Sūkta 5
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Somahūti Bhārgava
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 6); anuṣṭup (2, 4, 5); bhuriguṣṇik (7); virāḍanuṣṭup (8)
2nd set of styles anuṣṭubh
-
Ṛk 1
होता॑जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये॑ ।
प्र॒यक्षं॒जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यमं॑ ॥होताजनिष्ट चेतनः पिता पितृभ्य ऊतये |
प्रयक्षञ् जेन्यं वसु शकेम वाजिनो यमम् ||hótājaniṣṭa cétanaḥ pitā́ pitṛ́bhya ūtáye ǀ
prayákṣañjényam vásu śakéma vājíno yámam ǁhotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye |
prayakṣañ jenyaṃ vasu śakema vājino yamam ||होता॑ । अ॒ज॒नि॒ष्ट॒ । चेत॑नः । पि॒ता । पि॒तृऽभ्यः॑ । ऊ॒तये॑ ।
प्र॒ऽयक्ष॑न् । जेन्य॑म् । वसु॑ । श॒केम॑ । वा॒जिनः॑ । यम॑म् ॥होता । अजनिष्ट । चेतनः । पिता । पितृऽभ्यः । ऊतये ।
प्रऽयक्षन् । जेन्यम् । वसु । शकेम । वाजिनः । यमम् ॥hótā ǀ ajaniṣṭa ǀ cétanaḥ ǀ pitā́ ǀ pitṛ́-bhyaḥ ǀ ūtáye ǀ
pra-yákṣan ǀ jényam ǀ vásu ǀ śakéma ǀ vājínaḥ ǀ yámam ǁhotā ǀ ajaniṣṭa ǀ cetanaḥ ǀ pitā ǀ pitṛ-bhyaḥ ǀ ūtaye ǀ
pra-yakṣan ǀ jenyam ǀ vasu ǀ śakema ǀ vājinaḥ ǀ yamam ǁ2.5.1 Aṣṭaka 2.5.26.1Anuvāka 2.1.50
-
Ṛk 2
आ यस्मि॑न्त्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ ।
म॒नु॒ष्वद्दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि॑न्वति ॥आ यस्मिन् सप्त रश्मयस् तता यज्ञस्य नेतरि |
मनुष्वद् दैव्यम् अष्टमम् पोता विश्वं तद् इन्वति ||ā́ yásmintsaptá raśmáyastatā́ yajñásya netári ǀ
manuṣváddáivyamaṣṭamám pótā víśvam tádinvati ǁā yasmin sapta raśmayas tatā yajñasya netari |
manuṣvad daivyam aṣṭamam potā viśvaṃ tad invati ||आ । यस्मि॑न् । स॒प्त । र॒श्मयः॑ । त॒ताः । य॒ज्ञस्य॑ । ने॒तरि॑ ।
म॒नु॒ष्वत् । दैव्य॑म् । अ॒ष्ट॒मम् । पोता॑ । विश्व॑म् । तत् । इ॒न्व॒ति॒ ॥आ । यस्मिन् । सप्त । रश्मयः । तताः । यज्ञस्य । नेतरि ।
मनुष्वत् । दैव्यम् । अष्टमम् । पोता । विश्वम् । तत् । इन्वति ॥ā́ ǀ yásmin ǀ saptá ǀ raśmáyaḥ ǀ tatā́ḥ ǀ yajñásya ǀ netári ǀ
manuṣvát ǀ dáivyam ǀ aṣṭamám ǀ pótā ǀ víśvam ǀ tát ǀ invati ǁā ǀ yasmin ǀ sapta ǀ raśmayaḥ ǀ tatāḥ ǀ yajñasya ǀ netari ǀ
manuṣvat ǀ daivyam ǀ aṣṭamam ǀ potā ǀ viśvam ǀ tat ǀ invati ǁ2.5.2 Aṣṭaka 2.5.26.2Anuvāka 2.1.51
-
Ṛk 3
द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् ।
परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् |
परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ||dadhanvé vā yádīmánu vócadbráhmāṇi véru tát ǀ
pári víśvāni kā́vyā nemíścakrámivābhavat ǁdadhanve vā yad īm anu vocad brahmāṇi ver u tat |
pari viśvāni kāvyā nemiś cakram ivābhavat ||द॒ध॒न्वे । वा॒ । यत् । ई॒म् । अनु॑ । वोच॑त् । ब्रह्मा॑णि । वेः । ऊं॒ इति॑ । तत् ।
परि॑ । विश्वा॑नि । काव्या॑ । ने॒मिः । च॒क्रम्ऽइ॑व । अ॒भ॒व॒त् ॥दधन्वे । वा । यत् । ईम् । अनु । वोचत् । ब्रह्माणि । वेः । ऊं इति । तत् ।
परि । विश्वानि । काव्या । नेमिः । चक्रम्ऽइव । अभवत् ॥dadhanvé ǀ vā ǀ yát ǀ īm ǀ ánu ǀ vócat ǀ bráhmāṇi ǀ véḥ ǀ ūṃ íti ǀ tát ǀ
pári ǀ víśvāni ǀ kā́vyā ǀ nemíḥ ǀ cakrám-iva ǀ abhavat ǁdadhanve ǀ vā ǀ yat ǀ īm ǀ anu ǀ vocat ǀ brahmāṇi ǀ veḥ ǀ ūṃ iti ǀ tat ǀ
pari ǀ viśvāni ǀ kāvyā ǀ nemiḥ ǀ cakram-iva ǀ abhavat ǁ2.5.3 Aṣṭaka 2.5.26.3Anuvāka 2.1.52
-
Ṛk 4
सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि ।
वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते ॥साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि |
विद्वां अस्य व्रता ध्रुवा वया इवानु रोहते ||sākám hí śúcinā śúciḥ praśāstā́ krátunā́jani ǀ
vidvā́m̐ asya vratā́ dhruvā́ vayā́ ivā́nu rohate ǁsākaṃ hi śucinā śuciḥ praśāstā kratunājani |
vidvāṃ asya vratā dhruvā vayā ivānu rohate ||सा॒कम् । हि । शुचि॑ना । शुचिः॑ । प्र॒ऽशा॒स्ता । क्रतु॑ना । अज॑नि ।
वि॒द्वान् । अ॒स्य॒ । व्र॒ता । ध्रु॒वा । व॒याःऽइ॑व । अनु॑ । रो॒ह॒ते॒ ॥साकम् । हि । शुचिना । शुचिः । प्रऽशास्ता । क्रतुना । अजनि ।
विद्वान् । अस्य । व्रता । ध्रुवा । वयाःऽइव । अनु । रोहते ॥sākám ǀ hí ǀ śúcinā ǀ śúciḥ ǀ pra-śāstā́ ǀ krátunā ǀ ájani ǀ
vidvā́n ǀ asya ǀ vratā́ ǀ dhruvā́ ǀ vayā́ḥ-iva ǀ ánu ǀ rohate ǁsākam ǀ hi ǀ śucinā ǀ śuciḥ ǀ pra-śāstā ǀ kratunā ǀ ajani ǀ
vidvān ǀ asya ǀ vratā ǀ dhruvā ǀ vayāḥ-iva ǀ anu ǀ rohate ǁ2.5.4 Aṣṭaka 2.5.26.4Anuvāka 2.1.53
-
Ṛk 5
ता अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टुः॑ सचंत धे॒नवः॑ ।
कु॒वित्ति॒सृभ्य॒ आ वरं॒ स्वसा॑रो॒ या इ॒दं य॒युः ॥ता अस्य वर्णम् आयुवो नेष्टुः सचन्त धेनवः |
कुवित् तिसृभ्य आ वरं स्वसारो या इदं ययुः ||tā́ asya várṇamāyúvo néṣṭuḥ sacanta dhenávaḥ ǀ
kuvíttisṛ́bhya ā́ váram svásāro yā́ idám yayúḥ ǁtā asya varṇam āyuvo neṣṭuḥ sacanta dhenavaḥ |
kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ ||ताः । अ॒स्य॒ । वर्ण॑म् । आ॒युवः॑ । नेष्टुः॑ । स॒च॒न्त॒ । धे॒नवः॑ ।
कु॒वित् । ति॒सृऽभ्यः॑ । आ । वर॑म् । स्वसा॑रः । याः । इ॒दम् । य॒युः ॥ताः । अस्य । वर्णम् । आयुवः । नेष्टुः । सचन्त । धेनवः ।
कुवित् । तिसृऽभ्यः । आ । वरम् । स्वसारः । याः । इदम् । ययुः ॥tā́ḥ ǀ asya ǀ várṇam ǀ āyúvaḥ ǀ néṣṭuḥ ǀ sacanta ǀ dhenávaḥ ǀ
kuvít ǀ tisṛ́-bhyaḥ ǀ ā́ ǀ váram ǀ svásāraḥ ǀ yā́ḥ ǀ idám ǀ yayúḥ ǁtāḥ ǀ asya ǀ varṇam ǀ āyuvaḥ ǀ neṣṭuḥ ǀ sacanta ǀ dhenavaḥ ǀ
kuvit ǀ tisṛ-bhyaḥ ǀ ā ǀ varam ǀ svasāraḥ ǀ yāḥ ǀ idam ǀ yayuḥ ǁ2.5.5 Aṣṭaka 2.5.26.5Anuvāka 2.1.54
-
Ṛk 6
यदी॑ मा॒तुरुप॒ स्वसा॑ घृ॒तं भरं॒त्यस्थि॑त ।
तासा॑मध्व॒र्युराग॑तौ॒ यवो॑ वृ॒ष्टीव॑ मोदते ॥यदी मातुर् उप स्वसा घृतम् भरन्त्य् अस्थित |
तासाम् अध्वर्युर् आगतौ यवो वृष्टीव मोदते ||yádī mātúrúpa svásā ghṛtám bhárantyásthita ǀ
tā́sāmadhvaryúrā́gatau yávo vṛṣṭī́va modate ǁyadī mātur upa svasā ghṛtam bharanty asthita |
tāsām adhvaryur āgatau yavo vṛṣṭīva modate ||यदि॑ । मा॒तुः । उप॑ । स्वसा॑ । घृ॒तम् । भर॑न्ती । अस्थि॑त ।
तासा॑म् । अ॒ध्व॒र्युः । आऽग॑तौ । यवः॑ । वृ॒ष्टीऽइ॑व । मो॒द॒ते॒ ॥यदि । मातुः । उप । स्वसा । घृतम् । भरन्ती । अस्थित ।
तासाम् । अध्वर्युः । आऽगतौ । यवः । वृष्टीऽइव । मोदते ॥yádi ǀ mātúḥ ǀ úpa ǀ svásā ǀ ghṛtám ǀ bhárantī ǀ ásthita ǀ
tā́sām ǀ adhvaryúḥ ǀ ā́-gatau ǀ yávaḥ ǀ vṛṣṭī́-iva ǀ modate ǁyadi ǀ mātuḥ ǀ upa ǀ svasā ǀ ghṛtam ǀ bharantī ǀ asthita ǀ
tāsām ǀ adhvaryuḥ ǀ ā-gatau ǀ yavaḥ ǀ vṛṣṭī-iva ǀ modate ǁ2.5.6 Aṣṭaka 2.5.26.6Anuvāka 2.1.55
-
Ṛk 7
स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विजं॑ ।
स्तोमं॑ य॒ज्ञं चादरं॑ व॒नेमा॑ ररि॒मा व॒यं ॥स्वः स्वाय धायसे कृणुताम् ऋत्विग् ऋत्विजम् |
स्तोमं यज्ञं चाद् अरं वनेमा ररिमा वयम् ||sváḥ svā́ya dhā́yase kṛṇutā́mṛtvígṛtvíjam ǀ
stómam yajñám cā́dáram vanémā rarimā́ vayám ǁsvaḥ svāya dhāyase kṛṇutām ṛtvig ṛtvijam |
stomaṃ yajñaṃ cād araṃ vanemā rarimā vayam ||स्वः । स्वाय॑ । धाय॑से । कृ॒णु॒ताम् । ऋ॒त्विक् । ऋ॒त्विज॑म् ।
स्तोम॑म् । य॒ज्ञम् । च॒ । आत् । अर॑म् । व॒नेम॑ । र॒रि॒म । व॒यम् ॥स्वः । स्वाय । धायसे । कृणुताम् । ऋत्विक् । ऋत्विजम् ।
स्तोमम् । यज्ञम् । च । आत् । अरम् । वनेम । ररिम । वयम् ॥sváḥ ǀ svā́ya ǀ dhā́yase ǀ kṛṇutā́m ǀ ṛtvík ǀ ṛtvíjam ǀ
stómam ǀ yajñám ǀ ca ǀ ā́t ǀ áram ǀ vanéma ǀ rarimá ǀ vayám ǁsvaḥ ǀ svāya ǀ dhāyase ǀ kṛṇutām ǀ ṛtvik ǀ ṛtvijam ǀ
stomam ǀ yajñam ǀ ca ǀ āt ǀ aram ǀ vanema ǀ rarima ǀ vayam ǁ2.5.7 Aṣṭaka 2.5.26.7Anuvāka 2.1.56
-
Ṛk 8
यथा॑ वि॒द्वाँ अरं॒ कर॒द्विश्वे॑भ्यो यज॒तेभ्यः॑ ।
अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यं ॥यथा विद्वां अरं करद् विश्वेभ्यो यजतेभ्यः |
अयम् अग्ने त्वे अपि यं यज्ञं चकृमा वयम् ||yáthā vidvā́m̐ áram káradvíśvebhyo yajatébhyaḥ ǀ
ayámagne tvé ápi yám yajñám cakṛmā́ vayám ǁyathā vidvāṃ araṃ karad viśvebhyo yajatebhyaḥ |
ayam agne tve api yaṃ yajñaṃ cakṛmā vayam ||यथा॑ । वि॒द्वान् । अर॑म् । कर॑त् । विश्वे॑भ्यः । य॒ज॒तेभ्यः॑ ।
अ॒यम् । अ॒ग्ने॒ । त्वे इति॑ । अपि॑ । यम् । य॒ज्ञम् । च॒कृ॒म । व॒यम् ॥यथा । विद्वान् । अरम् । करत् । विश्वेभ्यः । यजतेभ्यः ।
अयम् । अग्ने । त्वे इति । अपि । यम् । यज्ञम् । चकृम । वयम् ॥yáthā ǀ vidvā́n ǀ áram ǀ kárat ǀ víśvebhyaḥ ǀ yajatébhyaḥ ǀ
ayám ǀ agne ǀ tvé íti ǀ ápi ǀ yám ǀ yajñám ǀ cakṛmá ǀ vayám ǁyathā ǀ vidvān ǀ aram ǀ karat ǀ viśvebhyaḥ ǀ yajatebhyaḥ ǀ
ayam ǀ agne ǀ tve iti ǀ api ǀ yam ǀ yajñam ǀ cakṛma ǀ vayam ǁ2.5.8 Aṣṭaka 2.5.26.8Anuvāka 2.1.57
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.