Ṛgveda · Maṇḍala 2

Sūkta 33

Rudra · Gṛtsamada Bhārgava Śaunaka · 15 ṛks

Link
Devatā देवता
Rudra
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 5, 9, 13-15); virāṭtrisṭup (3, 6, 10, 11); paṅktiḥ (2, 7); triṣṭup (4, 8); bhurikpaṅkti (12)

2nd set of styles triṣṭubh

  1. Ṛk 1

    आ ते॑ पितर्मरुतां सु॒म्नमे॑तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो॑ युयोथाः ।
    अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत॒ प्र जा॑येमहि रुद्र प्र॒जाभिः॑ ॥

    आ ते पितर् मरुतां सुम्नम् एतु मा नः सूर्यस्य संदृशो युयोथाः |
    अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ||

    ā́ te pitarmarutām sumnámetu mā́ naḥ sū́ryasya saṃdṛ́śo yuyothāḥ ǀ
    abhí no vīró árvati kṣameta prá jāyemahi rudra prajā́bhiḥ ǁ

    ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ |
    abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ ||

    आ । ते॒ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । ए॒तु॒ । मा । नः॒ । सूर्य॑स्य । स॒म्ऽदृशः॑ । यु॒यो॒थाः॒ ।
    अ॒भि । नः॒ । वी॒रः । अर्व॑ति । क्ष॒मे॒त॒ । प्र । जा॒ये॒म॒हि॒ । रु॒द्र॒ । प्र॒ऽजाभिः॑ ॥

    आ । ते । पितः । मरुताम् । सुम्नम् । एतु । मा । नः । सूर्यस्य । सम्ऽदृशः । युयोथाः ।
    अभि । नः । वीरः । अर्वति । क्षमेत । प्र । जायेमहि । रुद्र । प्रऽजाभिः ॥

    ā́ ǀ te ǀ pitaḥ ǀ marutām ǀ sumnám ǀ etu ǀ mā́ ǀ naḥ ǀ sū́ryasya ǀ sam-dṛ́śaḥ ǀ yuyothāḥ ǀ
    abhí ǀ naḥ ǀ vīráḥ ǀ árvati ǀ kṣameta ǀ prá ǀ jāyemahi ǀ rudra ǀ pra-jā́bhiḥ ǁ

    ā ǀ te ǀ pitaḥ ǀ marutām ǀ sumnam ǀ etu ǀ mā ǀ naḥ ǀ sūryasya ǀ sam-dṛśaḥ ǀ yuyothāḥ ǀ
    abhi ǀ naḥ ǀ vīraḥ ǀ arvati ǀ kṣameta ǀ pra ǀ jāyemahi ǀ rudra ǀ pra-jābhiḥ ǁ

    2.33.1 Aṣṭaka 2.7.16.1Anuvāka 2.4.1

  2. Ṛk 2

    त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ ।
    व्य१॒॑स्मद्द्वेषो॑ वित॒रं व्यंहो॒ व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ॥

    त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः |
    व्य् अस्मद् द्वेषो वितरं व्य् अंहो व्य् अमीवाश् चातयस्वा विषूचीः ||

    tvā́dattebhī rudra śáṃtamebhiḥ śatám hímā aśīya bheṣajébhiḥ ǀ
    vyásmáddvéṣo vitarám vyáṃho vyámīvāścātayasvā víṣūcīḥ ǁ

    tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ |
    vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ ||

    त्वाऽद॑त्तेभिः । रु॒द्र॒ । शम्ऽत॑मेभिः । श॒तम् । हिमाः॑ । अ॒शी॒य॒ । भे॒ष॒जेभिः॑ ।
    वि । अ॒स्मत् । द्वेषः॑ । वि॒ऽत॒रम् । वि । अंहः॑ । वि । अमी॑वाः । चा॒त॒य॒स्व॒ । विषू॑चीः ॥

    त्वाऽदत्तेभिः । रुद्र । शम्ऽतमेभिः । शतम् । हिमाः । अशीय । भेषजेभिः ।
    वि । अस्मत् । द्वेषः । विऽतरम् । वि । अंहः । वि । अमीवाः । चातयस्व । विषूचीः ॥

    tvā́-dattebhiḥ ǀ rudra ǀ śám-tamebhiḥ ǀ śatám ǀ hímāḥ ǀ aśīya ǀ bheṣajébhiḥ ǀ
    ví ǀ asmát ǀ dvéṣaḥ ǀ vi-tarám ǀ ví ǀ áṃhaḥ ǀ ví ǀ ámīvāḥ ǀ cātayasva ǀ víṣūcīḥ ǁ

    tvā-dattebhiḥ ǀ rudra ǀ śam-tamebhiḥ ǀ śatam ǀ himāḥ ǀ aśīya ǀ bheṣajebhiḥ ǀ
    vi ǀ asmat ǀ dveṣaḥ ǀ vi-taram ǀ vi ǀ aṃhaḥ ǀ vi ǀ amīvāḥ ǀ cātayasva ǀ viṣūcīḥ ǁ

    2.33.2 Aṣṭaka 2.7.16.2Anuvāka 2.4.2

  3. Ṛk 3

    श्रेष्ठो॑ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां॑ वज्रबाहो ।
    पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा॑ अ॒भी॑ती॒ रप॑सो युयोधि ॥

    श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस् तवसां वज्रबाहो |
    पर्षि णः पारम् अंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ||

    śréṣṭho jātásya rudra śriyā́si tavástamastavásām vajrabāho ǀ
    párṣi ṇaḥ pārámáṃhasaḥ svastí víśvā abhī́tī rápaso yuyodhi ǁ

    śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho |
    parṣi ṇaḥ pāram aṃhasaḥ svasti viśvā abhītī rapaso yuyodhi ||

    श्रेष्ठः॑ । जा॒तस्य॑ । रु॒द्र॒ । श्रि॒या । अ॒सि॒ । त॒वःऽत॑मः । त॒वसा॑म् । व॒ज्र॒बा॒हो॒ इति॑ वज्रऽबाहो ।
    पर्षि॑ । नः॒ । पा॒रम् । अंह॑सः । स्व॒स्ति । विश्वाः॑ । अ॒भिऽइ॑तीः । रप॑सः । यु॒यो॒धि॒ ॥

    श्रेष्ठः । जातस्य । रुद्र । श्रिया । असि । तवःऽतमः । तवसाम् । वज्रबाहो इति वज्रऽबाहो ।
    पर्षि । नः । पारम् । अंहसः । स्वस्ति । विश्वाः । अभिऽइतीः । रपसः । युयोधि ॥

    śréṣṭhaḥ ǀ jātásya ǀ rudra ǀ śriyā́ ǀ asi ǀ taváḥ-tamaḥ ǀ tavásām ǀ vajrabāho íti vajra-bāho ǀ
    párṣi ǀ naḥ ǀ pārám ǀ áṃhasaḥ ǀ svastí ǀ víśvāḥ ǀ abhí-itīḥ ǀ rápasaḥ ǀ yuyodhi ǁ

    śreṣṭhaḥ ǀ jātasya ǀ rudra ǀ śriyā ǀ asi ǀ tavaḥ-tamaḥ ǀ tavasām ǀ vajrabāho iti vajra-bāho ǀ
    parṣi ǀ naḥ ǀ pāram ǀ aṃhasaḥ ǀ svasti ǀ viśvāḥ ǀ abhi-itīḥ ǀ rapasaḥ ǀ yuyodhi ǁ

    2.33.3 Aṣṭaka 2.7.16.3Anuvāka 2.4.3

  4. Ṛk 4

    मा त्वा॑ रुद्र चुक्रुधामा॒ नमो॑भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू॑ती ।
    उन्नो॑ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां॑ शृणोमि ॥

    मा त्वा रुद्र चुक्रुधामा नमोभिर् मा दुष्टुती वृषभ मा सहूती |
    उन् नो वीरां अर्पय भेषजेभिर् भिषक्तमं त्वा भिषजां शृणोमि ||

    mā́ tvā rudra cukrudhāmā námobhirmā́ dúṣṭutī vṛṣabha mā́ sáhūtī ǀ
    únno vīrā́m̐ arpaya bheṣajébhirbhiṣáktamam tvā bhiṣájām śṛṇomi ǁ

    mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī |
    un no vīrāṃ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi ||

    मा । त्वा॒ । रु॒द्र॒ । चु॒क्रु॒धा॒म॒ । नमः॑ऽभिः । मा । दुःऽस्तु॑ती । वृ॒ष॒भ॒ । मा । सऽहू॑ती ।
    उत् । नः॒ । वी॒रान् । अ॒र्प॒य॒ । भे॒ष॒जेभिः॑ । भि॒षक्ऽत॑मम् । त्वा॒ । भि॒षजा॑म् । शृ॒णो॒मि॒ ॥

    मा । त्वा । रुद्र । चुक्रुधाम । नमःऽभिः । मा । दुःऽस्तुती । वृषभ । मा । सऽहूती ।
    उत् । नः । वीरान् । अर्पय । भेषजेभिः । भिषक्ऽतमम् । त्वा । भिषजाम् । शृणोमि ॥

    mā́ ǀ tvā ǀ rudra ǀ cukrudhāma ǀ námaḥ-bhiḥ ǀ mā́ ǀ dúḥ-stutī ǀ vṛṣabha ǀ mā́ ǀ sá-hūtī ǀ
    út ǀ naḥ ǀ vīrā́n ǀ arpaya ǀ bheṣajébhiḥ ǀ bhiṣák-tamam ǀ tvā ǀ bhiṣájām ǀ śṛṇomi ǁ

    mā ǀ tvā ǀ rudra ǀ cukrudhāma ǀ namaḥ-bhiḥ ǀ mā ǀ duḥ-stutī ǀ vṛṣabha ǀ mā ǀ sa-hūtī ǀ
    ut ǀ naḥ ǀ vīrān ǀ arpaya ǀ bheṣajebhiḥ ǀ bhiṣak-tamam ǀ tvā ǀ bhiṣajām ǀ śṛṇomi ǁ

    2.33.4 Aṣṭaka 2.7.16.4Anuvāka 2.4.4

  5. Ṛk 5

    हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे॑भी रु॒द्रं दि॑षीय ।
    ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सु॒शिप्रो॑ रीरधन्म॒नायै॑ ॥

    हवीमभिर् हवते यो हविर्भिर् अव स्तोमेभी रुद्रं दिषीय |
    ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन् मनायै ||

    hávīmabhirhávate yó havírbhiráva stómebhī rudrám diṣīya ǀ
    ṛdūdáraḥ suhávo mā́ no asyái babhrúḥ suśípro rīradhanmanā́yai ǁ

    havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya |
    ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai ||

    हवी॑मऽभिः । हव॑ते । यः । ह॒विःऽभिः॑ । अव॑ । स्तोमे॑भिः । रु॒द्रम् । दि॒षी॒य॒ ।
    ऋ॒दू॒दरः॑ । सु॒ऽहवः॑ । मा । नः॒ । अ॒स्यै । ब॒भ्रुः । सु॒ऽशिप्रः॑ । री॒र॒ध॒त् । म॒नायै॑ ॥

    हवीमऽभिः । हवते । यः । हविःऽभिः । अव । स्तोमेभिः । रुद्रम् । दिषीय ।
    ऋदूदरः । सुऽहवः । मा । नः । अस्यै । बभ्रुः । सुऽशिप्रः । रीरधत् । मनायै ॥

    hávīma-bhiḥ ǀ hávate ǀ yáḥ ǀ havíḥ-bhiḥ ǀ áva ǀ stómebhiḥ ǀ rudrám ǀ diṣīya ǀ
    ṛdūdáraḥ ǀ su-hávaḥ ǀ mā́ ǀ naḥ ǀ asyái ǀ babhrúḥ ǀ su-śípraḥ ǀ rīradhat ǀ manā́yai ǁ

    havīma-bhiḥ ǀ havate ǀ yaḥ ǀ haviḥ-bhiḥ ǀ ava ǀ stomebhiḥ ǀ rudram ǀ diṣīya ǀ
    ṛdūdaraḥ ǀ su-havaḥ ǀ mā ǀ naḥ ǀ asyai ǀ babhruḥ ǀ su-śipraḥ ǀ rīradhat ǀ manāyai ǁ

    2.33.5 Aṣṭaka 2.7.16.5Anuvāka 2.4.5

  6. Ṛk 6

    उन्मा॑ ममंद वृष॒भो म॒रुत्वां॒त्वक्षी॑यसा॒ वय॑सा॒ नाध॑मानं ।
    घृणी॑व छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नं ॥

    उन् मा ममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानम् |
    घृणीव च्छायाम् अरपा अशीया विवासेयं रुद्रस्य सुम्नम् ||

    únmā mamanda vṛṣabhó marútvāntvákṣīyasā váyasā nā́dhamānam ǀ
    ghṛ́ṇīva chāyā́marapā́ aśīyā́ vivāseyam rudrásya sumnám ǁ

    un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam |
    ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam ||

    उत् । मा॒ । म॒म॒न्द॒ । वृ॒ष॒भः । म॒रुत्वा॑न् । त्वक्षी॑यसा । वय॑सा । नाध॑मानम् ।
    घृणि॑ऽइव । छा॒याम् । अ॒र॒पाः । अ॒शी॒य॒ । आ । वि॒वा॒से॒य॒म् । रु॒द्रस्य॑ । सु॒म्नम् ॥

    उत् । मा । ममन्द । वृषभः । मरुत्वान् । त्वक्षीयसा । वयसा । नाधमानम् ।
    घृणिऽइव । छायाम् । अरपाः । अशीय । आ । विवासेयम् । रुद्रस्य । सुम्नम् ॥

    út ǀ mā ǀ mamanda ǀ vṛṣabháḥ ǀ marútvān ǀ tvákṣīyasā ǀ váyasā ǀ nā́dhamānam ǀ
    ghṛ́ṇi-iva ǀ chāyā́m ǀ arapā́ḥ ǀ aśīya ǀ ā́ ǀ vivāseyam ǀ rudrásya ǀ sumnám ǁ

    ut ǀ mā ǀ mamanda ǀ vṛṣabhaḥ ǀ marutvān ǀ tvakṣīyasā ǀ vayasā ǀ nādhamānam ǀ
    ghṛṇi-iva ǀ chāyām ǀ arapāḥ ǀ aśīya ǀ ā ǀ vivāseyam ǀ rudrasya ǀ sumnam ǁ

    2.33.6 Aṣṭaka 2.7.17.1Anuvāka 2.4.6

  7. Ṛk 7

    क्व१॒॑स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः ।
    अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ॥

    क्व स्य ते रुद्र मृऌअयाकुर् हस्तो यो अस्ति भेषजो जलाषः |
    अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ||

    kvásyá te rudra mṛḷayā́kurhásto yó ásti bheṣajó jálāṣaḥ ǀ
    apabhartā́ rápaso dáivyasyābhī́ nú mā vṛṣabha cakṣamīthāḥ ǁ

    kva sya te rudra mṛḷayākur hasto yo asti bheṣajo jalāṣaḥ |
    apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ ||

    क्व॑ । स्यः । ते॒ । रु॒द्र॒ । मृ॒ळ॒याकुः॑ । हस्तः॑ । यः । अस्ति॑ । भे॒ष॒जः । जला॑षः ।
    अ॒प॒ऽभ॒र्ता । रप॑सः । दैव्य॑स्य । अ॒भि । नु । मा॒ । वृ॒ष॒भ॒ । च॒क्ष॒मी॒थाः॒ ॥

    क्व । स्यः । ते । रुद्र । मृळयाकुः । हस्तः । यः । अस्ति । भेषजः । जलाषः ।
    अपऽभर्ता । रपसः । दैव्यस्य । अभि । नु । मा । वृषभ । चक्षमीथाः ॥

    kvá ǀ syáḥ ǀ te ǀ rudra ǀ mṛḷayā́kuḥ ǀ hástaḥ ǀ yáḥ ǀ ásti ǀ bheṣajáḥ ǀ jálāṣaḥ ǀ
    apa-bhartā́ ǀ rápasaḥ ǀ dáivyasya ǀ abhí ǀ nú ǀ mā ǀ vṛṣabha ǀ cakṣamīthāḥ ǁ

    kva ǀ syaḥ ǀ te ǀ rudra ǀ mṛḷayākuḥ ǀ hastaḥ ǀ yaḥ ǀ asti ǀ bheṣajaḥ ǀ jalāṣaḥ ǀ
    apa-bhartā ǀ rapasaḥ ǀ daivyasya ǀ abhi ǀ nu ǀ mā ǀ vṛṣabha ǀ cakṣamīthāḥ ǁ

    2.33.7 Aṣṭaka 2.7.17.2Anuvāka 2.4.7

  8. Ṛk 8

    प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि ।
    न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥

    प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिम् ईरयामि |
    नमस्या कल्मलीकिनं नमोभिर् गृणीमसि त्वेषं रुद्रस्य नाम ||

    prá babhráve vṛṣabhā́ya śvitīcé mahó mahī́m suṣṭutímīrayāmi ǀ
    namasyā́ kalmalīkínam námobhirgṛṇīmási tveṣám rudrásya nā́ma ǁ

    pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi |
    namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma ||

    प्र । ब॒भ्रवे॑ । वृ॒ष॒भाय॑ । श्वि॒ती॒चे । म॒हः । म॒हीम् । सु॒ऽस्तु॒तिम् । ई॒र॒या॒मि॒ ।
    न॒म॒स्य । क॒ल्म॒ली॒किन॑म् । नमः॑ऽभिः । गृ॒णी॒मसि॑ । त्वे॒षम् । रु॒द्रस्य॑ । नाम॑ ॥

    प्र । बभ्रवे । वृषभाय । श्वितीचे । महः । महीम् । सुऽस्तुतिम् । ईरयामि ।
    नमस्य । कल्मलीकिनम् । नमःऽभिः । गृणीमसि । त्वेषम् । रुद्रस्य । नाम ॥

    prá ǀ babhráve ǀ vṛṣabhā́ya ǀ śvitīcé ǀ maháḥ ǀ mahī́m ǀ su-stutím ǀ īrayāmi ǀ
    namasyá ǀ kalmalīkínam ǀ námaḥ-bhiḥ ǀ gṛṇīmási ǀ tveṣám ǀ rudrásya ǀ nā́ma ǁ

    pra ǀ babhrave ǀ vṛṣabhāya ǀ śvitīce ǀ mahaḥ ǀ mahīm ǀ su-stutim ǀ īrayāmi ǀ
    namasya ǀ kalmalīkinam ǀ namaḥ-bhiḥ ǀ gṛṇīmasi ǀ tveṣam ǀ rudrasya ǀ nāma ǁ

    2.33.8 Aṣṭaka 2.7.17.3Anuvāka 2.4.8

  9. Ṛk 9

    स्थि॒रेभि॒रंगैः॑ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर॑ण्यैः ।
    ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्यं॑ ॥

    स्थिरेभिर् अङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः |
    ईशानाद् अस्य भुवनस्य भूरेर् न वा उ योषद् रुद्राद् असुर्यम् ||

    sthirébhiráṅgaiḥ pururū́pa ugró babhrúḥ śukrébhiḥ pipiśe híraṇyaiḥ ǀ
    ī́śānādasyá bhúvanasya bhū́rerná vā́ u yoṣadrudrā́dasuryám ǁ

    sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ |
    īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam ||

    स्थि॒रेभिः॑ । अङ्गैः॑ । पु॒रु॒ऽरूपः॑ । उ॒ग्रः । ब॒भ्रुः । शु॒क्रेभिः॑ । पि॒पि॒शे॒ । हिर॑ण्यैः ।
    ईशा॑नात् । अ॒स्य । भुव॑नस्य । भूरेः॑ । न । वै । ऊं॒ इति॑ । यो॒ष॒त् । रु॒द्रात् । अ॒सु॒र्य॑म् ॥

    स्थिरेभिः । अङ्गैः । पुरुऽरूपः । उग्रः । बभ्रुः । शुक्रेभिः । पिपिशे । हिरण्यैः ।
    ईशानात् । अस्य । भुवनस्य । भूरेः । न । वै । ऊं इति । योषत् । रुद्रात् । असुर्यम् ॥

    sthirébhiḥ ǀ áṅgaiḥ ǀ puru-rū́paḥ ǀ ugráḥ ǀ babhrúḥ ǀ śukrébhiḥ ǀ pipiśe ǀ híraṇyaiḥ ǀ
    ī́śānāt ǀ asyá ǀ bhúvanasya ǀ bhū́reḥ ǀ ná ǀ vái ǀ ūṃ íti ǀ yoṣat ǀ rudrā́t ǀ asuryám ǁ

    sthirebhiḥ ǀ aṅgaiḥ ǀ puru-rūpaḥ ǀ ugraḥ ǀ babhruḥ ǀ śukrebhiḥ ǀ pipiśe ǀ hiraṇyaiḥ ǀ
    īśānāt ǀ asya ǀ bhuvanasya ǀ bhūreḥ ǀ na ǀ vai ǀ ūṃ iti ǀ yoṣat ǀ rudrāt ǀ asuryam ǁ

    2.33.9 Aṣṭaka 2.7.17.4Anuvāka 2.4.9

  10. Ṛk 10

    अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पं ।
    अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥

    अर्हन् बिभर्षि सायकानि धन्वार्हन् निष्कं यजतं विश्वरूपम् |
    अर्हन्न् इदं दयसे विश्वम् अभ्वं न वा ओजीयो रुद्र त्वद् अस्ति ||

    árhanbibharṣi sā́yakāni dhánvā́rhanniṣkám yajatám viśvárūpam ǀ
    árhannidám dayase víśvamábhvam ná vā́ ójīyo rudra tvádasti ǁ

    arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam |
    arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti ||

    अर्ह॑न् । बि॒भ॒र्षि॒ । साय॑कानि । धन्व॑ । अर्ह॑न् । नि॒ष्कम् । य॒ज॒तम् । वि॒श्वऽरू॑पम् ।
    अर्ह॑न् । इ॒दम् । द॒य॒से॒ । विश्व॑म् । अभ्व॑म् । न । वै । ओजी॑यः । रु॒द्र॒ । त्वत् । अ॒स्ति॒ ॥

    अर्हन् । बिभर्षि । सायकानि । धन्व । अर्हन् । निष्कम् । यजतम् । विश्वऽरूपम् ।
    अर्हन् । इदम् । दयसे । विश्वम् । अभ्वम् । न । वै । ओजीयः । रुद्र । त्वत् । अस्ति ॥

    árhan ǀ bibharṣi ǀ sā́yakāni ǀ dhánva ǀ árhan ǀ niṣkám ǀ yajatám ǀ viśvá-rūpam ǀ
    árhan ǀ idám ǀ dayase ǀ víśvam ǀ ábhvam ǀ ná ǀ vái ǀ ójīyaḥ ǀ rudra ǀ tvát ǀ asti ǁ

    arhan ǀ bibharṣi ǀ sāyakāni ǀ dhanva ǀ arhan ǀ niṣkam ǀ yajatam ǀ viśva-rūpam ǀ
    arhan ǀ idam ǀ dayase ǀ viśvam ǀ abhvam ǀ na ǀ vai ǀ ojīyaḥ ǀ rudra ǀ tvat ǀ asti ǁ

    2.33.10 Aṣṭaka 2.7.17.5Anuvāka 2.4.10

  11. Ṛk 11

    स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रं ।
    मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पंतु॒ सेनाः॑ ॥

    स्तुहि श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम् |
    मृऌआ जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मन् नि वपन्तु सेनाः ||

    stuhí śrutám gartasádam yúvānam mṛgám ná bhīmámupahatnúmugrám ǀ
    mṛḷā́ jaritré rudra stávāno’nyám te asmánní vapantu sénāḥ ǁ

    stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram |
    mṛḷā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ ||

    स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् ।
    मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥

    स्तुहि । श्रुतम् । गर्तऽसदम् । युवानम् । मृगम् । न । भीमम् । उपऽहत्नुम् । उग्रम् ।
    मृळ । जरित्रे । रुद्र । स्तवानः । अन्यम् । ते । अस्मत् । नि । वपन्तु । सेनाः ॥

    stuhí ǀ śrutám ǀ garta-sádam ǀ yúvānam ǀ mṛgám ǀ ná ǀ bhīmám ǀ upa-hatnúm ǀ ugrám ǀ
    mṛḷá ǀ jaritré ǀ rudra ǀ stávānaḥ ǀ anyám ǀ te ǀ asmát ǀ ní ǀ vapantu ǀ sénāḥ ǁ

    stuhi ǀ śrutam ǀ garta-sadam ǀ yuvānam ǀ mṛgam ǀ na ǀ bhīmam ǀ upa-hatnum ǀ ugram ǀ
    mṛḷa ǀ jaritre ǀ rudra ǀ stavānaḥ ǀ anyam ǀ te ǀ asmat ǀ ni ǀ vapantu ǀ senāḥ ǁ

    2.33.11 Aṣṭaka 2.7.18.1Anuvāka 2.4.11

  12. Ṛk 12

    कु॒मा॒रश्चि॑त्पि॒तरं॒ वंद॑मानं॒ प्रति॑ नानाम रुद्रोप॒यंतं॑ ।
    भूरे॑र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रा॑स्य॒स्मे ॥

    कुमारश् चित् पितरं वन्दमानम् प्रति नानाम रुद्रोपयन्तम् |
    भूरेर् दातारं सत्पतिं गृणीषे स्तुतस् त्वम् भेषजा रास्य् अस्मे ||

    kumāráścitpitáram vándamānam práti nānāma rudropayántam ǀ
    bhū́rerdātā́ram sátpatim gṛṇīṣe stutástvám bheṣajā́ rāsyasmé ǁ

    kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam |
    bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme ||

    कु॒मा॒रः । चि॒त् । पि॒तर॑म् । वन्द॑मानम् । प्रति॑ । न॒ना॒म॒ । रु॒द्र॒ । उ॒प॒ऽयन्त॑म् ।
    भूरेः॑ । दा॒तार॑म् । सत्ऽप॑तिम् । गृ॒णी॒षे॒ । स्तु॒तः । त्वम् । भे॒ष॒जा । रा॒सि॒ । अ॒स्मे इति॑ ॥

    कुमारः । चित् । पितरम् । वन्दमानम् । प्रति । ननाम । रुद्र । उपऽयन्तम् ।
    भूरेः । दातारम् । सत्ऽपतिम् । गृणीषे । स्तुतः । त्वम् । भेषजा । रासि । अस्मे इति ॥

    kumāráḥ ǀ cit ǀ pitáram ǀ vándamānam ǀ práti ǀ nanāma ǀ rudra ǀ upa-yántam ǀ
    bhū́reḥ ǀ dātā́ram ǀ sát-patim ǀ gṛṇīṣe ǀ stutáḥ ǀ tvám ǀ bheṣajā́ ǀ rāsi ǀ asmé íti ǁ

    kumāraḥ ǀ cit ǀ pitaram ǀ vandamānam ǀ prati ǀ nanāma ǀ rudra ǀ upa-yantam ǀ
    bhūreḥ ǀ dātāram ǀ sat-patim ǀ gṛṇīṣe ǀ stutaḥ ǀ tvam ǀ bheṣajā ǀ rāsi ǀ asme iti ǁ

    2.33.12 Aṣṭaka 2.7.18.2Anuvāka 2.4.12

  13. Ṛk 13

    या वो॑ भेष॒जा म॑रुतः॒ शुची॑नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु ।
    यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥

    या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु |
    यानि मनुर् अवृणीता पिता नस् ता शं च योश् च रुद्रस्य वश्मि ||

    yā́ vo bheṣajā́ marutaḥ śúcīni yā́ śáṃtamā vṛṣaṇo yā́ mayobhú ǀ
    yā́ni mánurávṛṇītā pitā́ nastā́ śám ca yóśca rudrásya vaśmi ǁ

    yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu |
    yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi ||

    या । वः॒ । भे॒ष॒जा । म॒रु॒तः॒ । शुची॑नि । या । शम्ऽत॑मा । वृ॒ष॒णः॒ । या । म॒यः॒ऽभु ।
    यानि॑ । मनुः॑ । अवृ॑णीत । पि॒ता । नः॒ । ता । शम् । च॒ । योः । च॒ । रु॒द्रस्य॑ । व॒श्मि॒ ॥

    या । वः । भेषजा । मरुतः । शुचीनि । या । शम्ऽतमा । वृषणः । या । मयःऽभु ।
    यानि । मनुः । अवृणीत । पिता । नः । ता । शम् । च । योः । च । रुद्रस्य । वश्मि ॥

    yā́ ǀ vaḥ ǀ bheṣajā́ ǀ marutaḥ ǀ śúcīni ǀ yā́ ǀ śám-tamā ǀ vṛṣaṇaḥ ǀ yā́ ǀ mayaḥ-bhú ǀ
    yā́ni ǀ mánuḥ ǀ ávṛṇīta ǀ pitā́ ǀ naḥ ǀ tā́ ǀ śám ǀ ca ǀ yóḥ ǀ ca ǀ rudrásya ǀ vaśmi ǁ

    yā ǀ vaḥ ǀ bheṣajā ǀ marutaḥ ǀ śucīni ǀ yā ǀ śam-tamā ǀ vṛṣaṇaḥ ǀ yā ǀ mayaḥ-bhu ǀ
    yāni ǀ manuḥ ǀ avṛṇīta ǀ pitā ǀ naḥ ǀ tā ǀ śam ǀ ca ǀ yoḥ ǀ ca ǀ rudrasya ǀ vaśmi ǁ

    2.33.13 Aṣṭaka 2.7.18.3Anuvāka 2.4.13

  14. Ṛk 14

    परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् ।
    अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥

    परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर् मही गात् |
    अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृऌअ ||

    pári ṇo hetī́ rudrásya vṛjyāḥ pári tveṣásya durmatírmahī́ gāt ǀ
    áva sthirā́ maghávadbhyastanuṣva mī́ḍhvastokā́ya tánayāya mṛḷa ǁ

    pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt |
    ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḷa ||

    परि॑ । नः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ । परि॑ । त्वे॒षस्य॑ । दुः॒ऽम॒तिः । म॒ही । गा॒त् ।
    अव॑ । स्थि॒रा । म॒घव॑त्ऽभ्यः । त॒नु॒ष्व॒ । मीढ्वः॑ । तो॒काय॑ । तन॑याय । मृ॒ळ॒ ॥

    परि । नः । हेतिः । रुद्रस्य । वृज्याः । परि । त्वेषस्य । दुःऽमतिः । मही । गात् ।
    अव । स्थिरा । मघवत्ऽभ्यः । तनुष्व । मीढ्वः । तोकाय । तनयाय । मृळ ॥

    pári ǀ naḥ ǀ hetíḥ ǀ rudrásya ǀ vṛjyāḥ ǀ pári ǀ tveṣásya ǀ duḥ-matíḥ ǀ mahī́ ǀ gāt ǀ
    áva ǀ sthirā́ ǀ maghávat-bhyaḥ ǀ tanuṣva ǀ mī́ḍhvaḥ ǀ tokā́ya ǀ tánayāya ǀ mṛḷa ǁ

    pari ǀ naḥ ǀ hetiḥ ǀ rudrasya ǀ vṛjyāḥ ǀ pari ǀ tveṣasya ǀ duḥ-matiḥ ǀ mahī ǀ gāt ǀ
    ava ǀ sthirā ǀ maghavat-bhyaḥ ǀ tanuṣva ǀ mīḍhvaḥ ǀ tokāya ǀ tanayāya ǀ mṛḷa ǁ

    2.33.14 Aṣṭaka 2.7.18.4Anuvāka 2.4.14

  15. Ṛk 15

    ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा॑ देव॒ न हृ॑णी॒षे न हंसि॑ ।
    ह॒व॒न॒श्रुन्नो॑ रुद्रे॒ह बो॑धि बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

    एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि |
    हवनश्रुन् नो रुद्रेह बोधि बृहद् वदेम विदथे सुवीराः ||

    evā́ babhro vṛṣabha cekitāna yáthā deva ná hṛṇīṣé ná háṃsi ǀ
    havanaśrúnno rudrehá bodhi bṛhádvadema vidáthe suvī́rāḥ ǁ

    evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi |
    havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ ||

    ए॒व । ब॒भ्रो॒ इति॑ । वृ॒ष॒भ॒ । चे॒कि॒ता॒न॒ । यथा॑ । दे॒व॒ । न । हृ॒णी॒षे । न । हंसि॑ ।
    ह॒व॒न॒ऽश्रुत् । नः॒ । रु॒द्र॒ । इ॒ह । बो॒धि॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

    एव । बभ्रो इति । वृषभ । चेकितान । यथा । देव । न । हृणीषे । न । हंसि ।
    हवनऽश्रुत् । नः । रुद्र । इह । बोधि । बृहत् । वदेम । विदथे । सुऽवीराः ॥

    evá ǀ babhro íti ǀ vṛṣabha ǀ cekitāna ǀ yáthā ǀ deva ǀ ná ǀ hṛṇīṣé ǀ ná ǀ háṃsi ǀ
    havana-śrút ǀ naḥ ǀ rudra ǀ ihá ǀ bodhi ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

    eva ǀ babhro iti ǀ vṛṣabha ǀ cekitāna ǀ yathā ǀ deva ǀ na ǀ hṛṇīṣe ǀ na ǀ haṃsi ǀ
    havana-śrut ǀ naḥ ǀ rudra ǀ iha ǀ bodhi ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

    2.33.15 Aṣṭaka 2.7.18.5Anuvāka 2.4.15

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.33 · Rudra

Interpretations

Ralph T. H. Griffith

Ṛk 1

FATHER of Maruts, let thy bliss approach us: exclude us not from looking on the sunlight. Gracious to our fleet courser be the Hero may we transplant us, Rudra, in our children.

Ṛk 2

With the most saving medicines which thou givest, Rudra, may I attain a hundred winters. Far from us banish enmity and hatred, and to all quarters maladies and trouble.

Ṛk 3

Chief of all born art thou in glory, Rudra, armed with the thunder, mightiest of the mighty. Transport us over trouble to well-being repel thou from us all assaults of mischief.

Ṛk 4

Let us not anger thee with worship, Rudra, ill praise, Strong God! or mingled invocation. Do thou with strengthening balms incite our heroes: I hear thee famed as best of all physicians.

Ṛk 5

May I with praise-songs win that Rudra's favour who is adored with gifts and invocations. Ne’er may the tawny God, fair-checked, and gracious, swifthearing, yield us to this evil purpose.

Ṛk 6

The Strong, begirt by Maruts, hath refreshed me, with most invigorating food, imploring. As he who finds a shade in fervent sunlight may I, uninjured, win the bliss of Rudra.

Ṛk 7

Where is that gracious hand of thine, O Rudra, the hand that giveth health and bringeth comfort, Remover of the woe that Gods have sent us? O Strong One, look thou on me with compassion.

Ṛk 8

To him the strong, great, tawny, fair-complexioned, I utter forth a mighty hymn of praises. We serve the brilliant God with adorations, we glorify, the splendid name of Rudra.

Ṛk 9

With firm limbs, multiform, the strong, the tawny adorns himself with bright gold decorations: The strength of Godhead ne’er departs from Rudra, him who is Sovran of this world, the mighty.

Ṛk 10

Worthy, thou carriest thy bow and arrows, worthy, thy manyhued and honoured necklace. Worthy, thou cuttest here each fiend to pieces: a mightier than thou there is not, Rudra.

Ṛk 11

Praise him the chariot-borne, the young, the famous, fierce, slaying like a dread beast of the forest. O Rudra, praised, be gracious to the singer. let thy hosts spare us and smite down another.

Ṛk 12

I bend to thee as thou approachest, Rudra, even as a boy before the sire who greets him. I praise thee Bounteous Giver, Lord of heroes: give medicines to us as thou art lauded.

Ṛk 13

Of your pure medicines, O potent Maruts, those that are wholesomest and health-bestowing, Those which our father Manu hath selected, I crave from. Rudra for our gain and welfare.

Ṛk 14

May Rudra's missile turn aside and spare us, the great wrath of the impetuous One avoid us. Turn, Bounteous God, thy strong bow from our princes, and be thou gracious to our seed and offspring.