Ṛk 2.23.15
Saṃhitā
बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं ॥
बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु |
यद् दीदयच् छवस ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ||
bṛ́haspate áti yádaryó árhāddyumádvibhā́ti krátumajjáneṣu ǀ
yáddīdáyacchávasa ṛtaprajāta tádasmā́su dráviṇam dhehi citrám ǁ
bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu |
yad dīdayac chavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram ||
Padapāṭha
बृह॑स्पते । अति॑ । यत् । अ॒र्यः । अर्हा॑त् । द्यु॒ऽमत् । वि॒ऽभाति॑ । क्रतु॑ऽमत् । जने॑षु ।
यत् । दी॒दय॑त् । शव॑सा । ऋ॒त॒ऽप्र॒जा॒त॒ । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥
बृहस्पते । अति । यत् । अर्यः । अर्हात् । द्युऽमत् । विऽभाति । क्रतुऽमत् । जनेषु ।
यत् । दीदयत् । शवसा । ऋतऽप्रजात । तत् । अस्मासु । द्रविणम् । धेहि । चित्रम् ॥
bṛ́haspate ǀ áti ǀ yát ǀ aryáḥ ǀ árhāt ǀ dyu-mát ǀ vi-bhā́ti ǀ krátu-mat ǀ jáneṣu ǀ
yát ǀ dīdáyat ǀ śávasā ǀ ṛta-prajāta ǀ tát ǀ asmā́su ǀ dráviṇam ǀ dhehi ǀ citrám ǁ
bṛhaspate ǀ ati ǀ yat ǀ aryaḥ ǀ arhāt ǀ dyu-mat ǀ vi-bhāti ǀ kratu-mat ǀ janeṣu ǀ
yat ǀ dīdayat ǀ śavasā ǀ ṛta-prajāta ǀ tat ǀ asmāsu ǀ draviṇam ǀ dhehi ǀ citram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.023.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.31.05
- Maṇḍala · Anuvāka · Ṛk
- 02.03.015
- Devatā देवता
- 1, 5, 9, 11, 17, 19: Brahmaṇaspati; 2-4, 6-8, 10, 12-16, 18: Bṛhaspati
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.