Sūkta 19
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 2, 6, 8); bhurikpaṅkti (4, 7); paṅktiḥ (3); nicṛtpaṅkti (5); triṣṭup (9)
2nd set of styles triṣṭubh
-
Ṛk 1
अपा॑य्य॒स्यांध॑सो॒ मदा॑य॒ मनी॑षिणः सुवा॒नस्य॒ प्रय॑सः ।
यस्मि॒न्निंद्रः॑ प्र॒दिवि॑ वावृधा॒न ओको॑ द॒धे ब्र॑ह्म॒ण्यंत॑श्च॒ नरः॑ ॥अपाय्य् अस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः |
यस्मिन्न् इन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश् च नरः ||ápāyyasyā́ndhaso mádāya mánīṣiṇaḥ suvānásya práyasaḥ ǀ
yásminníndraḥ pradívi vāvṛdhāná óko dadhé brahmaṇyántaśca náraḥ ǁapāyy asyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ |
yasminn indraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaś ca naraḥ ||अपा॑यि । अ॒स्य । अन्ध॑सः । मदा॑य । मनी॑षिणः । सु॒वा॒नस्य॑ । प्रय॑सः ।
यस्मि॑न् । इन्द्रः॑ । प्र॒ऽदिवि॑ । व॒वृ॒धा॒नः । ओकः॑ । द॒धे । ब्र॒ह्म॒ण्यन्तः॑ । च॒ । नरः॑ ॥अपायि । अस्य । अन्धसः । मदाय । मनीषिणः । सुवानस्य । प्रयसः ।
यस्मिन् । इन्द्रः । प्रऽदिवि । ववृधानः । ओकः । दधे । ब्रह्मण्यन्तः । च । नरः ॥ápāyi ǀ asyá ǀ ándhasaḥ ǀ mádāya ǀ mánīṣiṇaḥ ǀ suvānásya ǀ práyasaḥ ǀ
yásmin ǀ índraḥ ǀ pra-dívi ǀ vavṛdhānáḥ ǀ ókaḥ ǀ dadhé ǀ brahmaṇyántaḥ ǀ ca ǀ náraḥ ǁapāyi ǀ asya ǀ andhasaḥ ǀ madāya ǀ manīṣiṇaḥ ǀ suvānasya ǀ prayasaḥ ǀ
yasmin ǀ indraḥ ǀ pra-divi ǀ vavṛdhānaḥ ǀ okaḥ ǀ dadhe ǀ brahmaṇyantaḥ ǀ ca ǀ naraḥ ǁ2.19.1 Aṣṭaka 2.6.23.1Anuvāka 2.2.78
-
Ṛk 2
अ॒स्य मं॑दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिंद्रो॑ अर्णो॒वृतं॒ वि वृ॑श्चत् ।
प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां॑सि च न॒दीनां॒ चक्र॑मंत ॥अस्य मन्दानो मध्वो वज्रहस्तो ऽहिम् इन्द्रो अर्णोवृतं वि वृश्चत् |
प्र यद् वयो न स्वसराण्य् अच्छा प्रयांसि च नदीनां चक्रमन्त ||asyá mandānó mádhvo vájrahastó’himíndro arṇovṛ́tam ví vṛścat ǀ
prá yádváyo ná svásarāṇyácchā práyāṃsi ca nadī́nām cákramanta ǁasya mandāno madhvo vajrahasto 'him indro arṇovṛtaṃ vi vṛścat |
pra yad vayo na svasarāṇy acchā prayāṃsi ca nadīnāṃ cakramanta ||अ॒स्य । म॒न्दा॒नः । मध्वः॑ । वज्र॑ऽहस्तः । अहि॑म् । इन्द्रः॑ । अ॒र्णः॒ऽवृत॑म् । वि । वृ॒श्च॒त् ।
प्र । यत् । वयः॑ । न । स्वस॑राणि । अच्छ॑ । प्रयां॑सि । च॒ । न॒दीना॑म् । चक्र॑मन्त ॥अस्य । मन्दानः । मध्वः । वज्रऽहस्तः । अहिम् । इन्द्रः । अर्णःऽवृतम् । वि । वृश्चत् ।
प्र । यत् । वयः । न । स्वसराणि । अच्छ । प्रयांसि । च । नदीनाम् । चक्रमन्त ॥asyá ǀ mandānáḥ ǀ mádhvaḥ ǀ vájra-hastaḥ ǀ áhim ǀ índraḥ ǀ arṇaḥ-vṛ́tam ǀ ví ǀ vṛścat ǀ
prá ǀ yát ǀ váyaḥ ǀ ná ǀ svásarāṇi ǀ áccha ǀ práyāṃsi ǀ ca ǀ nadī́nām ǀ cákramanta ǁasya ǀ mandānaḥ ǀ madhvaḥ ǀ vajra-hastaḥ ǀ ahim ǀ indraḥ ǀ arṇaḥ-vṛtam ǀ vi ǀ vṛścat ǀ
pra ǀ yat ǀ vayaḥ ǀ na ǀ svasarāṇi ǀ accha ǀ prayāṃsi ǀ ca ǀ nadīnām ǀ cakramanta ǁ2.19.2 Aṣṭaka 2.6.23.2Anuvāka 2.2.79
-
Ṛk 3
स माहि॑न॒ इंद्रो॒ अर्णो॑ अ॒पां प्रैर॑यदहि॒हाच्छा॑ समु॒द्रं ।
अज॑नय॒त्सूर्यं॑ वि॒दद्गा अ॒क्तुनाह्नां॑ व॒युना॑नि साधत् ॥स माहिन इन्द्रो अर्णो अपाम् प्रैरयद् अहिहाच्छा समुद्रम् |
अजनयत् सूर्यं विदद् गा अक्तुनाह्नां वयुनानि साधत् ||sá mā́hina índro árṇo apā́m práirayadahihā́cchā samudrám ǀ
ájanayatsū́ryam vidádgā́ aktúnā́hnām vayúnāni sādhat ǁsa māhina indro arṇo apām prairayad ahihācchā samudram |
ajanayat sūryaṃ vidad gā aktunāhnāṃ vayunāni sādhat ||सः । माहि॑नः । इन्द्रः॑ । अर्णः॑ । अ॒पाम् । प्र । ऐ॒र॒य॒त् । अ॒हि॒ऽहा । अच्छ॑ । स॒मु॒द्रम् ।
अज॑नयत् । सूर्य॑म् । वि॒दत् । गाः । अ॒क्तुना॑ । अह्ना॑म् । व॒युना॑नि । सा॒ध॒त् ॥सः । माहिनः । इन्द्रः । अर्णः । अपाम् । प्र । ऐरयत् । अहिऽहा । अच्छ । समुद्रम् ।
अजनयत् । सूर्यम् । विदत् । गाः । अक्तुना । अह्नाम् । वयुनानि । साधत् ॥sáḥ ǀ mā́hinaḥ ǀ índraḥ ǀ árṇaḥ ǀ apā́m ǀ prá ǀ airayat ǀ ahi-hā́ ǀ áccha ǀ samudrám ǀ
ájanayat ǀ sū́ryam ǀ vidát ǀ gā́ḥ ǀ aktúnā ǀ áhnām ǀ vayúnāni ǀ sādhat ǁsaḥ ǀ māhinaḥ ǀ indraḥ ǀ arṇaḥ ǀ apām ǀ pra ǀ airayat ǀ ahi-hā ǀ accha ǀ samudram ǀ
ajanayat ǀ sūryam ǀ vidat ǀ gāḥ ǀ aktunā ǀ ahnām ǀ vayunāni ǀ sādhat ǁ2.19.3 Aṣṭaka 2.6.23.3Anuvāka 2.2.80
-
Ṛk 4
सो अ॑प्र॒तीनि॒ मन॑वे पु॒रूणींद्रो॑ दाशद्दा॒शुषे॒ हंति॑ वृ॒त्रं ।
स॒द्यो यो नृभ्यो॑ अत॒साय्यो॒ भूत्प॑स्पृधा॒नेभ्यः॒ सूर्य॑स्य सा॒तौ ॥सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद् दाशुषे हन्ति वृत्रम् |
सद्यो यो नृभ्यो अतसाय्यो भूत् पस्पृधानेभ्यः सूर्यस्य सातौ ||só apratī́ni mánave purū́ṇī́ndro dāśaddāśúṣe hánti vṛtrám ǀ
sadyó yó nṛ́bhyo atasā́yyo bhū́tpaspṛdhānébhyaḥ sū́ryasya sātáu ǁso apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram |
sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau ||सः । अ॒प्र॒तीनि॑ । मन॑वे । पु॒रूणि॑ । इन्द्रः॑ । दा॒श॒त् । दा॒शुषे॑ । हन्ति॑ । वृ॒त्रम् ।
स॒द्यः । यः । नृऽभ्यः॑ । अ॒त॒साय्यः॑ । भूत् । प॒स्पृ॒धा॒नेभ्यः॑ । सूर्य॑स्य । सा॒तौ ॥सः । अप्रतीनि । मनवे । पुरूणि । इन्द्रः । दाशत् । दाशुषे । हन्ति । वृत्रम् ।
सद्यः । यः । नृऽभ्यः । अतसाय्यः । भूत् । पस्पृधानेभ्यः । सूर्यस्य । सातौ ॥sáḥ ǀ apratī́ni ǀ mánave ǀ purū́ṇi ǀ índraḥ ǀ dāśat ǀ dāśúṣe ǀ hánti ǀ vṛtrám ǀ
sadyáḥ ǀ yáḥ ǀ nṛ́-bhyaḥ ǀ atasā́yyaḥ ǀ bhū́t ǀ paspṛdhānébhyaḥ ǀ sū́ryasya ǀ sātáu ǁsaḥ ǀ apratīni ǀ manave ǀ purūṇi ǀ indraḥ ǀ dāśat ǀ dāśuṣe ǀ hanti ǀ vṛtram ǀ
sadyaḥ ǀ yaḥ ǀ nṛ-bhyaḥ ǀ atasāyyaḥ ǀ bhūt ǀ paspṛdhānebhyaḥ ǀ sūryasya ǀ sātau ǁ2.19.4 Aṣṭaka 2.6.23.4Anuvāka 2.2.81
-
Ṛk 5
स सु॑न्व॒त इंद्रः॒ सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या॑य स्त॒वान् ।
आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ॥स सुन्वत इन्द्रः सूर्यम् आ देवो रिणङ् मर्त्याय स्तवान् |
आ यद् रयिं गुहदवद्यम् अस्मै भरद् अंशं नैतशो दशस्यन् ||sá sunvatá índraḥ sū́ryamā́ devó riṇaṅmártyāya stavā́n ǀ
ā́ yádrayím guhádavadyamasmai bháradáṃśam náitaśo daśasyán ǁsa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān |
ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan ||सः । सु॒न्व॒ते । इन्द्रः॑ । सूर्य॑म् । आ । दे॒वः । रि॒ण॒क् । मर्त्या॑य । स्त॒वान् ।
आ । यत् । र॒यिम् । गु॒हत्ऽअ॑वद्यम् । अ॒स्मै॒ । भर॑त् । अंश॑म् । न । एत॑शः । द॒श॒स्यन् ॥सः । सुन्वते । इन्द्रः । सूर्यम् । आ । देवः । रिणक् । मर्त्याय । स्तवान् ।
आ । यत् । रयिम् । गुहत्ऽअवद्यम् । अस्मै । भरत् । अंशम् । न । एतशः । दशस्यन् ॥sáḥ ǀ sunvaté ǀ índraḥ ǀ sū́ryam ǀ ā́ ǀ deváḥ ǀ riṇak ǀ mártyāya ǀ stavā́n ǀ
ā́ ǀ yát ǀ rayím ǀ guhát-avadyam ǀ asmai ǀ bhárat ǀ áṃśam ǀ ná ǀ étaśaḥ ǀ daśasyán ǁsaḥ ǀ sunvate ǀ indraḥ ǀ sūryam ǀ ā ǀ devaḥ ǀ riṇak ǀ martyāya ǀ stavān ǀ
ā ǀ yat ǀ rayim ǀ guhat-avadyam ǀ asmai ǀ bharat ǀ aṃśam ǀ na ǀ etaśaḥ ǀ daśasyan ǁ2.19.5 Aṣṭaka 2.6.23.5Anuvāka 2.2.82
-
Ṛk 6
स रं॑धयत्स॒दिवः॒ सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा॑य ।
दिवो॑दासाय नव॒तिं च॒ नवेंद्रः॒ पुरो॒ व्यै॑र॒च्छंब॑रस्य ॥स रन्धयत् सदिवः सारथये शुष्णम् अशुषं कुयवं कुत्साय |
दिवोदासाय नवतिं च नवेन्द्रः पुरो व्य् ऐरच् छम्बरस्य ||sá randhayatsadívaḥ sā́rathaye śúṣṇamaśúṣam kúyavam kútsāya ǀ
dívodāsāya navatím ca návéndraḥ púro vyáiracchámbarasya ǁsa randhayat sadivaḥ sārathaye śuṣṇam aśuṣaṃ kuyavaṃ kutsāya |
divodāsāya navatiṃ ca navendraḥ puro vy airac chambarasya ||सः । र॒न्ध॒य॒त् । स॒ऽदिवः॑ । सार॑थये । शुष्ण॑म् । अ॒शुष॑म् । कुय॑वम् । कुत्सा॑य ।
दिवः॑ऽदासाय । न॒व॒तिम् । च॒ । नव॑ । इन्द्रः॑ । पुरः॑ । वि । ऐ॒र॒त् । शम्ब॑रस्य ॥सः । रन्धयत् । सऽदिवः । सारथये । शुष्णम् । अशुषम् । कुयवम् । कुत्साय ।
दिवःऽदासाय । नवतिम् । च । नव । इन्द्रः । पुरः । वि । ऐरत् । शम्बरस्य ॥sáḥ ǀ randhayat ǀ sa-dívaḥ ǀ sā́rathaye ǀ śúṣṇam ǀ aśúṣam ǀ kúyavam ǀ kútsāya ǀ
dívaḥ-dāsāya ǀ navatím ǀ ca ǀ náva ǀ índraḥ ǀ púraḥ ǀ ví ǀ airat ǀ śámbarasya ǁsaḥ ǀ randhayat ǀ sa-divaḥ ǀ sārathaye ǀ śuṣṇam ǀ aśuṣam ǀ kuyavam ǀ kutsāya ǀ
divaḥ-dāsāya ǀ navatim ǀ ca ǀ nava ǀ indraḥ ǀ puraḥ ǀ vi ǀ airat ǀ śambarasya ǁ2.19.6 Aṣṭaka 2.6.24.1Anuvāka 2.2.83
-
Ṛk 7
ए॒वा त॑ इंद्रो॒चथ॑महेम श्रव॒स्या न त्मना॑ वा॒जयं॑तः ।
अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥एवा त इन्द्रोचथम् अहेम श्रवस्या न त्मना वाजयन्तः |
अश्याम तत् साप्तम् आशुषाणा ननमो वधर् अदेवस्य पीयोः ||evā́ ta indrocáthamahema śravasyā́ ná tmánā vājáyantaḥ ǀ
aśyā́ma tátsā́ptamāśuṣāṇā́ nanámo vádharádevasya pīyóḥ ǁevā ta indrocatham ahema śravasyā na tmanā vājayantaḥ |
aśyāma tat sāptam āśuṣāṇā nanamo vadhar adevasya pīyoḥ ||ए॒व । ते॒ । इ॒न्द्र॒ । उ॒चथ॑म् । अ॒हे॒म॒ । श्र॒व॒स्या । न । त्मना॑ । वा॒जय॑न्तः ।
अ॒श्याम॑ । तत् । साप्त॑म् । आ॒शु॒षा॒णाः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥एव । ते । इन्द्र । उचथम् । अहेम । श्रवस्या । न । त्मना । वाजयन्तः ।
अश्याम । तत् । साप्तम् । आशुषाणाः । ननमः । वधः । अदेवस्य । पीयोः ॥evá ǀ te ǀ indra ǀ ucátham ǀ ahema ǀ śravasyā́ ǀ ná ǀ tmánā ǀ vājáyantaḥ ǀ
aśyā́ma ǀ tát ǀ sā́ptam ǀ āśuṣāṇā́ḥ ǀ nanámaḥ ǀ vádhaḥ ǀ ádevasya ǀ pīyóḥ ǁeva ǀ te ǀ indra ǀ ucatham ǀ ahema ǀ śravasyā ǀ na ǀ tmanā ǀ vājayantaḥ ǀ
aśyāma ǀ tat ǀ sāptam ǀ āśuṣāṇāḥ ǀ nanamaḥ ǀ vadhaḥ ǀ adevasya ǀ pīyoḥ ǁ2.19.7 Aṣṭaka 2.6.24.2Anuvāka 2.2.84
-
Ṛk 8
ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः ।
ब्र॒ह्म॒ण्यंत॑ इंद्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः ॥एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः |
ब्रह्मण्यन्त इन्द्र ते नवीय इषम् ऊर्जं सुक्षितिं सुम्नम् अश्युः ||evā́ te gṛtsamadā́ḥ śūra mánmāvasyávo ná vayúnāni takṣuḥ ǀ
brahmaṇyánta indra te návīya íṣamū́rjam sukṣitím sumnámaśyuḥ ǁevā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ |
brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ ||ए॒व । ते॒ । गृ॒त्स॒ऽम॒दाः । शू॒र॒ । मन्म॑ । अ॒व॒स्यवः॑ । न । व॒युना॑नि । त॒क्षुः॒ ।
ब्र॒ह्म॒ण्यन्तः॑ । इ॒न्द्र॒ । ते॒ । नवी॑यः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । सु॒म्नम् । अ॒श्युः॒ ॥एव । ते । गृत्सऽमदाः । शूर । मन्म । अवस्यवः । न । वयुनानि । तक्षुः ।
ब्रह्मण्यन्तः । इन्द्र । ते । नवीयः । इषम् । ऊर्जम् । सुऽक्षितिम् । सुम्नम् । अश्युः ॥evá ǀ te ǀ gṛtsa-madā́ḥ ǀ śūra ǀ mánma ǀ avasyávaḥ ǀ ná ǀ vayúnāni ǀ takṣuḥ ǀ
brahmaṇyántaḥ ǀ indra ǀ te ǀ návīyaḥ ǀ íṣam ǀ ū́rjam ǀ su-kṣitím ǀ sumnám ǀ aśyuḥ ǁeva ǀ te ǀ gṛtsa-madāḥ ǀ śūra ǀ manma ǀ avasyavaḥ ǀ na ǀ vayunāni ǀ takṣuḥ ǀ
brahmaṇyantaḥ ǀ indra ǀ te ǀ navīyaḥ ǀ iṣam ǀ ūrjam ǀ su-kṣitim ǀ sumnam ǀ aśyuḥ ǁ2.19.8 Aṣṭaka 2.6.24.3Anuvāka 2.2.85
-
Ṛk 9
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।
शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी |
शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ||nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ
śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁnūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।
शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।
शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ
śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁnūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ
śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ2.19.9 Aṣṭaka 2.6.24.4Anuvāka 2.2.86
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.