Ṛk 2.19.2
Saṃhitā
अ॒स्य मं॑दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिंद्रो॑ अर्णो॒वृतं॒ वि वृ॑श्चत् ।
प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां॑सि च न॒दीनां॒ चक्र॑मंत ॥
अस्य मन्दानो मध्वो वज्रहस्तो ऽहिम् इन्द्रो अर्णोवृतं वि वृश्चत् |
प्र यद् वयो न स्वसराण्य् अच्छा प्रयांसि च नदीनां चक्रमन्त ||
asyá mandānó mádhvo vájrahastó’himíndro arṇovṛ́tam ví vṛścat ǀ
prá yádváyo ná svásarāṇyácchā práyāṃsi ca nadī́nām cákramanta ǁ
asya mandāno madhvo vajrahasto 'him indro arṇovṛtaṃ vi vṛścat |
pra yad vayo na svasarāṇy acchā prayāṃsi ca nadīnāṃ cakramanta ||
Padapāṭha
अ॒स्य । म॒न्दा॒नः । मध्वः॑ । वज्र॑ऽहस्तः । अहि॑म् । इन्द्रः॑ । अ॒र्णः॒ऽवृत॑म् । वि । वृ॒श्च॒त् ।
प्र । यत् । वयः॑ । न । स्वस॑राणि । अच्छ॑ । प्रयां॑सि । च॒ । न॒दीना॑म् । चक्र॑मन्त ॥
अस्य । मन्दानः । मध्वः । वज्रऽहस्तः । अहिम् । इन्द्रः । अर्णःऽवृतम् । वि । वृश्चत् ।
प्र । यत् । वयः । न । स्वसराणि । अच्छ । प्रयांसि । च । नदीनाम् । चक्रमन्त ॥
asyá ǀ mandānáḥ ǀ mádhvaḥ ǀ vájra-hastaḥ ǀ áhim ǀ índraḥ ǀ arṇaḥ-vṛ́tam ǀ ví ǀ vṛścat ǀ
prá ǀ yát ǀ váyaḥ ǀ ná ǀ svásarāṇi ǀ áccha ǀ práyāṃsi ǀ ca ǀ nadī́nām ǀ cákramanta ǁ
asya ǀ mandānaḥ ǀ madhvaḥ ǀ vajra-hastaḥ ǀ ahim ǀ indraḥ ǀ arṇaḥ-vṛtam ǀ vi ǀ vṛścat ǀ
pra ǀ yat ǀ vayaḥ ǀ na ǀ svasarāṇi ǀ accha ǀ prayāṃsi ǀ ca ǀ nadīnām ǀ cakramanta ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.019.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.23.02
- Maṇḍala · Anuvāka · Ṛk
- 02.02.079
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.