Ṛgveda · Maṇḍala 2

Sūkta 28

Varuṇa · Somahūti Bhārgava Śaunaka Or Kūrma Gārtsamada · 11 ṛks

Link
Devatā देवता
Varuṇa
Ṛṣi ऋषि
Somahūti Bhārgava Śaunaka Or Kūrma Gārtsamada
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 3, 4, 6); triṣṭup (5, 7, 11); bhurikpaṅkti (2, 10); virāṭtrisṭup (8); bhuriktriṣṭup (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सांत्य॒भ्य॑स्तु म॒ह्ना ।
    अति॒ यो मं॒द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः॑ ॥

    इदं कवेर् आदित्यस्य स्वराजो विश्वानि सान्त्य् अभ्य् अस्तु मह्ना |
    अति यो मन्द्रो यजथाय देवः सुकीर्तिम् भिक्षे वरुणस्य भूरेः ||

    idám kavérādityásya svarā́jo víśvāni sā́ntyabhyástu mahnā́ ǀ
    áti yó mandró yajáthāya deváḥ sukīrtím bhikṣe váruṇasya bhū́reḥ ǁ

    idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā |
    ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ ||

    इ॒दम् । क॒वेः । आ॒दि॒त्यस्य॑ । स्व॒ऽराजः॑ । विश्वा॑नि । सन्ति॑ । अ॒भि । अ॒स्तु॒ । म॒ह्ना ।
    अति॑ । यः । म॒न्द्रः । य॒जथा॑य । दे॒वः । सु॒ऽकी॒र्तिम् । भि॒क्षे॒ । वरु॑णस्य । भूरेः॑ ॥

    इदम् । कवेः । आदित्यस्य । स्वऽराजः । विश्वानि । सन्ति । अभि । अस्तु । मह्ना ।
    अति । यः । मन्द्रः । यजथाय । देवः । सुऽकीर्तिम् । भिक्षे । वरुणस्य । भूरेः ॥

    idám ǀ kavéḥ ǀ ādityásya ǀ sva-rā́jaḥ ǀ víśvāni ǀ sánti ǀ abhí ǀ astu ǀ mahnā́ ǀ
    áti ǀ yáḥ ǀ mandráḥ ǀ yajáthāya ǀ deváḥ ǀ su-kīrtím ǀ bhikṣe ǀ váruṇasya ǀ bhū́reḥ ǁ

    idam ǀ kaveḥ ǀ ādityasya ǀ sva-rājaḥ ǀ viśvāni ǀ santi ǀ abhi ǀ astu ǀ mahnā ǀ
    ati ǀ yaḥ ǀ mandraḥ ǀ yajathāya ǀ devaḥ ǀ su-kīrtim ǀ bhikṣe ǀ varuṇasya ǀ bhūreḥ ǁ

    2.28.1 Aṣṭaka 2.7.9.1Anuvāka 2.3.62

  2. Ṛk 2

    तव॑ व्र॒ते सु॒भगा॑सः स्याम स्वा॒ध्यो॑ वरुण तुष्टु॒वांसः॑ ।
    उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒ अनु॒ द्यून् ॥

    तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः |
    उपायन उषसां गोमतीनाम् अग्नयो न जरमाणा अनु द्यून् ||

    táva vraté subhágāsaḥ syāma svādhyó varuṇa tuṣṭuvā́ṃsaḥ ǀ
    upā́yana uṣásām gómatīnāmagnáyo ná járamāṇā ánu dyū́n ǁ

    tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ |
    upāyana uṣasāṃ gomatīnām agnayo na jaramāṇā anu dyūn ||

    तव॑ । व्र॒ते । सु॒ऽभगा॑सः । स्या॒म॒ । सु॒ऽआ॒ध्यः॑ । व॒रु॒ण॒ । तु॒स्तु॒ऽवांसः॑ ।
    उ॒प॒ऽअय॑ने । उ॒षसा॑म् । गोऽम॑तीनाम् । अ॒ग्नयः॑ । न । जर॑माणाः । अनु॑ । द्यून् ॥

    तव । व्रते । सुऽभगासः । स्याम । सुऽआध्यः । वरुण । तुस्तुऽवांसः ।
    उपऽअयने । उषसाम् । गोऽमतीनाम् । अग्नयः । न । जरमाणाः । अनु । द्यून् ॥

    táva ǀ vraté ǀ su-bhágāsaḥ ǀ syāma ǀ su-ādhyáḥ ǀ varuṇa ǀ tustu-vā́ṃsaḥ ǀ
    upa-áyane ǀ uṣásām ǀ gó-matīnām ǀ agnáyaḥ ǀ ná ǀ járamāṇāḥ ǀ ánu ǀ dyū́n ǁ

    tava ǀ vrate ǀ su-bhagāsaḥ ǀ syāma ǀ su-ādhyaḥ ǀ varuṇa ǀ tustu-vāṃsaḥ ǀ
    upa-ayane ǀ uṣasām ǀ go-matīnām ǀ agnayaḥ ǀ na ǀ jaramāṇāḥ ǀ anu ǀ dyūn ǁ

    2.28.2 Aṣṭaka 2.7.9.2Anuvāka 2.3.63

  3. Ṛk 3

    तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म॑न्नुरु॒शंस॑स्य वरुण प्रणेतः ।
    यू॒यं नः॑ पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या॑य देवाः ॥

    तव स्याम पुरुवीरस्य शर्मन्न् उरुशंसस्य वरुण प्रणेतः |
    यूयं नः पुत्रा अदितेर् अदब्धा अभि क्षमध्वं युज्याय देवाः ||

    táva syāma puruvī́rasya śármannuruśáṃsasya varuṇa praṇetaḥ ǀ
    yūyám naḥ putrā aditeradabdhā abhí kṣamadhvam yújyāya devāḥ ǁ

    tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ |
    yūyaṃ naḥ putrā aditer adabdhā abhi kṣamadhvaṃ yujyāya devāḥ ||

    अव॑ । स्या॒म॒ । पु॒रु॒ऽवीर॑स्य । शर्म॑न् । उ॒रु॒ऽशंस॑स्य । व॒रु॒ण॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः ।
    यू॒यम् । नः॒ । पु॒त्राः॒ । अ॒दि॒तेः॒ । अ॒द॒ब्धाः॒ । अ॒भि । क्ष॒म॒ध्व॒म् । युज्या॑य । दे॒वाः॒ ॥

    अव । स्याम । पुरुऽवीरस्य । शर्मन् । उरुऽशंसस्य । वरुण । प्रनेतरिति प्रऽनेतः ।
    यूयम् । नः । पुत्राः । अदितेः । अदब्धाः । अभि । क्षमध्वम् । युज्याय । देवाः ॥

    áva ǀ syāma ǀ puru-vī́rasya ǀ śárman ǀ uru-śáṃsasya ǀ varuṇa ǀ pranetaríti pra-netaḥ ǀ
    yūyám ǀ naḥ ǀ putrāḥ ǀ aditeḥ ǀ adabdhāḥ ǀ abhí ǀ kṣamadhvam ǀ yújyāya ǀ devāḥ ǁ

    ava ǀ syāma ǀ puru-vīrasya ǀ śarman ǀ uru-śaṃsasya ǀ varuṇa ǀ pranetariti pra-netaḥ ǀ
    yūyam ǀ naḥ ǀ putrāḥ ǀ aditeḥ ǀ adabdhāḥ ǀ abhi ǀ kṣamadhvam ǀ yujyāya ǀ devāḥ ǁ

    2.28.3 Aṣṭaka 2.7.9.3Anuvāka 2.3.64

  4. Ṛk 4

    प्र सी॑मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिंध॑वो॒ वरु॑णस्य यंति ।
    न श्रा॑म्यंति॒ न वि मु॑चंत्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ॥

    प्र सीम् आदित्यो असृजद् विधर्तां ऋतं सिन्धवो वरुणस्य यन्ति |
    न श्राम्यन्ति न वि मुचन्त्य् एते वयो न पप्तू रघुया परिज्मन् ||

    prá sīmādityó asṛjadvidhartā́m̐ ṛtám síndhavo váruṇasya yanti ǀ
    ná śrāmyanti ná ví mucantyeté váyo ná paptū raghuyā́ párijman ǁ

    pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti |
    na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman ||

    प्र । सी॒म् । आ॒दि॒त्यः । अ॒सृ॒ज॒त् । वि॒ऽध॒र्ता । ऋ॒तम् । सिन्ध॑वः । वरु॑णस्य । य॒न्ति॒ ।
    न । श्रा॒म्य॒न्ति॒ । न । वि । मु॒च॒न्ति॒ । ए॒ते । वयः॑ । न । प॒प्तुः॒ । र॒घु॒ऽया । परि॑ऽज्मन् ॥

    प्र । सीम् । आदित्यः । असृजत् । विऽधर्ता । ऋतम् । सिन्धवः । वरुणस्य । यन्ति ।
    न । श्राम्यन्ति । न । वि । मुचन्ति । एते । वयः । न । पप्तुः । रघुऽया । परिऽज्मन् ॥

    prá ǀ sīm ǀ ādityáḥ ǀ asṛjat ǀ vi-dhartā́ ǀ ṛtám ǀ síndhavaḥ ǀ váruṇasya ǀ yanti ǀ
    ná ǀ śrāmyanti ǀ ná ǀ ví ǀ mucanti ǀ eté ǀ váyaḥ ǀ ná ǀ paptuḥ ǀ raghu-yā́ ǀ pári-jman ǁ

    pra ǀ sīm ǀ ādityaḥ ǀ asṛjat ǀ vi-dhartā ǀ ṛtam ǀ sindhavaḥ ǀ varuṇasya ǀ yanti ǀ
    na ǀ śrāmyanti ǀ na ǀ vi ǀ mucanti ǀ ete ǀ vayaḥ ǀ na ǀ paptuḥ ǀ raghu-yā ǀ pari-jman ǁ

    2.28.4 Aṣṭaka 2.7.9.4Anuvāka 2.3.65

  5. Ṛk 5

    वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ ।
    मा तंतु॑श्छेदि॒ वय॑तो॒ धियं॑ मे॒ मा मात्रा॑ शार्य॒पसः॑ पु॒र ऋ॒तोः ॥

    वि मच् छ्रथाय रशनाम् इवाग ऋध्याम ते वरुण खाम् ऋतस्य |
    मा तन्तुश् छेदि वयतो धियम् मे मा मात्रा शार्य् अपसः पुर ऋतोः ||

    ví mácchrathāya raśanā́mivā́ga ṛdhyā́ma te varuṇa khā́mṛtásya ǀ
    mā́ tántuśchedi váyato dhíyam me mā́ mā́trā śāryapásaḥ purá ṛtóḥ ǁ

    vi mac chrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya |
    mā tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ ||

    वि । मत् । श्र॒थ॒य॒ । र॒श॒नाम्ऽइ॑व । आगः॑ । ऋ॒ध्याम॑ । ते॒ । व॒रु॒ण॒ । खाम् । ऋ॒तस्य॑ ।
    मा । तन्तुः॑ । छे॒दि॒ । वय॑तः । धिय॑म् । मे॒ । मा । मात्रा॑ । शा॒रि॒ । अ॒पसः॑ । पु॒रा । ऋ॒तोः ॥

    वि । मत् । श्रथय । रशनाम्ऽइव । आगः । ऋध्याम । ते । वरुण । खाम् । ऋतस्य ।
    मा । तन्तुः । छेदि । वयतः । धियम् । मे । मा । मात्रा । शारि । अपसः । पुरा । ऋतोः ॥

    ví ǀ mát ǀ śrathaya ǀ raśanā́m-iva ǀ ā́gaḥ ǀ ṛdhyā́ma ǀ te ǀ varuṇa ǀ khā́m ǀ ṛtásya ǀ
    mā́ ǀ tántuḥ ǀ chedi ǀ váyataḥ ǀ dhíyam ǀ me ǀ mā́ ǀ mā́trā ǀ śāri ǀ apásaḥ ǀ purā́ ǀ ṛtóḥ ǁ

    vi ǀ mat ǀ śrathaya ǀ raśanām-iva ǀ āgaḥ ǀ ṛdhyāma ǀ te ǀ varuṇa ǀ khām ǀ ṛtasya ǀ
    mā ǀ tantuḥ ǀ chedi ǀ vayataḥ ǀ dhiyam ǀ me ǀ mā ǀ mātrā ǀ śāri ǀ apasaḥ ǀ purā ǀ ṛtoḥ ǁ

    2.28.5 Aṣṭaka 2.7.9.5Anuvāka 2.3.66

  6. Ṛk 6

    अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत्सम्रा॒ळृता॒वोऽनु॑ मा गृभाय ।
    दामे॑व व॒त्साद्वि मु॑मु॒ग्ध्यंहो॑ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे॑ ॥

    अपो सु म्यक्ष वरुण भियसम् मत् सम्राऌ ऋतावो ऽनु मा गृभाय |
    दामेव वत्साद् वि मुमुग्ध्य् अंहो नहि त्वद् आरे निमिषश् चनेशे ||

    ápo sú myakṣa varuṇa bhiyásam mátsámrāḷṛ́tāvó’nu mā gṛbhāya ǀ
    dā́meva vatsā́dví mumugdhyáṃho nahí tvádāré nimíṣaścanéśe ǁ

    apo su myakṣa varuṇa bhiyasam mat samrāḷ ṛtāvo 'nu mā gṛbhāya |
    dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe ||

    अपो॒ इति॑ । सु । म्य॒क्ष॒ । व॒रु॒ण॒ । भि॒यस॑म् । मत् । सम्ऽरा॑ट् । ऋत॑ऽवः । अनु॑ । मा॒ । गृ॒भा॒य॒ ।
    दाम॑ऽइव । व॒त्सात् । वि । मु॒मु॒ग्धि॒ । अंहः॑ । न॒हि । त्वत् । आ॒रे । नि॒ऽमिषः॑ । च॒न । ईशे॑ ॥

    अपो इति । सु । म्यक्ष । वरुण । भियसम् । मत् । सम्ऽराट् । ऋतऽवः । अनु । मा । गृभाय ।
    दामऽइव । वत्सात् । वि । मुमुग्धि । अंहः । नहि । त्वत् । आरे । निऽमिषः । चन । ईशे ॥

    ápo íti ǀ sú ǀ myakṣa ǀ varuṇa ǀ bhiyásam ǀ mát ǀ sám-rāṭ ǀ ṛ́ta-vaḥ ǀ ánu ǀ mā ǀ gṛbhāya ǀ
    dā́ma-iva ǀ vatsā́t ǀ ví ǀ mumugdhi ǀ áṃhaḥ ǀ nahí ǀ tvát ǀ āré ǀ ni-míṣaḥ ǀ caná ǀ ī́śe ǁ

    apo iti ǀ su ǀ myakṣa ǀ varuṇa ǀ bhiyasam ǀ mat ǀ sam-rāṭ ǀ ṛta-vaḥ ǀ anu ǀ mā ǀ gṛbhāya ǀ
    dāma-iva ǀ vatsāt ǀ vi ǀ mumugdhi ǀ aṃhaḥ ǀ nahi ǀ tvat ǀ āre ǀ ni-miṣaḥ ǀ cana ǀ īśe ǁ

    2.28.6 Aṣṭaka 2.7.10.1Anuvāka 2.3.67

  7. Ṛk 7

    मा नो॑ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वंत॑मसुर भ्री॒णंति॑ ।
    मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे॑ नः ॥

    मा नो वधैर् वरुण ये त इष्टाव् एनः कृण्वन्तम् असुर भ्रीणन्ति |
    मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ||

    mā́ no vadháirvaruṇa yé ta iṣṭā́vénaḥ kṛṇvántamasura bhrīṇánti ǀ
    mā́ jyótiṣaḥ pravasathā́ni ganma ví ṣū́ mṛ́dhaḥ śiśratho jīváse naḥ ǁ

    mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti |
    mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ ||

    मा । नः॒ । व॒धैः । व॒रु॒ण॒ । ये । ते॒ । इ॒ष्टौ । एनः॑ । कृ॒ण्वन्त॑म् । अ॒सु॒र॒ । भ्री॒णन्ति॑ ।
    मा । ज्योति॑षः । प्र॒ऽव॒स॒थानि॑ । ग॒न्म॒ । वि । सु । मृधः॑ । शि॒श्र॒थः॒ । जी॒वसे॑ । नः॒ ॥

    मा । नः । वधैः । वरुण । ये । ते । इष्टौ । एनः । कृण्वन्तम् । असुर । भ्रीणन्ति ।
    मा । ज्योतिषः । प्रऽवसथानि । गन्म । वि । सु । मृधः । शिश्रथः । जीवसे । नः ॥

    mā́ ǀ naḥ ǀ vadháiḥ ǀ varuṇa ǀ yé ǀ te ǀ iṣṭáu ǀ énaḥ ǀ kṛṇvántam ǀ asura ǀ bhrīṇánti ǀ
    mā́ ǀ jyótiṣaḥ ǀ pra-vasathā́ni ǀ ganma ǀ ví ǀ sú ǀ mṛ́dhaḥ ǀ śiśrathaḥ ǀ jīváse ǀ naḥ ǁ

    mā ǀ naḥ ǀ vadhaiḥ ǀ varuṇa ǀ ye ǀ te ǀ iṣṭau ǀ enaḥ ǀ kṛṇvantam ǀ asura ǀ bhrīṇanti ǀ
    mā ǀ jyotiṣaḥ ǀ pra-vasathāni ǀ ganma ǀ vi ǀ su ǀ mṛdhaḥ ǀ śiśrathaḥ ǀ jīvase ǀ naḥ ǁ

    2.28.7 Aṣṭaka 2.7.10.2Anuvāka 2.3.68

  8. Ṛk 8

    नमः॑ पु॒रा ते॑ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम ।
    त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ॥

    नमः पुरा ते वरुणोत नूनम् उतापरं तुविजात ब्रवाम |
    त्वे हि कम् पर्वते न श्रितान्य् अप्रच्युतानि दूऌअभ व्रतानि ||

    námaḥ purā́ te varuṇotá nūnámutā́parám tuvijāta bravāma ǀ
    tvé hí kam párvate ná śritā́nyápracyutāni dūḷabha vratā́ni ǁ

    namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma |
    tve hi kam parvate na śritāny apracyutāni dūḷabha vratāni ||

    नमः॑ । पु॒रा । ते॒ । व॒रु॒ण॒ । उ॒त । नू॒नम् । उ॒त । अ॒प॒रम् । तु॒वि॒ऽजा॒त॒ । ब्र॒वा॒म॒ ।
    त्वे इति॑ । हि । क॒म् । पर्व॑ते । न । श्रि॒तानि॑ । अप्र॑ऽच्युतानि । दुः॒ऽद॒भ॒ । व्र॒तानि॑ ॥

    नमः । पुरा । ते । वरुण । उत । नूनम् । उत । अपरम् । तुविऽजात । ब्रवाम ।
    त्वे इति । हि । कम् । पर्वते । न । श्रितानि । अप्रऽच्युतानि । दुःऽदभ । व्रतानि ॥

    námaḥ ǀ purā́ ǀ te ǀ varuṇa ǀ utá ǀ nūnám ǀ utá ǀ aparám ǀ tuvi-jāta ǀ bravāma ǀ
    tvé íti ǀ hí ǀ kam ǀ párvate ǀ ná ǀ śritā́ni ǀ ápra-cyutāni ǀ duḥ-dabha ǀ vratā́ni ǁ

    namaḥ ǀ purā ǀ te ǀ varuṇa ǀ uta ǀ nūnam ǀ uta ǀ aparam ǀ tuvi-jāta ǀ bravāma ǀ
    tve iti ǀ hi ǀ kam ǀ parvate ǀ na ǀ śritāni ǀ apra-cyutāni ǀ duḥ-dabha ǀ vratāni ǁ

    2.28.8 Aṣṭaka 2.7.10.3Anuvāka 2.3.69

  9. Ṛk 9

    पर॑ ऋ॒णा सा॑वी॒रध॒ मत्कृ॑तानि॒ माहं रा॑जन्न॒न्यकृ॑तेन भोजं ।
    अव्यु॑ष्टा॒ इन्नु भूय॑सीरु॒षास॒ आ नो॑ जी॒वान्व॑रुण॒ तासु॑ शाधि ॥

    पर ऋणा सावीर् अध मत्कृतानि माहं राजन्न् अन्यकृतेन भोजम् |
    अव्युष्टा इन् नु भूयसीर् उषास आ नो जीवान् वरुण तासु शाधि ||

    pára ṛṇā́ sāvīrádha mátkṛtāni mā́hám rājannanyákṛtena bhojam ǀ
    ávyuṣṭā ínnú bhū́yasīruṣā́sa ā́ no jīvā́nvaruṇa tā́su śādhi ǁ

    para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam |
    avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi ||

    परा॑ । ऋ॒णा । सा॒वीः॒ । अध॑ । मत्ऽकृ॑तानि । मा । अ॒हम् । रा॒ज॒न् । अ॒न्यऽकृ॑तेन । भो॒ज॒म् ।
    अवि॑ऽउष्टाः । इत् । नु । भूय॑सीः । उ॒षसः॑ । आ । नः॒ । जी॒वान् । व॒रु॒ण॒ । तासु॑ । शा॒धि॒ ॥

    परा । ऋणा । सावीः । अध । मत्ऽकृतानि । मा । अहम् । राजन् । अन्यऽकृतेन । भोजम् ।
    अविऽउष्टाः । इत् । नु । भूयसीः । उषसः । आ । नः । जीवान् । वरुण । तासु । शाधि ॥

    párā ǀ ṛṇā́ ǀ sāvīḥ ǀ ádha ǀ mát-kṛtāni ǀ mā́ ǀ ahám ǀ rājan ǀ anyá-kṛtena ǀ bhojam ǀ
    ávi-uṣṭāḥ ǀ ít ǀ nú ǀ bhū́yasīḥ ǀ uṣásaḥ ǀ ā́ ǀ naḥ ǀ jīvā́n ǀ varuṇa ǀ tā́su ǀ śādhi ǁ

    parā ǀ ṛṇā ǀ sāvīḥ ǀ adha ǀ mat-kṛtāni ǀ mā ǀ aham ǀ rājan ǀ anya-kṛtena ǀ bhojam ǀ
    avi-uṣṭāḥ ǀ it ǀ nu ǀ bhūyasīḥ ǀ uṣasaḥ ǀ ā ǀ naḥ ǀ jīvān ǀ varuṇa ǀ tāsu ǀ śādhi ǁ

    2.28.9 Aṣṭaka 2.7.10.4Anuvāka 2.3.70

  10. Ṛk 10

    यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑ ।
    स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान् ॥

    यो मे राजन् युज्यो वा सखा वा स्वप्ने भयम् भीरवे मह्यम् आह |
    स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुण पाह्य् अस्मान् ||

    yó me rājanyújyo vā sákhā vā svápne bhayám bhīráve máhyamā́ha ǀ
    stenó vā yó dípsati no vṛ́ko vā tvám tásmādvaruṇa pāhyasmā́n ǁ

    yo me rājan yujyo vā sakhā vā svapne bhayam bhīrave mahyam āha |
    steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān ||

    यः । मे॒ । रा॒ज॒न् । युज्यः॑ । वा॒ । सखा॑ । वा॒ । स्वप्ने॑ । भ॒यम् । भी॒रवे॑ । मह्य॑म् । आह॑ ।
    स्ते॒नः । वा॒ । यः । दिप्स॑ति । नः॒ । वृकः॑ । वा॒ । त्वम् । तस्मा॑त् । व॒रु॒ण॒ । पा॒हि॒ । अ॒स्मान् ॥

    यः । मे । राजन् । युज्यः । वा । सखा । वा । स्वप्ने । भयम् । भीरवे । मह्यम् । आह ।
    स्तेनः । वा । यः । दिप्सति । नः । वृकः । वा । त्वम् । तस्मात् । वरुण । पाहि । अस्मान् ॥

    yáḥ ǀ me ǀ rājan ǀ yújyaḥ ǀ vā ǀ sákhā ǀ vā ǀ svápne ǀ bhayám ǀ bhīráve ǀ máhyam ǀ ā́ha ǀ
    stenáḥ ǀ vā ǀ yáḥ ǀ dípsati ǀ naḥ ǀ vṛ́kaḥ ǀ vā ǀ tvám ǀ tásmāt ǀ varuṇa ǀ pāhi ǀ asmā́n ǁ

    yaḥ ǀ me ǀ rājan ǀ yujyaḥ ǀ vā ǀ sakhā ǀ vā ǀ svapne ǀ bhayam ǀ bhīrave ǀ mahyam ǀ āha ǀ
    stenaḥ ǀ vā ǀ yaḥ ǀ dipsati ǀ naḥ ǀ vṛkaḥ ǀ vā ǀ tvam ǀ tasmāt ǀ varuṇa ǀ pāhi ǀ asmān ǁ

    2.28.10 Aṣṭaka 2.7.10.5Anuvāka 2.3.71

  11. Ṛk 11

    माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।
    मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

    माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः |
    मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ||

    mā́hám maghóno varuṇa priyásya bhūridā́vna ā́ vidam śū́namāpéḥ ǀ
    mā́ rāyó rājantsuyámādáva sthām bṛhádvadema vidáthe suvī́rāḥ ǁ

    māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ |
    mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ ||

    मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।
    मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

    मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरिऽदाव्नः । आ । विदम् । शूनम् । आपेः ।
    मा । रायः । राजन् । सुऽयमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥

    mā́ ǀ ahám ǀ maghónaḥ ǀ varuṇa ǀ priyásya ǀ bhūri-dā́vnaḥ ǀ ā́ ǀ vidam ǀ śū́nam ǀ āpéḥ ǀ
    mā́ ǀ rāyáḥ ǀ rājan ǀ su-yámāt ǀ áva ǀ sthām ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

    mā ǀ aham ǀ maghonaḥ ǀ varuṇa ǀ priyasya ǀ bhūri-dāvnaḥ ǀ ā ǀ vidam ǀ śūnam ǀ āpeḥ ǀ
    mā ǀ rāyaḥ ǀ rājan ǀ su-yamāt ǀ ava ǀ sthām ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

    2.28.11 Aṣṭaka 2.7.10.6Anuvāka 2.3.72

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.28 · Varuṇa

Interpretations

Sri Aurobindo

Ṛk 1

May this that is of the Seer, the son of Infinity who hath the empire of himself possess all things of being with its might, —the god who beyond all has rapture for the sacrifice, his perfect effectiveness I ask for boon,—of Varuna in the full riches of his being.

Ṛk 2

In the law of thy action may we entirely enjoy and have perfect incidence of our thoughts, O Varuna, when thee we have confirmed in us by praise, like fires of might enjoying (or seeking thee) from day to day in the coming of the luminous Dawns.

Ṛk 3

May we abide in the peace of thee, the many-energied, the wide of self-expression, O Varuna, O leader forward on the path; do you for us, O unconquered sons of Aditi, put forth the powers of your divine being for comradeship with us in the fight.

Ṛk 4

It is the son of Aditi who has let forth all things and holds all in its place; the streams of being travel towards the Truth of Varuna, they tire not, neither loose their hold, but fly like birds in their speed through the all-encompassing.

Ṛk 5

Shear away evil from me like a cord; may we increase the continent of thy Truth, O Varuna; let not my thread be cut while I am widening out Thought in me, nor may the matter of my work fail me as it travels forward.

Ṛk 6

O Varuna, separate fear from me utterly; Master of Truth who hast empire over the world, have kindly yearnings towards me (or, reach out and hold me in thy embrace); loose evil from me as a calf is freed from its tether; apart from thee I have not control even over my gazings.

Ṛk 7

Smite us not with thy blows, O Varuna, that vibrate through him who doeth sin in thy sacrifice; let us not wander into exiles from the Light, cleave wholly away from us our besiegers that we may live.

Ṛk 8

May we utter submission to thee, O Varuna, as before, so now and hereafter; for in thee verily as on a mountain are founded, O invincible one, all the laws of action that stand uno’erthrown.

Ṛk 9

Bring out for me now my past movements that I have done; may I not, O King, enjoy by the doings of another. Many are our days that have yet not dawned; in them, O Varuna, do thou govern our living spirits.

Ṛk 10

Whatsoever comrade or friend, O King, hath spoken to me of peril in a dream and made me to fear or whosoever, thief or wolf of the tearing, rendeth us, do thou from that protect us, O Varuna.

Ṛk 11

May I never, O Varuna, know the want of my mighty and beloved and richly-bountied helper (or friend); may I not fall from bliss entirely controlled; may we express the Vast, becoming perfect-energied in knowledge.