Ṛgveda · Maṇḍala 2

Sūkta 23

Brahmaṇaspati · Bṛhaspati · Gṛtsamada Bhārgava Śaunaka · 19 ṛks

Link
Devatā देवता
1, 5, 9, 11, 17, 19: Brahmaṇaspati; 2-4, 6-8, 10, 12-16, 18: Bṛhaspati
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles jagatī (1, 4, 5, 10-12); virāḍjagatī (2, 7-9, 13, 14); nicṛjjagatī (3, 6, 16, 18); bhuriktriṣṭup (15, 17); nicṛttriṣṭup (19)

2nd set of styles jagatī (1-14, 16-18); triṣṭubh (15, 19)

  1. Ṛk 1

    ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमं ।
    ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नं ॥

    गणानां त्वा गणपतिं हवामहे कविं कवीनाम् उपमश्रवस्तमम् |
    ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न् ऊतिभिः सीद सादनम् ||

    gaṇā́nām tvā gaṇápatim havāmahe kavím kavīnā́mupamáśravastamam ǀ
    jyeṣṭharā́jam bráhmaṇām brahmaṇaspata ā́ naḥ śṛṇvánnūtíbhiḥ sīda sā́danam ǁ

    gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam |
    jyeṣṭharājam brahmaṇām brahmaṇas pata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam ||

    ग॒णाना॑म् । त्वा॒ । ग॒णऽप॑तिम् । ह॒वा॒म॒हे॒ । क॒विम् । क॒वी॒नाम् । उ॒प॒मश्र॑वःऽतमम् ।
    ज्ये॒ष्ठ॒ऽराज॑म् । ब्रह्म॑णाम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । आ । नः॒ । शृ॒ण्वन् । ऊ॒तिऽभिः॑ । सी॒द॒ । सद॑नम् ॥

    गणानाम् । त्वा । गणऽपतिम् । हवामहे । कविम् । कवीनाम् । उपमश्रवःऽतमम् ।
    ज्येष्ठऽराजम् । ब्रह्मणाम् । ब्रह्मणः । पते । आ । नः । शृण्वन् । ऊतिऽभिः । सीद । सदनम् ॥

    gaṇā́nām ǀ tvā ǀ gaṇá-patim ǀ havāmahe ǀ kavím ǀ kavīnā́m ǀ upamáśravaḥ-tamam ǀ
    jyeṣṭha-rā́jam ǀ bráhmaṇām ǀ brahmaṇaḥ ǀ pate ǀ ā́ ǀ naḥ ǀ śṛṇván ǀ ūtí-bhiḥ ǀ sīda ǀ sádanam ǁ

    gaṇānām ǀ tvā ǀ gaṇa-patim ǀ havāmahe ǀ kavim ǀ kavīnām ǀ upamaśravaḥ-tamam ǀ
    jyeṣṭha-rājam ǀ brahmaṇām ǀ brahmaṇaḥ ǀ pate ǀ ā ǀ naḥ ǀ śṛṇvan ǀ ūti-bhiḥ ǀ sīda ǀ sadanam ǁ

    2.23.1 Aṣṭaka 2.6.29.1Anuvāka 2.3.1

  2. Ṛk 2

    दे॒वाश्चि॑त्ते असुर्य॒ प्रचे॑तसो॒ बृह॑स्पते य॒ज्ञियं॑ भा॒गमा॑नशुः ।
    उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे॑षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ॥

    देवाश् चित् ते असुर्य प्रचेतसो बृहस्पते यज्ञियम् भागम् आनशुः |
    उस्रा इव सूर्यो ज्योतिषा महो विश्वेषाम् इज् जनिता ब्रह्मणाम् असि ||

    devā́ścitte asurya prácetaso bṛ́haspate yajñíyam bhāgámānaśuḥ ǀ
    usrā́ iva sū́ryo jyótiṣā mahó víśveṣāmíjjanitā́ bráhmaṇāmasi ǁ

    devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ |
    usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi ||

    दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्य॒ । प्रऽचे॑तसः । बृह॑स्पते । य॒ज्ञिय॑म् । भा॒गम् । आ॒न॒शुः॒ ।
    उ॒स्राःऽइ॑व । सूर्यः॑ । ज्योति॑षा । म॒हः । विश्वे॑षाम् । इत् । ज॒नि॒ता । ब्रह्म॑णाम् । अ॒सि॒ ॥

    देवाः । चित् । ते । असुर्य । प्रऽचेतसः । बृहस्पते । यज्ञियम् । भागम् । आनशुः ।
    उस्राःऽइव । सूर्यः । ज्योतिषा । महः । विश्वेषाम् । इत् । जनिता । ब्रह्मणाम् । असि ॥

    devā́ḥ ǀ cit ǀ te ǀ asurya ǀ prá-cetasaḥ ǀ bṛ́haspate ǀ yajñíyam ǀ bhāgám ǀ ānaśuḥ ǀ
    usrā́ḥ-iva ǀ sū́ryaḥ ǀ jyótiṣā ǀ maháḥ ǀ víśveṣām ǀ ít ǀ janitā́ ǀ bráhmaṇām ǀ asi ǁ

    devāḥ ǀ cit ǀ te ǀ asurya ǀ pra-cetasaḥ ǀ bṛhaspate ǀ yajñiyam ǀ bhāgam ǀ ānaśuḥ ǀ
    usrāḥ-iva ǀ sūryaḥ ǀ jyotiṣā ǀ mahaḥ ǀ viśveṣām ǀ it ǀ janitā ǀ brahmaṇām ǀ asi ǁ

    2.23.2 Aṣṭaka 2.6.29.2Anuvāka 2.3.2

  3. Ṛk 3

    आ वि॒बाध्या॑ परि॒राप॒स्तमां॑सि च॒ ज्योति॑ष्मंतं॒ रथ॑मृ॒तस्य॑ तिष्ठसि ।
    बृह॑स्पते भी॒मम॑मित्र॒दंभ॑नं रक्षो॒हणं॑ गोत्र॒भिदं॑ स्व॒र्विदं॑ ॥

    आ विबाध्या परिरापस् तमांसि च ज्योतिष्मन्तं रथम् ऋतस्य तिष्ठसि |
    बृहस्पते भीमम् अमित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ||

    ā́ vibā́dhyā parirā́pastámāṃsi ca jyótiṣmantam ráthamṛtásya tiṣṭhasi ǀ
    bṛ́haspate bhīmámamitradámbhanam rakṣoháṇam gotrabhídam svarvídam ǁ

    ā vibādhyā parirāpas tamāṃsi ca jyotiṣmantaṃ ratham ṛtasya tiṣṭhasi |
    bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam ||

    आ । वि॒ऽबाध्य॑ । प॒रि॒ऽरपः॑ । तमां॑सि । च॒ । ज्योति॑ष्मन्त॑म् । रथ॑म् । ऋ॒तस्य॑ । ति॒ष्ठ॒सि॒ ।
    बृह॑स्पते । भी॒मम् । अ॒मि॒त्र॒ऽदम्भ॑नम् । र॒क्षः॒ऽहन॑म् । गो॒त्र॒ऽभिद॑म् । स्वः॒ऽविद॑म् ॥

    आ । विऽबाध्य । परिऽरपः । तमांसि । च । ज्योतिष्मन्तम् । रथम् । ऋतस्य । तिष्ठसि ।
    बृहस्पते । भीमम् । अमित्रऽदम्भनम् । रक्षःऽहनम् । गोत्रऽभिदम् । स्वःऽविदम् ॥

    ā́ ǀ vi-bā́dhya ǀ pari-rápaḥ ǀ támāṃsi ǀ ca ǀ jyótiṣmantam ǀ rátham ǀ ṛtásya ǀ tiṣṭhasi ǀ
    bṛ́haspate ǀ bhīmám ǀ amitra-dámbhanam ǀ rakṣaḥ-hánam ǀ gotra-bhídam ǀ svaḥ-vídam ǁ

    ā ǀ vi-bādhya ǀ pari-rapaḥ ǀ tamāṃsi ǀ ca ǀ jyotiṣmantam ǀ ratham ǀ ṛtasya ǀ tiṣṭhasi ǀ
    bṛhaspate ǀ bhīmam ǀ amitra-dambhanam ǀ rakṣaḥ-hanam ǀ gotra-bhidam ǀ svaḥ-vidam ǁ

    2.23.3 Aṣṭaka 2.6.29.3Anuvāka 2.3.3

  4. Ṛk 4

    सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो॑ अश्नवत् ।
    ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते॑ महित्व॒नं ॥

    सुनीतिभिर् नयसि त्रायसे जनं यस् तुभ्यं दाशान् न तम् अंहो अश्नवत् |
    ब्रह्मद्विषस् तपनो मन्युमीर् असि बृहस्पते महि तत् ते महित्वनम् ||

    sunītíbhirnayasi trā́yase jánam yástúbhyam dā́śānná támáṃho aśnavat ǀ
    brahmadvíṣastápano manyumī́rasi bṛ́haspate máhi tátte mahitvanám ǁ

    sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat |
    brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam ||

    सु॒नी॒तिऽभिः॑ । न॒य॒सि॒ । त्राय॑से । जन॑म् । यः । तुभ्य॑म् । दाशा॑त् । न । तम् । अंहः॑ । अ॒श्न॒व॒त् ।
    ब्र॒ह्म॒ऽद्विषः॑ । तप॑नः । म॒न्यु॒ऽमीः । अ॒सि॒ । बृह॑स्पते । महि॑ । तत् । ते॒ । म॒हि॒ऽत्व॒नम् ॥

    सुनीतिऽभिः । नयसि । त्रायसे । जनम् । यः । तुभ्यम् । दाशात् । न । तम् । अंहः । अश्नवत् ।
    ब्रह्मऽद्विषः । तपनः । मन्युऽमीः । असि । बृहस्पते । महि । तत् । ते । महिऽत्वनम् ॥

    sunītí-bhiḥ ǀ nayasi ǀ trā́yase ǀ jánam ǀ yáḥ ǀ túbhyam ǀ dā́śāt ǀ ná ǀ tám ǀ áṃhaḥ ǀ aśnavat ǀ
    brahma-dvíṣaḥ ǀ tápanaḥ ǀ manyu-mī́ḥ ǀ asi ǀ bṛ́haspate ǀ máhi ǀ tát ǀ te ǀ mahi-tvanám ǁ

    sunīti-bhiḥ ǀ nayasi ǀ trāyase ǀ janam ǀ yaḥ ǀ tubhyam ǀ dāśāt ǀ na ǀ tam ǀ aṃhaḥ ǀ aśnavat ǀ
    brahma-dviṣaḥ ǀ tapanaḥ ǀ manyu-mīḥ ǀ asi ǀ bṛhaspate ǀ mahi ǀ tat ǀ te ǀ mahi-tvanam ǁ

    2.23.4 Aṣṭaka 2.6.29.4Anuvāka 2.3.4

  5. Ṛk 5

    न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विनः॑ ।
    विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥

    न तम् अंहो न दुरितं कुतश् चन नारातयस् तितिरुर् न द्वयाविनः |
    विश्वा इद् अस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस् पते ||

    ná támáṃho ná duritám kútaścaná nā́rātayastitirurná dvayāvínaḥ ǀ
    víśvā ídasmāddhvaráso ví bādhase yám sugopā́ rákṣasi brahmaṇaspate ǁ

    na tam aṃho na duritaṃ kutaś cana nārātayas titirur na dvayāvinaḥ |
    viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇas pate ||

    न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । कुतः॑ । च॒न । न । अरा॑तयः । ति॒ति॒रुः॒ । न । द्व॒या॒विनः॑ ।
    विश्वाः॑ । इत् । अ॒स्मा॒त् । ध्व॒रसः॑ । वि । बा॒ध॒से॒ । यम् । सु॒ऽगो॒पाः । रक्ष॑सि । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥

    न । तम् । अंहः । न । दुःऽइतम् । कुतः । चन । न । अरातयः । तितिरुः । न । द्वयाविनः ।
    विश्वाः । इत् । अस्मात् । ध्वरसः । वि । बाधसे । यम् । सुऽगोपाः । रक्षसि । ब्रह्मणः । पते ॥

    ná ǀ tám ǀ áṃhaḥ ǀ ná ǀ duḥ-itám ǀ kútaḥ ǀ caná ǀ ná ǀ árātayaḥ ǀ titiruḥ ǀ ná ǀ dvayāvínaḥ ǀ
    víśvāḥ ǀ ít ǀ asmāt ǀ dhvarásaḥ ǀ ví ǀ bādhase ǀ yám ǀ su-gopā́ḥ ǀ rákṣasi ǀ brahmaṇaḥ ǀ pate ǁ

    na ǀ tam ǀ aṃhaḥ ǀ na ǀ duḥ-itam ǀ kutaḥ ǀ cana ǀ na ǀ arātayaḥ ǀ titiruḥ ǀ na ǀ dvayāvinaḥ ǀ
    viśvāḥ ǀ it ǀ asmāt ǀ dhvarasaḥ ǀ vi ǀ bādhase ǀ yam ǀ su-gopāḥ ǀ rakṣasi ǀ brahmaṇaḥ ǀ pate ǁ

    2.23.5 Aṣṭaka 2.6.29.5Anuvāka 2.3.5

  6. Ṛk 6

    त्वं नो॑ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव॑ व्र॒ताय॑ म॒तिभि॑र्जरामहे ।
    बृह॑स्पते॒ यो नो॑ अ॒भि ह्वरो॑ द॒धे स्वा तं म॑र्मर्तु दु॒च्छुना॒ हर॑स्वती ॥

    त्वं नो गोपाः पथिकृद् विचक्षणस् तव व्रताय मतिभिर् जरामहे |
    बृहस्पते यो नो अभि ह्वरो दधे स्वा तम् मर्मर्तु दुच्छुना हरस्वती ||

    tvám no gopā́ḥ pathikṛ́dvicakṣaṇástáva vratā́ya matíbhirjarāmahe ǀ
    bṛ́haspate yó no abhí hváro dadhé svā́ tám marmartu ducchúnā hárasvatī ǁ

    tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe |
    bṛhaspate yo no abhi hvaro dadhe svā tam marmartu ducchunā harasvatī ||

    त्वम् । नः॒ । गो॒पाः । प॒थि॒ऽकृत् । वि॒ऽच॒क्ष॒णः । तव॑ । व्र॒ताय॑ । म॒तिऽभिः॑ । ज॒रा॒म॒हे॒ ।
    बृह॑स्पते । यः । नः॒ । अ॒भि । ह्वरः॑ । द॒धे । स्वा । तम् । म॒र्म॒र्तु॒ । दु॒च्छुना॑ । हर॑स्वती ॥

    त्वम् । नः । गोपाः । पथिऽकृत् । विऽचक्षणः । तव । व्रताय । मतिऽभिः । जरामहे ।
    बृहस्पते । यः । नः । अभि । ह्वरः । दधे । स्वा । तम् । मर्मर्तु । दुच्छुना । हरस्वती ॥

    tvám ǀ naḥ ǀ gopā́ḥ ǀ pathi-kṛ́t ǀ vi-cakṣaṇáḥ ǀ táva ǀ vratā́ya ǀ matí-bhiḥ ǀ jarāmahe ǀ
    bṛ́haspate ǀ yáḥ ǀ naḥ ǀ abhí ǀ hváraḥ ǀ dadhé ǀ svā́ ǀ tám ǀ marmartu ǀ ducchúnā ǀ hárasvatī ǁ

    tvam ǀ naḥ ǀ gopāḥ ǀ pathi-kṛt ǀ vi-cakṣaṇaḥ ǀ tava ǀ vratāya ǀ mati-bhiḥ ǀ jarāmahe ǀ
    bṛhaspate ǀ yaḥ ǀ naḥ ǀ abhi ǀ hvaraḥ ǀ dadhe ǀ svā ǀ tam ǀ marmartu ǀ ducchunā ǀ harasvatī ǁ

    2.23.6 Aṣṭaka 2.6.30.1Anuvāka 2.3.6

  7. Ṛk 7

    उ॒त वा॒ यो नो॑ म॒र्चया॒दना॑गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ ।
    बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो॑ अ॒स्यै दे॒ववी॑तये कृधि ॥

    उत वा यो नो मर्चयाद् अनागसो ऽरातीवा मर्तः सानुको वृकः |
    बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ||

    utá vā yó no marcáyādánāgaso’rātīvā́ mártaḥ sānukó vṛ́kaḥ ǀ
    bṛ́haspate ápa tám vartayā patháḥ sugám no asyái devávītaye kṛdhi ǁ

    uta vā yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ |
    bṛhaspate apa taṃ vartayā pathaḥ sugaṃ no asyai devavītaye kṛdhi ||

    उ॒त । वा॒ । यः । नः॒ । म॒र्चया॑त् । अना॑गसः । अ॒रा॒ति॒ऽवा । मर्तः॑ । सा॒नु॒कः । वृकः॑ ।
    बृह॑स्पते । अप॑ । तम् । व॒र्त॒य॒ । प॒थः । सु॒ऽगम् । नः॒ । अ॒स्यै । दे॒वऽवी॑तये । कृ॒धि॒ ॥

    उत । वा । यः । नः । मर्चयात् । अनागसः । अरातिऽवा । मर्तः । सानुकः । वृकः ।
    बृहस्पते । अप । तम् । वर्तय । पथः । सुऽगम् । नः । अस्यै । देवऽवीतये । कृधि ॥

    utá ǀ vā ǀ yáḥ ǀ naḥ ǀ marcáyāt ǀ ánāgasaḥ ǀ arāti-vā́ ǀ mártaḥ ǀ sānukáḥ ǀ vṛ́kaḥ ǀ
    bṛ́haspate ǀ ápa ǀ tám ǀ vartaya ǀ patháḥ ǀ su-gám ǀ naḥ ǀ asyái ǀ devá-vītaye ǀ kṛdhi ǁ

    uta ǀ vā ǀ yaḥ ǀ naḥ ǀ marcayāt ǀ anāgasaḥ ǀ arāti-vā ǀ martaḥ ǀ sānukaḥ ǀ vṛkaḥ ǀ
    bṛhaspate ǀ apa ǀ tam ǀ vartaya ǀ pathaḥ ǀ su-gam ǀ naḥ ǀ asyai ǀ deva-vītaye ǀ kṛdhi ǁ

    2.23.7 Aṣṭaka 2.6.30.2Anuvāka 2.3.7

  8. Ṛk 8

    त्रा॒तारं॑ त्वा त॒नूनां॑ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युं ।
    बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् ॥

    त्रातारं त्वा तनूनां हवामहे ऽवस्पर्तर् अधिवक्तारम् अस्मयुम् |
    बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नम् उन् नशन् ||

    trātā́ram tvā tanū́nām havāmahé’vaspartaradhivaktā́ramasmayúm ǀ
    bṛ́haspate devanído ní barhaya mā́ durévā úttaram sumnámúnnaśan ǁ

    trātāraṃ tvā tanūnāṃ havāmahe 'vaspartar adhivaktāram asmayum |
    bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan ||

    त्रा॒तार॑म् । त्वा॒ । त॒नूना॑म् । ह॒वा॒म॒हे॒ । अव॑ऽस्पर्तः । अ॒धि॒ऽव॒क्तार॑म् । अ॒स्म॒युम् ।
    बृह॑स्पते । दे॒व॒ऽनिदः॑ । नि । ब॒र्ह॒य॒ । मा । दुः॒ऽएवाः॑ । उत्ऽत॑रम् । सु॒म्नम् । उत् । न॒श॒न् ॥

    त्रातारम् । त्वा । तनूनाम् । हवामहे । अवऽस्पर्तः । अधिऽवक्तारम् । अस्मयुम् ।
    बृहस्पते । देवऽनिदः । नि । बर्हय । मा । दुःऽएवाः । उत्ऽतरम् । सुम्नम् । उत् । नशन् ॥

    trātā́ram ǀ tvā ǀ tanū́nām ǀ havāmahe ǀ áva-spartaḥ ǀ adhi-vaktā́ram ǀ asmayúm ǀ
    bṛ́haspate ǀ deva-nídaḥ ǀ ní ǀ barhaya ǀ mā́ ǀ duḥ-évāḥ ǀ út-taram ǀ sumnám ǀ út ǀ naśan ǁ

    trātāram ǀ tvā ǀ tanūnām ǀ havāmahe ǀ ava-spartaḥ ǀ adhi-vaktāram ǀ asmayum ǀ
    bṛhaspate ǀ deva-nidaḥ ǀ ni ǀ barhaya ǀ mā ǀ duḥ-evāḥ ǀ ut-taram ǀ sumnam ǀ ut ǀ naśan ǁ

    2.23.8 Aṣṭaka 2.6.30.3Anuvāka 2.3.8

  9. Ṛk 9

    त्वया॑ व॒यं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि ।
    या नो॑ दू॒रे त॒ळितो॒ या अरा॑तयो॒ऽभि संति॑ जं॒भया॒ ता अ॑न॒प्नसः॑ ॥

    त्वया वयं सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या ददीमहि |
    या नो दूरे तऌइतो या अरातयो ऽभि सन्ति जम्भया ता अनप्नसः ||

    tváyā vayám suvṛ́dhā brahmaṇaspate spārhā́ vásu manuṣyā́ dadīmahi ǀ
    yā́ no dūré taḷíto yā́ árātayo’bhí sánti jambháyā tā́ anapnásaḥ ǁ

    tvayā vayaṃ suvṛdhā brahmaṇas pate spārhā vasu manuṣyā dadīmahi |
    yā no dūre taḷito yā arātayo 'bhi santi jambhayā tā anapnasaḥ ||

    त्वया॑ । व॒यम् । सु॒ऽवृधा॑ । ब्र॒ह्म॒णः॒ । प॒ते॒ । स्पा॒र्हा । वसु॑ । म॒नु॒ष्या॑ । आ । द॒दी॒म॒हि॒ ।
    याः । नः॒ । दू॒रे । त॒ळितः॑ । याः । अरा॑तयः । अ॒भि । सन्ति॑ । ज॒म्भय॑ । ताः । अ॒न॒प्नसः॑ ॥

    त्वया । वयम् । सुऽवृधा । ब्रह्मणः । पते । स्पार्हा । वसु । मनुष्या । आ । ददीमहि ।
    याः । नः । दूरे । तळितः । याः । अरातयः । अभि । सन्ति । जम्भय । ताः । अनप्नसः ॥

    tváyā ǀ vayám ǀ su-vṛ́dhā ǀ brahmaṇaḥ ǀ pate ǀ spārhā́ ǀ vásu ǀ manuṣyā́ ǀ ā́ ǀ dadīmahi ǀ
    yā́ḥ ǀ naḥ ǀ dūré ǀ taḷítaḥ ǀ yā́ḥ ǀ árātayaḥ ǀ abhí ǀ sánti ǀ jambháya ǀ tā́ḥ ǀ anapnásaḥ ǁ

    tvayā ǀ vayam ǀ su-vṛdhā ǀ brahmaṇaḥ ǀ pate ǀ spārhā ǀ vasu ǀ manuṣyā ǀ ā ǀ dadīmahi ǀ
    yāḥ ǀ naḥ ǀ dūre ǀ taḷitaḥ ǀ yāḥ ǀ arātayaḥ ǀ abhi ǀ santi ǀ jambhaya ǀ tāḥ ǀ anapnasaḥ ǁ

    2.23.9 Aṣṭaka 2.6.30.4Anuvāka 2.3.9

  10. Ṛk 10

    त्वया॑ व॒यमु॑त्त॒मं धी॑महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा ।
    मा नो॑ दुः॒शंसो॑ अभिदि॒प्सुरी॑शत॒ प्र सु॒शंसा॑ म॒तिभि॑स्तारिषीमहि ॥

    त्वया वयम् उत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा |
    मा नो दुःशंसो अभिदिप्सुर् ईशत प्र सुशंसा मतिभिस् तारिषीमहि ||

    tváyā vayámuttamám dhīmahe váyo bṛ́haspate pápriṇā sásninā yujā́ ǀ
    mā́ no duḥśáṃso abhidipsúrīśata prá suśáṃsā matíbhistāriṣīmahi ǁ

    tvayā vayam uttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā |
    mā no duḥśaṃso abhidipsur īśata pra suśaṃsā matibhis tāriṣīmahi ||

    त्वया॑ । व॒यम् । उ॒त्ऽत॒मम् । धी॒म॒हे॒ । वयः॑ । बृह॑स्पते । पप्रि॑णा । सस्नि॑ना । यु॒जा ।
    मा । नः॒ । दुः॒ऽशंसः॑ । अ॒भि॒ऽदि॒प्सुः । ई॒श॒त॒ । प्र । सु॒ऽशंसाः॑ । म॒तिऽभिः॑ । ता॒रि॒षी॒म॒हि॒ ॥

    त्वया । वयम् । उत्ऽतमम् । धीमहे । वयः । बृहस्पते । पप्रिणा । सस्निना । युजा ।
    मा । नः । दुःऽशंसः । अभिऽदिप्सुः । ईशत । प्र । सुऽशंसाः । मतिऽभिः । तारिषीमहि ॥

    tváyā ǀ vayám ǀ ut-tamám ǀ dhīmahe ǀ váyaḥ ǀ bṛ́haspate ǀ pápriṇā ǀ sásninā ǀ yujā́ ǀ
    mā́ ǀ naḥ ǀ duḥ-śáṃsaḥ ǀ abhi-dipsúḥ ǀ īśata ǀ prá ǀ su-śáṃsāḥ ǀ matí-bhiḥ ǀ tāriṣīmahi ǁ

    tvayā ǀ vayam ǀ ut-tamam ǀ dhīmahe ǀ vayaḥ ǀ bṛhaspate ǀ papriṇā ǀ sasninā ǀ yujā ǀ
    mā ǀ naḥ ǀ duḥ-śaṃsaḥ ǀ abhi-dipsuḥ ǀ īśata ǀ pra ǀ su-śaṃsāḥ ǀ mati-bhiḥ ǀ tāriṣīmahi ǁ

    2.23.10 Aṣṭaka 2.6.30.5Anuvāka 2.3.10

  11. Ṛk 11

    अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः ।
    असि॑ स॒त्य ऋ॑ण॒या ब्र॑ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी॑ळुह॒र्षिणः॑ ॥

    अनानुदो वृषभो जग्मिर् आहवं निष्टप्ता शत्रुम् पृतनासु सासहिः |
    असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता वीऌउहर्षिणः ||

    anānudó vṛṣabhó jágmirāhavám níṣṭaptā śátrum pṛ́tanāsu sāsahíḥ ǀ
    ási satyá ṛṇayā́ brahmaṇaspata ugrásya ciddamitā́ vīḷuharṣíṇaḥ ǁ

    anānudo vṛṣabho jagmir āhavaṃ niṣṭaptā śatrum pṛtanāsu sāsahiḥ |
    asi satya ṛṇayā brahmaṇas pata ugrasya cid damitā vīḷuharṣiṇaḥ ||

    अ॒न॒नु॒ऽदः । वृ॒ष॒भः । जग्मिः॑ । आ॒ऽह॒वम् । निःऽत॑प्ता । शत्रु॑म् । पृत॑नासु । स॒स॒हिः ।
    असि॑ । स॒त्यः । ऋ॒ण॒ऽयाः । ब्र॒ह्म॒णः॒ । प॒ते॒ । उ॒ग्रस्य॑ । चि॒त् । द॒मि॒ता । वी॒ळु॒ऽह॒र्षिणः॑ ॥

    अननुऽदः । वृषभः । जग्मिः । आऽहवम् । निःऽतप्ता । शत्रुम् । पृतनासु । ससहिः ।
    असि । सत्यः । ऋणऽयाः । ब्रह्मणः । पते । उग्रस्य । चित् । दमिता । वीळुऽहर्षिणः ॥

    ananu-dáḥ ǀ vṛṣabháḥ ǀ jágmiḥ ǀ ā-havám ǀ níḥ-taptā ǀ śátrum ǀ pṛ́tanāsu ǀ sasahíḥ ǀ
    ási ǀ satyáḥ ǀ ṛṇa-yā́ḥ ǀ brahmaṇaḥ ǀ pate ǀ ugrásya ǀ cit ǀ damitā́ ǀ vīḷu-harṣíṇaḥ ǁ

    ananu-daḥ ǀ vṛṣabhaḥ ǀ jagmiḥ ǀ ā-havam ǀ niḥ-taptā ǀ śatrum ǀ pṛtanāsu ǀ sasahiḥ ǀ
    asi ǀ satyaḥ ǀ ṛṇa-yāḥ ǀ brahmaṇaḥ ǀ pate ǀ ugrasya ǀ cit ǀ damitā ǀ vīḷu-harṣiṇaḥ ǁ

    2.23.11 Aṣṭaka 2.6.31.1Anuvāka 2.3.11

  12. Ṛk 12

    अदे॑वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां॑सति ।
    बृह॑स्पते॒ मा प्रण॒क्तस्य॑ नो व॒धो नि क॑र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ॥

    अदेवेन मनसा यो रिषण्यति शासाम् उग्रो मन्यमानो जिघांसति |
    बृहस्पते मा प्रणक् तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ||

    ádevena mánasā yó riṣaṇyáti śāsā́mugró mányamāno jíghāṃsati ǀ
    bṛ́haspate mā́ práṇaktásya no vadhó ní karma manyúm durévasya śárdhataḥ ǁ

    adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati |
    bṛhaspate mā praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ ||

    अदे॑वेन । मन॑सा । यः । रि॒ष॒ण्यति॑ । शा॒साम् । उ॒ग्रः । मन्य॑मानः । जिघां॑सति ।
    बृह॑स्पते । मा । प्रण॑क् । तस्य॑ । नः॒ । व॒धः । नि । क॒र्म॒ । म॒न्युम् । दुः॒ऽएव॑स्य । शर्ध॑तः ॥

    अदेवेन । मनसा । यः । रिषण्यति । शासाम् । उग्रः । मन्यमानः । जिघांसति ।
    बृहस्पते । मा । प्रणक् । तस्य । नः । वधः । नि । कर्म । मन्युम् । दुःऽएवस्य । शर्धतः ॥

    ádevena ǀ mánasā ǀ yáḥ ǀ riṣaṇyáti ǀ śāsā́m ǀ ugráḥ ǀ mányamānaḥ ǀ jíghāṃsati ǀ
    bṛ́haspate ǀ mā́ ǀ práṇak ǀ tásya ǀ naḥ ǀ vadháḥ ǀ ní ǀ karma ǀ manyúm ǀ duḥ-évasya ǀ śárdhataḥ ǁ

    adevena ǀ manasā ǀ yaḥ ǀ riṣaṇyati ǀ śāsām ǀ ugraḥ ǀ manyamānaḥ ǀ jighāṃsati ǀ
    bṛhaspate ǀ mā ǀ praṇak ǀ tasya ǀ naḥ ǀ vadhaḥ ǀ ni ǀ karma ǀ manyum ǀ duḥ-evasya ǀ śardhataḥ ǁ

    2.23.12 Aṣṭaka 2.6.31.2Anuvāka 2.3.12

  13. Ṛk 13

    भरे॑षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गंता॒ वाजे॑षु॒ सनि॑ता॒ धनं॑धनं ।
    विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒३॒॑मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ॑ इव ॥

    भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं-धनम् |
    विश्वा इद् अर्यो अभिदिप्स्वो मृधो बृहस्पतिर् वि ववर्हा रथां इव ||

    bháreṣu hávyo námasopasádyo gántā vā́jeṣu sánitā dhánaṃdhanam ǀ
    víśvā ídaryó abhidipsvómṛ́dho bṛ́haspátirví vavarhā ráthām̐ iva ǁ

    bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ-dhanam |
    viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṃ iva ||

    भरे॑षु । हव्यः॑ । नम॑सा । उ॒प॒ऽसद्यः॑ । गन्ता॑ । वाजे॑षु । सनि॑ता । धन॑म्ऽधनम् ।
    विश्वाः॑ । इत् । अ॒र्यः । अ॒भि॒ऽदि॒प्स्वः॑ । मृधः॑ । बृह॒स्पतिः॑ । वि । व॒व॒र्ह॒ । रथा॑न्ऽइव ॥

    भरेषु । हव्यः । नमसा । उपऽसद्यः । गन्ता । वाजेषु । सनिता । धनम्ऽधनम् ।
    विश्वाः । इत् । अर्यः । अभिऽदिप्स्वः । मृधः । बृहस्पतिः । वि । ववर्ह । रथान्ऽइव ॥

    bháreṣu ǀ hávyaḥ ǀ námasā ǀ upa-sádyaḥ ǀ gántā ǀ vā́jeṣu ǀ sánitā ǀ dhánam-dhanam ǀ
    víśvāḥ ǀ ít ǀ aryáḥ ǀ abhi-dipsváḥ ǀ mṛ́dhaḥ ǀ bṛ́haspátiḥ ǀ ví ǀ vavarha ǀ ráthān-iva ǁ

    bhareṣu ǀ havyaḥ ǀ namasā ǀ upa-sadyaḥ ǀ gantā ǀ vājeṣu ǀ sanitā ǀ dhanam-dhanam ǀ
    viśvāḥ ǀ it ǀ aryaḥ ǀ abhi-dipsvaḥ ǀ mṛdhaḥ ǀ bṛhaspatiḥ ǀ vi ǀ vavarha ǀ rathān-iva ǁ

    2.23.13 Aṣṭaka 2.6.31.3Anuvāka 2.3.13

  14. Ṛk 14

    तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा॑ नि॒दे द॑धि॒रे दृ॒ष्टवी॑र्यं ।
    आ॒विस्तत्कृ॑ष्व॒ यदस॑त्त उ॒क्थ्यं१॒॑बृह॑स्पते॒ वि प॑रि॒रापो॑ अर्दय ॥

    तेजिष्ठया तपनी रक्षसस् तप ये त्वा निदे दधिरे दृष्टवीर्यम् |
    आविस् तत् कृष्व यद् असत् त उक्थ्यम् बृहस्पते वि परिरापो अर्दय ||

    téjiṣṭhayā tapanī́ rakṣásastapa yé tvā nidé dadhiré dṛṣṭávīryam ǀ
    āvístátkṛṣva yádásatta ukthyám bṛ́haspate ví parirā́po ardaya ǁ

    tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam |
    āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya ||

    तेजि॑ष्ठया । त॒प॒नी । र॒क्षसः॑ । त॒प॒ । ये । त्वा॒ । नि॒दे । द॒धि॒रे । दृ॒ष्टऽवी॑र्यम् ।
    आ॒विः । तत् । कृ॒ष्व॒ । यत् । अस॑त् । ते॒ । उ॒क्थ्य॑म् । बृह॑स्पते । वि । प॒रि॒ऽरपः॑ । अ॒र्द॒य॒ ॥

    तेजिष्ठया । तपनी । रक्षसः । तप । ये । त्वा । निदे । दधिरे । दृष्टऽवीर्यम् ।
    आविः । तत् । कृष्व । यत् । असत् । ते । उक्थ्यम् । बृहस्पते । वि । परिऽरपः । अर्दय ॥

    téjiṣṭhayā ǀ tapanī́ ǀ rakṣásaḥ ǀ tapa ǀ yé ǀ tvā ǀ nidé ǀ dadhiré ǀ dṛṣṭá-vīryam ǀ
    āvíḥ ǀ tát ǀ kṛṣva ǀ yát ǀ ásat ǀ te ǀ ukthyám ǀ bṛ́haspate ǀ ví ǀ pari-rápaḥ ǀ ardaya ǁ

    tejiṣṭhayā ǀ tapanī ǀ rakṣasaḥ ǀ tapa ǀ ye ǀ tvā ǀ nide ǀ dadhire ǀ dṛṣṭa-vīryam ǀ
    āviḥ ǀ tat ǀ kṛṣva ǀ yat ǀ asat ǀ te ǀ ukthyam ǀ bṛhaspate ǀ vi ǀ pari-rapaḥ ǀ ardaya ǁ

    2.23.14 Aṣṭaka 2.6.31.4Anuvāka 2.3.14

  15. Ṛk 15

    बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
    यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं ॥

    बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु |
    यद् दीदयच् छवस ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ||

    bṛ́haspate áti yádaryó árhāddyumádvibhā́ti krátumajjáneṣu ǀ
    yáddīdáyacchávasa ṛtaprajāta tádasmā́su dráviṇam dhehi citrám ǁ

    bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu |
    yad dīdayac chavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram ||

    बृह॑स्पते । अति॑ । यत् । अ॒र्यः । अर्हा॑त् । द्यु॒ऽमत् । वि॒ऽभाति॑ । क्रतु॑ऽमत् । जने॑षु ।
    यत् । दी॒दय॑त् । शव॑सा । ऋ॒त॒ऽप्र॒जा॒त॒ । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥

    बृहस्पते । अति । यत् । अर्यः । अर्हात् । द्युऽमत् । विऽभाति । क्रतुऽमत् । जनेषु ।
    यत् । दीदयत् । शवसा । ऋतऽप्रजात । तत् । अस्मासु । द्रविणम् । धेहि । चित्रम् ॥

    bṛ́haspate ǀ áti ǀ yát ǀ aryáḥ ǀ árhāt ǀ dyu-mát ǀ vi-bhā́ti ǀ krátu-mat ǀ jáneṣu ǀ
    yát ǀ dīdáyat ǀ śávasā ǀ ṛta-prajāta ǀ tát ǀ asmā́su ǀ dráviṇam ǀ dhehi ǀ citrám ǁ

    bṛhaspate ǀ ati ǀ yat ǀ aryaḥ ǀ arhāt ǀ dyu-mat ǀ vi-bhāti ǀ kratu-mat ǀ janeṣu ǀ
    yat ǀ dīdayat ǀ śavasā ǀ ṛta-prajāta ǀ tat ǀ asmāsu ǀ draviṇam ǀ dhehi ǀ citram ǁ

    2.23.15 Aṣṭaka 2.6.31.5Anuvāka 2.3.15

  16. Ṛk 16

    मा नः॑ स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो॑ रि॒पवोऽन्ने॑षु जागृ॒धुः ।
    आ दे॒वाना॒मोह॑ते॒ वि व्रयो॑ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो॑ विदुः ॥

    मा न स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो ऽन्नेषु जागृधुः |
    आ देवानाम् ओहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ||

    mā́ naḥ stenébhyo yé abhí druháspadé nirāmíṇo ripávó’nneṣu jāgṛdhúḥ ǀ
    ā́ devā́nāmóhate ví vráyo hṛdí bṛ́haspate ná paráḥ sā́mno viduḥ ǁ

    mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ |
    ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ ||

    मा । नः॒ । स्ते॒नेभ्यः॑ । ये । अ॒भि । द्रु॒हः । प॒दे । नि॒रा॒मिणः॑ । रि॒पवः॑ । अन्ने॑षु । ज॒गृ॒धुः ।
    आ । दे॒वाना॑म् । ओह॑ते । वि । व्रयः॑ । हृ॒दि । बृह॑स्पते । न । प॒रः । साम्नः॑ । वि॒दुः॒ ॥

    मा । नः । स्तेनेभ्यः । ये । अभि । द्रुहः । पदे । निरामिणः । रिपवः । अन्नेषु । जगृधुः ।
    आ । देवानाम् । ओहते । वि । व्रयः । हृदि । बृहस्पते । न । परः । साम्नः । विदुः ॥

    mā́ ǀ naḥ ǀ stenébhyaḥ ǀ yé ǀ abhí ǀ druháḥ ǀ padé ǀ nirāmíṇaḥ ǀ ripávaḥ ǀ ánneṣu ǀ jagṛdhúḥ ǀ
    ā́ ǀ devā́nām ǀ óhate ǀ ví ǀ vráyaḥ ǀ hṛdí ǀ bṛ́haspate ǀ ná ǀ paráḥ ǀ sā́mnaḥ ǀ viduḥ ǁ

    mā ǀ naḥ ǀ stenebhyaḥ ǀ ye ǀ abhi ǀ druhaḥ ǀ pade ǀ nirāmiṇaḥ ǀ ripavaḥ ǀ anneṣu ǀ jagṛdhuḥ ǀ
    ā ǀ devānām ǀ ohate ǀ vi ǀ vrayaḥ ǀ hṛdi ǀ bṛhaspate ǀ na ǀ paraḥ ǀ sāmnaḥ ǀ viduḥ ǁ

    2.23.16 Aṣṭaka 2.6.32.1Anuvāka 2.3.16

  17. Ṛk 17

    विश्वे॑भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्नः॑साम्नः क॒विः ।
    स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो हं॒ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥

    विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नः-साम्नः कविः |
    स ऋणचिद् ऋणया ब्रह्मणस् पतिर् द्रुहो हन्ता मह ऋतस्य धर्तरि ||

    víśvebhyo hí tvā bhúvanebhyaspári tváṣṭā́janatsā́mnaḥsāmnaḥ kavíḥ ǀ
    sá ṛṇacídṛṇayā́ bráhmaṇaspátirdruhó hantā́ mahá ṛtásya dhartári ǁ

    viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ-sāmnaḥ kaviḥ |
    sa ṛṇacid ṛṇayā brahmaṇas patir druho hantā maha ṛtasya dhartari ||

    विश्वे॑भ्यः । हि । त्वा॒ । भुव॑नेभ्यः । परि॑ । त्वष्टा॑ । अज॑नत् । साम्नः॑ऽसाम्नः । क॒विः ।
    सः । ऋ॒ण॒ऽचित् । ऋ॒ण॒ऽयाः । ब्रह्म॑णः । पतिः॑ । द्रु॒हः । ह॒न्ता । म॒हः । ऋ॒तस्य॑ । ध॒र्तरि॑ ॥

    विश्वेभ्यः । हि । त्वा । भुवनेभ्यः । परि । त्वष्टा । अजनत् । साम्नःऽसाम्नः । कविः ।
    सः । ऋणऽचित् । ऋणऽयाः । ब्रह्मणः । पतिः । द्रुहः । हन्ता । महः । ऋतस्य । धर्तरि ॥

    víśvebhyaḥ ǀ hí ǀ tvā ǀ bhúvanebhyaḥ ǀ pári ǀ tváṣṭā ǀ ájanat ǀ sā́mnaḥ-sāmnaḥ ǀ kavíḥ ǀ
    sáḥ ǀ ṛṇa-cít ǀ ṛṇa-yā́ḥ ǀ bráhmaṇaḥ ǀ pátiḥ ǀ druháḥ ǀ hantā́ ǀ maháḥ ǀ ṛtásya ǀ dhartári ǁ

    viśvebhyaḥ ǀ hi ǀ tvā ǀ bhuvanebhyaḥ ǀ pari ǀ tvaṣṭā ǀ ajanat ǀ sāmnaḥ-sāmnaḥ ǀ kaviḥ ǀ
    saḥ ǀ ṛṇa-cit ǀ ṛṇa-yāḥ ǀ brahmaṇaḥ ǀ patiḥ ǀ druhaḥ ǀ hantā ǀ mahaḥ ǀ ṛtasya ǀ dhartari ǁ

    2.23.17 Aṣṭaka 2.6.32.2Anuvāka 2.3.17

  18. Ṛk 18

    तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां॑ गो॒त्रमु॒दसृ॑जो॒ यदं॑गिरः ।
    इंद्रे॑ण यु॒जा तम॑सा॒ परी॑वृतं॒ बृह॑स्पते॒ निर॒पामौ॑ब्जो अर्ण॒वं ॥

    तव श्रिये व्य् अजिहीत पर्वतो गवां गोत्रम् उदसृजो यद् अङ्गिरः |
    इन्द्रेण युजा तमसा परीवृतम् बृहस्पते निर् अपाम् औब्जो अर्णवम् ||

    táva śriyé vyájihīta párvato gávām gotrámudásṛjo yádaṅgiraḥ ǀ
    índreṇa yujā́ támasā párīvṛtam bṛ́haspate nírapā́maubjo arṇavám ǁ

    tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ |
    indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam ||

    तव॑ । श्रि॒ये । वि । अ॒जि॒ही॒त॒ । पर्व॑तः । गवा॑म् । गो॒त्रम् । उ॒त्ऽअसृ॑जः । यत् । अ॒ङ्गि॒रः॒ ।
    इन्द्रे॑ण । यु॒जा । तम॑सा । परि॑ऽवृतम् । बृह॑स्पते । निः । अ॒पाम् । औ॒ब्जः॒ । अ॒र्ण॒वम् ॥

    तव । श्रिये । वि । अजिहीत । पर्वतः । गवाम् । गोत्रम् । उत्ऽअसृजः । यत् । अङ्गिरः ।
    इन्द्रेण । युजा । तमसा । परिऽवृतम् । बृहस्पते । निः । अपाम् । औब्जः । अर्णवम् ॥

    táva ǀ śriyé ǀ ví ǀ ajihīta ǀ párvataḥ ǀ gávām ǀ gotrám ǀ ut-ásṛjaḥ ǀ yát ǀ aṅgiraḥ ǀ
    índreṇa ǀ yujā́ ǀ támasā ǀ pári-vṛtam ǀ bṛ́haspate ǀ níḥ ǀ apā́m ǀ aubjaḥ ǀ arṇavám ǁ

    tava ǀ śriye ǀ vi ǀ ajihīta ǀ parvataḥ ǀ gavām ǀ gotram ǀ ut-asṛjaḥ ǀ yat ǀ aṅgiraḥ ǀ
    indreṇa ǀ yujā ǀ tamasā ǀ pari-vṛtam ǀ bṛhaspate ǀ niḥ ǀ apām ǀ aubjaḥ ǀ arṇavam ǁ

    2.23.18 Aṣṭaka 2.6.32.3Anuvāka 2.3.18

  19. Ṛk 19

    ब्रह्म॑णस्पते॒ त्वम॒स्य यं॒ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
    विश्वं॒ तद्भ॒द्रं यदवं॑ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

    ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व |
    विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ||

    bráhmaṇaspate tvámasyá yantā́ sūktásya bodhi tánayam ca jinva ǀ
    víśvam tádbhadrám yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

    brahmaṇas pate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva |
    viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ ||

    ब्रह्म॑णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒ऽउ॒क्तस्य॑ । बो॒धि॒ । तन॑यम् । च॒ । जि॒न्व॒ ।
    विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

    ब्रह्मणः । पते । त्वम् । अस्य । यन्ता । सुऽउक्तस्य । बोधि । तनयम् । च । जिन्व ।
    विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

    bráhmaṇaḥ ǀ pate ǀ tvám ǀ asyá ǀ yantā́ ǀ su-uktásya ǀ bodhi ǀ tánayam ǀ ca ǀ jinva ǀ
    víśvam ǀ tát ǀ bhadrám ǀ yát ǀ ávanti ǀ devā́ḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

    brahmaṇaḥ ǀ pate ǀ tvam ǀ asya ǀ yantā ǀ su-uktasya ǀ bodhi ǀ tanayam ǀ ca ǀ jinva ǀ
    viśvam ǀ tat ǀ bhadram ǀ yat ǀ avanti ǀ devāḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

    2.23.19 Aṣṭaka 2.6.32.4Anuvāka 2.3.19

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.23 · Brahmaṇaspati · Bṛhaspati

Interpretations

Sri Aurobindo

Ṛk 1

To thee we call, host-master of the heavenly companies, seer among the seers who art most rich in the supreme inspired knowledge, eldest king among the gods of soul, O Master of Soul, Brahmanaspati; hearken to us and by thy manifestations in our being take thy session in this house and seat.

Ṛk 2

Even the gods, O Mighty One, O Brihaspati, who are conscious in thought, taste but thy share of the sacrificial enjoyment; as Surya gives being to his bright energies by the wide illumination of Mahas, so art thou the begetter even of all the gods of Soul.

Ṛk 3

Assailing and preventing all plunderers and all darknesses thou ascendest thy luminous car of the Truth, O Brihaspati, that terrible chariot which crushes all hostile things, slays the Rakshasas who detain, breaks open the pens of Light and finds out the Heaven of mind.

Ṛk 4

With perfect leadings thou leadest, thou deliverest the creature; if a man give to thee, him evil possesseth not; thou art the afflicter of the soul’s haters, thou holdest our temperament in thy grasp; great is that wide might of thine.

Ṛk 5

Him neither evil nor sin from any side nor the energies of undelight can pierce nor the powers of duality; thou repellest all the goddesses of the crookedness from him whom thou guardest, a perfect protector, O Brahmanaspati.

Ṛk 6

Thou art our protector and the builder of our path by thy perfect and clear discernment, we woo thee with our thoughts so that we may possess thy law of action; O Brihaspati, whosoever putteth crookedness in us, him may his own violent and troubled unease slay.

Ṛk 7

Yea, and whosoever would oppress (limit) us without sin of ours, whatsoever mortal power of undelight and Wolf of the plateau, O Brihaspati, turn him from our path, make for us an easy going towards this manifestation of the godhead (wideness of the gods).

Ṛk 8

Thee we call as the saviour of our bodies, O deliverer, and the revealer in them who seekest our being. O Brihaspati, crush those who limit the god-in-us, let not those of an evil movement attain up to the higher bliss.

Ṛk 9

By thee perfectly increasing we, O Brahmanaspati, take to ourselves the desirable possessions of the human (mental) life; those who oppress us from near or from far do thou crush, those who do not the work and take not the delight.

Ṛk 10

By thee we hold in our minds that highest wideness, O Brihaspati, by thee yoked to us as preserver and fulfiller of our beings; let not any power control us that would express ill in it and tear its fullness; perfectly expressed by our thoughts may we pass beyond.

Ṛk 11

The Bull who pushes not forward (or is not shaken by the charge) but thou goest to the battle-cry, afflictest the foe and overpowerest in our battles, thou art the true in the movement, O Brihaspati, and the tamer even of the strong and fierce who exults in his strength.

Ṛk 12

He who with an undivine mind striveth after knowledge and in his fierceness entering our mentality seeketh to hurt our expression, Brihaspati, let not his stroke reach us, may we cast out the passion of him of evil impulse when he putteth forth his force.

Ṛk 13

He who is to be called in our fullnesses and to be approached with submission, who moves in our havings and gets for us (or keeps for us) this wealth and that other, Brihaspati the Aryan shatters like chariots the energies that assault us and would tear up our gains.

Ṛk 14

With thy most flaming heat afflict the Rakshasas who held thee for confinement even when they had seen thy prowess; manifest that of thee which has to be expressed, crush to pieces the plunderers around

Ṛk 15

Brihaspati, that which the Aryan fighter aspires to compass, that which shines brilliant and powerful in creatures, that which by its force is brilliant, O thou who art born out of the Truth, establish in us that variously shining treasure

Ṛk 16

Deliver us not to the Thieves who take their delight in the place of Harms and as enemies have greed after our bodily havings or to those who arrange in the heart the hedge [ ] of the gods and know not of the equality beyond.

Ṛk 17

For in all the worlds has the Maker, the Seer of harmony after harmony given being to thee; therefore Brihaspati knowing the right movement and following it is the slayer of all harms in him who holdeth the Truth of Mahas.

Ṛk 18

For thy force of movement (or glory) the mountain of being flyeth asunder when thou lettest loose the herd of the brilliant kine, O Angiras; with Indra for thy yokefellow thou hast forced forth, O Brihaspati, the ocean of the waters that was girt in by the darkness.

Ṛk 19

O Brahmanaspati, do thou awaken to this perfect expression of ours as its controller and rejoice in our extension. All that is blessed which the gods bring into being (or keep in being, protect). May we express the Vastness, becoming perfect-energised in the knowledge.