम् । आपेः ।
मा । रायः । राजन् । सुऽयमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥mā́ ǀ ahám ǀ maghónaḥ ǀ varuṇa ǀ priyásya ǀ bhūri-dā́vnaḥ ǀ ā́ ǀ vidam ǀ śū́nam ǀ āpéḥ ǀ
mā́ ǀ rāyáḥ ǀ rājan ǀ su-yámāt ǀ áva ǀ sthām ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁmā ǀ aham ǀ maghonaḥ ǀ varuṇa ǀ priyasya ǀ bhūri-dāvnaḥ ǀ ā ǀ vidam ǀ śūnam ǀ āpeḥ ǀ
mā ǀ rāyaḥ ǀ rājan ǀ su-yamāt ǀ ava ǀ sthām ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ2.27.17 Aṣṭaka 2.7.8.7Anuvāka 2.3.61
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.