Sūkta 36
- Devatā देवता
- 1, 5: Indra; 2: Maruts; 3: Tvaṣṭṛ; 4: Agni; 6: Mitra, Varuṇa
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles svarāṭtriṣṭup (1, 4); jagatī (2, 3); bhuriktriṣṭup (5, 6)
2nd set of styles jagatī
-
Ṛk 1
तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ ।
पिबें॑द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे ॥तुभ्यं हिन्वानो वसिष्ट गा अपो ऽधुक्षन् सीम् अविभिर् अद्रिभिर् नरः |
पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्राद् आ सोमम् प्रथमो य ईशिषे ||túbhyam hinvānó vasiṣṭa gā́ apó’dhukṣantsīmávibhirádribhirnáraḥ ǀ
píbendra svā́hā práhutam váṣaṭkṛtam hotrā́dā́ sómam prathamó yá ī́śiṣe ǁtubhyaṃ hinvāno vasiṣṭa gā apo 'dhukṣan sīm avibhir adribhir naraḥ |
pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe ||तुभ्य॑म् । हि॒न्वा॒नः । व॒सि॒ष्ट॒ । गाः । अ॒पः । अधु॑क्षन् । सी॒म् । अवि॑ऽभिः । अद्रि॑ऽभिः । नरः॑ ।
पिब॑ । इ॒न्द्र॒ । स्वाहा॑ । प्रऽहु॑तम् । वष॑ट्ऽकृतम् । हो॒त्रात् । आ । सोम॑म् । प्र॒थ॒मः । यः । ईशि॑षे ॥तुभ्यम् । हिन्वानः । वसिष्ट । गाः । अपः । अधुक्षन् । सीम् । अविऽभिः । अद्रिऽभिः । नरः ।
पिब । इन्द्र । स्वाहा । प्रऽहुतम् । वषट्ऽकृतम् । होत्रात् । आ । सोमम् । प्रथमः । यः । ईशिषे ॥túbhyam ǀ hinvānáḥ ǀ vasiṣṭa ǀ gā́ḥ ǀ apáḥ ǀ ádhukṣan ǀ sīm ǀ ávi-bhiḥ ǀ ádri-bhiḥ ǀ náraḥ ǀ
píba ǀ indra ǀ svā́hā ǀ prá-hutam ǀ váṣaṭ-kṛtam ǀ hotrā́t ǀ ā́ ǀ sómam ǀ prathamáḥ ǀ yáḥ ǀ ī́śiṣe ǁtubhyam ǀ hinvānaḥ ǀ vasiṣṭa ǀ gāḥ ǀ apaḥ ǀ adhukṣan ǀ sīm ǀ avi-bhiḥ ǀ adri-bhiḥ ǀ naraḥ ǀ
piba ǀ indra ǀ svāhā ǀ pra-hutam ǀ vaṣaṭ-kṛtam ǀ hotrāt ǀ ā ǀ somam ǀ prathamaḥ ǀ yaḥ ǀ īśiṣe ǁ2.36.1 Aṣṭaka 2.7.25.1Anuvāka 2.4.46
-
Ṛk 2
य॒ज्ञैः सम्मि॑श्लाः॒ पृष॑तीभिर्ऋ॒ष्टिभि॒र्याम॑ञ्छु॒भ्रासो॑ अं॒जिषु॑ प्रि॒या उ॒त ।
आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥यज्ञैः सम्मिश्लाः पृषतीभिर् ऋष्टिभिर् यामञ् छुभ्रासो अञ्जिषु प्रिया उत |
आसद्या बर्हिर् भरतस्य सूनवः पोत्राद् आ सोमम् पिबता दिवो नरः ||yajñáiḥ sámmiślāḥ pṛ́ṣatībhirṛṣṭíbhiryā́mañchubhrā́so añjíṣu priyā́ utá ǀ
āsádyā barhírbharatasya sūnavaḥ potrā́dā́ sómam pibatā divo naraḥ ǁyajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañ chubhrāso añjiṣu priyā uta |
āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ ||य॒ज्ञैः । सम्ऽमि॑श्लाः । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । याम॑न् । शु॒भ्रासः॑ । अ॒ञ्जिषु॑ । प्रि॒याः । उ॒त ।
आ॒ऽसद्य॑ । ब॒र्हिः । भ॒र॒त॒स्य॒ । सू॒न॒वः॒ । पो॒त्रात् । आ । सोम॑म् । पि॒ब॒त॒ । दि॒वः॒ । न॒रः॒ ॥यज्ञैः । सम्ऽमिश्लाः । पृषतीभिः । ऋष्टिऽभिः । यामन् । शुभ्रासः । अञ्जिषु । प्रियाः । उत ।
आऽसद्य । बर्हिः । भरतस्य । सूनवः । पोत्रात् । आ । सोमम् । पिबत । दिवः । नरः ॥yajñáiḥ ǀ sám-miślāḥ ǀ pṛ́ṣatībhiḥ ǀ ṛṣṭí-bhiḥ ǀ yā́man ǀ śubhrā́saḥ ǀ añjíṣu ǀ priyā́ḥ ǀ utá ǀ
ā-sádya ǀ barhíḥ ǀ bharatasya ǀ sūnavaḥ ǀ potrā́t ǀ ā́ ǀ sómam ǀ pibata ǀ divaḥ ǀ naraḥ ǁyajñaiḥ ǀ sam-miślāḥ ǀ pṛṣatībhiḥ ǀ ṛṣṭi-bhiḥ ǀ yāman ǀ śubhrāsaḥ ǀ añjiṣu ǀ priyāḥ ǀ uta ǀ
ā-sadya ǀ barhiḥ ǀ bharatasya ǀ sūnavaḥ ǀ potrāt ǀ ā ǀ somam ǀ pibata ǀ divaḥ ǀ naraḥ ǁ2.36.2 Aṣṭaka 2.7.25.2Anuvāka 2.4.47
-
Ṛk 3
अ॒मेव॑ नः सुहवा॒ आ हि गंत॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन ।
अथा॑ मंदस्व जुजुषा॒णो अंध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन |
अथा मन्दस्व जुजुषाणो अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ||améva naḥ suhavā ā́ hí gántana ní barhíṣi sadatanā ráṇiṣṭana ǀ
áthā mandasva jujuṣāṇó ándhasastváṣṭardevébhirjánibhiḥ sumádgaṇaḥ ǁameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana |
athā mandasva jujuṣāṇo andhasas tvaṣṭar devebhir janibhiḥ sumadgaṇaḥ ||अ॒माऽइ॑व । नः॒ । सु॒ऽह॒वाः॒ । आ । हि । गन्त॑न । नि । ब॒र्हिषि॑ । स॒द॒त॒न॒ । रणि॑ष्टन ।
अथ॑ । म॒न्द॒स्व॒ । जु॒जु॒षा॒णः । अन्ध॑सः । त्वष्टः॑ । दे॒वेभिः॑ । जनि॑ऽभिः । सु॒मत्ऽग॑णः ॥अमाऽइव । नः । सुऽहवाः । आ । हि । गन्तन । नि । बर्हिषि । सदतन । रणिष्टन ।
अथ । मन्दस्व । जुजुषाणः । अन्धसः । त्वष्टः । देवेभिः । जनिऽभिः । सुमत्ऽगणः ॥amā́-iva ǀ naḥ ǀ su-havāḥ ǀ ā́ ǀ hí ǀ gántana ǀ ní ǀ barhíṣi ǀ sadatana ǀ ráṇiṣṭana ǀ
átha ǀ mandasva ǀ jujuṣāṇáḥ ǀ ándhasaḥ ǀ tváṣṭaḥ ǀ devébhiḥ ǀ jáni-bhiḥ ǀ sumát-gaṇaḥ ǁamā-iva ǀ naḥ ǀ su-havāḥ ǀ ā ǀ hi ǀ gantana ǀ ni ǀ barhiṣi ǀ sadatana ǀ raṇiṣṭana ǀ
atha ǀ mandasva ǀ jujuṣāṇaḥ ǀ andhasaḥ ǀ tvaṣṭaḥ ǀ devebhiḥ ǀ jani-bhiḥ ǀ sumat-gaṇaḥ ǁ2.36.3 Aṣṭaka 2.7.25.3Anuvāka 2.4.48
-
Ṛk 4
आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु ।
प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥आ वक्षि देवां इह विप्र यक्षि चोशन् होतर् नि षदा योनिषु त्रिषु |
प्रति वीहि प्रस्थितं सोम्यम् मधु पिबाग्नीध्रात् तव भागस्य तृप्णुहि ||ā́ vakṣi devā́m̐ ihá vipra yákṣi cośánhotarní ṣadā yóniṣu triṣú ǀ
práti vīhi prásthitam somyám mádhu píbā́gnīdhrāttáva bhāgásya tṛpṇuhi ǁā vakṣi devāṃ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu |
prati vīhi prasthitaṃ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi ||आ । व॒क्षि॒ । दे॒वान् । इ॒ह । वि॒प्र॒ । यक्षि॑ । च॒ । उ॒शन् । हो॒तः॒ । नि । स॒द॒ । योनि॑षु । त्रि॒षु ।
प्रति॑ । वी॒हि॒ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पिब॑ । आग्नी॑ध्रात् । तव॑ । भा॒गस्य॑ । तृ॒प्णु॒हि॒ ॥आ । वक्षि । देवान् । इह । विप्र । यक्षि । च । उशन् । होतः । नि । सद । योनिषु । त्रिषु ।
प्रति । वीहि । प्रऽस्थितम् । सोम्यम् । मधु । पिब । आग्नीध्रात् । तव । भागस्य । तृप्णुहि ॥ā́ ǀ vakṣi ǀ devā́n ǀ ihá ǀ vipra ǀ yákṣi ǀ ca ǀ uśán ǀ hotaḥ ǀ ní ǀ sada ǀ yóniṣu ǀ triṣú ǀ
práti ǀ vīhi ǀ prá-sthitam ǀ somyám ǀ mádhu ǀ píba ǀ ā́gnīdhrāt ǀ táva ǀ bhāgásya ǀ tṛpṇuhi ǁā ǀ vakṣi ǀ devān ǀ iha ǀ vipra ǀ yakṣi ǀ ca ǀ uśan ǀ hotaḥ ǀ ni ǀ sada ǀ yoniṣu ǀ triṣu ǀ
prati ǀ vīhi ǀ pra-sthitam ǀ somyam ǀ madhu ǀ piba ǀ āgnīdhrāt ǀ tava ǀ bhāgasya ǀ tṛpṇuhi ǁ2.36.4 Aṣṭaka 2.7.25.4Anuvāka 2.4.49
-
Ṛk 5
ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः ।
तुभ्यं॑ सु॒तो म॑घवं॒तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर् हितः |
तुभ्यं सुतो मघवन् तुभ्यम् आभृतस् त्वम् अस्य ब्राह्मणाद् आ तृपत् पिब ||eṣá syá te tanvó nṛmṇavárdhanaḥ sáha ójaḥ pradívi bāhvórhitáḥ ǀ
túbhyam sutó maghavantúbhyamā́bhṛtastvámasya brā́hmaṇādā́ tṛpátpiba ǁeṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ |
tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba ||ए॒षः । स्यः । ते॒ । त॒न्वः॑ । नृ॒म्ण॒ऽवर्ध॑नः । सहः॑ । ओजः॑ । प्र॒ऽदिवि॑ । बा॒ह्वोः । हि॒तः ।
तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑तः । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥एषः । स्यः । ते । तन्वः । नृम्णऽवर्धनः । सहः । ओजः । प्रऽदिवि । बाह्वोः । हितः ।
तुभ्यम् । सुतः । मघऽवन् । तुभ्यम् । आऽभृतः । त्वम् । अस्य । ब्राह्मणात् । आ । तृपत् । पिब ॥eṣáḥ ǀ syáḥ ǀ te ǀ tanváḥ ǀ nṛmṇa-várdhanaḥ ǀ sáhaḥ ǀ ójaḥ ǀ pra-dívi ǀ bāhvóḥ ǀ hitáḥ ǀ
túbhyam ǀ sutáḥ ǀ magha-van ǀ túbhyam ǀ ā́-bhṛtaḥ ǀ tvám ǀ asya ǀ brā́hmaṇāt ǀ ā́ ǀ tṛpát ǀ piba ǁeṣaḥ ǀ syaḥ ǀ te ǀ tanvaḥ ǀ nṛmṇa-vardhanaḥ ǀ sahaḥ ǀ ojaḥ ǀ pra-divi ǀ bāhvoḥ ǀ hitaḥ ǀ
tubhyam ǀ sutaḥ ǀ magha-van ǀ tubhyam ǀ ā-bhṛtaḥ ǀ tvam ǀ asya ǀ brāhmaṇāt ǀ ā ǀ tṛpat ǀ piba ǁ2.36.5 Aṣṭaka 2.7.25.5Anuvāka 2.4.50
-
Ṛk 6
जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता॑ नि॒विदः॑ पू॒र्व्या अनु॑ ।
अच्छा॒ राजा॑ना॒ नम॑ एत्या॒वृतं॑ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ॥जुषेथां यज्ञम् बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु |
अच्छा राजाना नम एत्य् आवृतम् प्रशास्त्राद् आ पिबतं सोम्यम् मधु ||juṣéthām yajñám bódhatam hávasya me sattó hótā nivídaḥ pūrvyā́ ánu ǀ
ácchā rā́jānā náma etyāvṛ́tam praśāstrā́dā́ pibatam somyám mádhu ǁjuṣethāṃ yajñam bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu |
acchā rājānā nama ety āvṛtam praśāstrād ā pibataṃ somyam madhu ||जु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । स॒त्तः । होता॑ । नि॒ऽविदः॑ । पू॒र्व्याः । अनु॑ ।
अच्छ॑ । राजा॑ना । नमः॑ । ए॒ति॒ । आ॒ऽवृत॑म् । प्र॒ऽशा॒स्त्रात् । आ । पि॒ब॒त॒म् । सो॒म्यम् । मधु॑ ॥जुषेथाम् । यज्ञम् । बोधतम् । हवस्य । मे । सत्तः । होता । निऽविदः । पूर्व्याः । अनु ।
अच्छ । राजाना । नमः । एति । आऽवृतम् । प्रऽशास्त्रात् । आ । पिबतम् । सोम्यम् । मधु ॥juṣéthām ǀ yajñám ǀ bódhatam ǀ hávasya ǀ me ǀ sattáḥ ǀ hótā ǀ ni-vídaḥ ǀ pūrvyā́ḥ ǀ ánu ǀ
áccha ǀ rā́jānā ǀ námaḥ ǀ eti ǀ ā-vṛ́tam ǀ pra-śāstrā́t ǀ ā́ ǀ pibatam ǀ somyám ǀ mádhu ǁjuṣethām ǀ yajñam ǀ bodhatam ǀ havasya ǀ me ǀ sattaḥ ǀ hotā ǀ ni-vidaḥ ǀ pūrvyāḥ ǀ anu ǀ
accha ǀ rājānā ǀ namaḥ ǀ eti ǀ ā-vṛtam ǀ pra-śāstrāt ǀ ā ǀ pibatam ǀ somyam ǀ madhu ǁ2.36.6 Aṣṭaka 2.7.25.6Anuvāka 2.4.51
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.