Ṛk 2.36.4
Saṃhitā
आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु ।
प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥
आ वक्षि देवां इह विप्र यक्षि चोशन् होतर् नि षदा योनिषु त्रिषु |
प्रति वीहि प्रस्थितं सोम्यम् मधु पिबाग्नीध्रात् तव भागस्य तृप्णुहि ||
ā́ vakṣi devā́m̐ ihá vipra yákṣi cośánhotarní ṣadā yóniṣu triṣú ǀ
práti vīhi prásthitam somyám mádhu píbā́gnīdhrāttáva bhāgásya tṛpṇuhi ǁ
ā vakṣi devāṃ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu |
prati vīhi prasthitaṃ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi ||
Padapāṭha
आ । व॒क्षि॒ । दे॒वान् । इ॒ह । वि॒प्र॒ । यक्षि॑ । च॒ । उ॒शन् । हो॒तः॒ । नि । स॒द॒ । योनि॑षु । त्रि॒षु ।
प्रति॑ । वी॒हि॒ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पिब॑ । आग्नी॑ध्रात् । तव॑ । भा॒गस्य॑ । तृ॒प्णु॒हि॒ ॥
आ । वक्षि । देवान् । इह । विप्र । यक्षि । च । उशन् । होतः । नि । सद । योनिषु । त्रिषु ।
प्रति । वीहि । प्रऽस्थितम् । सोम्यम् । मधु । पिब । आग्नीध्रात् । तव । भागस्य । तृप्णुहि ॥
ā́ ǀ vakṣi ǀ devā́n ǀ ihá ǀ vipra ǀ yákṣi ǀ ca ǀ uśán ǀ hotaḥ ǀ ní ǀ sada ǀ yóniṣu ǀ triṣú ǀ
práti ǀ vīhi ǀ prá-sthitam ǀ somyám ǀ mádhu ǀ píba ǀ ā́gnīdhrāt ǀ táva ǀ bhāgásya ǀ tṛpṇuhi ǁ
ā ǀ vakṣi ǀ devān ǀ iha ǀ vipra ǀ yakṣi ǀ ca ǀ uśan ǀ hotaḥ ǀ ni ǀ sada ǀ yoniṣu ǀ triṣu ǀ
prati ǀ vīhi ǀ pra-sthitam ǀ somyam ǀ madhu ǀ piba ǀ āgnīdhrāt ǀ tava ǀ bhāgasya ǀ tṛpṇuhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.036.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.25.04
- Maṇḍala · Anuvāka · Ṛk
- 02.04.049
- Devatā देवता
- 1, 5: Indra; 2: Maruts; 3: Tvaṣṭṛ; 4: Agni; 6: Mitra, Varuṇa
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.