Ṛk 2.19.8
Saṃhitā
ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः ।
ब्र॒ह्म॒ण्यंत॑ इंद्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः ॥
एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः |
ब्रह्मण्यन्त इन्द्र ते नवीय इषम् ऊर्जं सुक्षितिं सुम्नम् अश्युः ||
evā́ te gṛtsamadā́ḥ śūra mánmāvasyávo ná vayúnāni takṣuḥ ǀ
brahmaṇyánta indra te návīya íṣamū́rjam sukṣitím sumnámaśyuḥ ǁ
evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ |
brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ ||
Padapāṭha
ए॒व । ते॒ । गृ॒त्स॒ऽम॒दाः । शू॒र॒ । मन्म॑ । अ॒व॒स्यवः॑ । न । व॒युना॑नि । त॒क्षुः॒ ।
ब्र॒ह्म॒ण्यन्तः॑ । इ॒न्द्र॒ । ते॒ । नवी॑यः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । सु॒म्नम् । अ॒श्युः॒ ॥
एव । ते । गृत्सऽमदाः । शूर । मन्म । अवस्यवः । न । वयुनानि । तक्षुः ।
ब्रह्मण्यन्तः । इन्द्र । ते । नवीयः । इषम् । ऊर्जम् । सुऽक्षितिम् । सुम्नम् । अश्युः ॥
evá ǀ te ǀ gṛtsa-madā́ḥ ǀ śūra ǀ mánma ǀ avasyávaḥ ǀ ná ǀ vayúnāni ǀ takṣuḥ ǀ
brahmaṇyántaḥ ǀ indra ǀ te ǀ návīyaḥ ǀ íṣam ǀ ū́rjam ǀ su-kṣitím ǀ sumnám ǀ aśyuḥ ǁ
eva ǀ te ǀ gṛtsa-madāḥ ǀ śūra ǀ manma ǀ avasyavaḥ ǀ na ǀ vayunāni ǀ takṣuḥ ǀ
brahmaṇyantaḥ ǀ indra ǀ te ǀ navīyaḥ ǀ iṣam ǀ ūrjam ǀ su-kṣitim ǀ sumnam ǀ aśyuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.019.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.24.03
- Maṇḍala · Anuvāka · Ṛk
- 02.02.085
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.