Sūkta 8
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdgāyatrī (3, 5); gāyatrī (1); nicṛtpipīlikāmadhyāgāyatrī (2); virāḍgāyatrī (4); nicṛdanuṣṭup (6)
2nd set of styles gāyatrī (1-5); anuṣṭubh (6)
-
Ṛk 1
वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ॑ अ॒ग्नेरुप॑ स्तुहि ।
य॒शस्त॑मस्य मी॒ळ्हुषः॑ ॥वाजयन्न् इव नू रथान् योगां अग्नेर् उप स्तुहि |
यशस्तमस्य मीऌहुषः ||vājayánniva nū́ ráthānyógām̐ agnérúpa stuhi ǀ
yaśástamasya mīḷhúṣaḥ ǁvājayann iva nū rathān yogāṃ agner upa stuhi |
yaśastamasya mīḷhuṣaḥ ||वा॒ज॒यन्ऽइ॑व । नु । रथा॑न् । योगा॑न् । अ॒ग्नेः । उप॑ । स्तु॒हि॒ ।
य॒शःऽत॑मस्य । मी॒ळ्हुषः॑ ॥वाजयन्ऽइव । नु । रथान् । योगान् । अग्नेः । उप । स्तुहि ।
यशःऽतमस्य । मीळ्हुषः ॥vājayán-iva ǀ nú ǀ ráthān ǀ yógān ǀ agnéḥ ǀ úpa ǀ stuhi ǀ
yaśáḥ-tamasya ǀ mīḷhúṣaḥ ǁvājayan-iva ǀ nu ǀ rathān ǀ yogān ǀ agneḥ ǀ upa ǀ stuhi ǀ
yaśaḥ-tamasya ǀ mīḷhuṣaḥ ǁ2.8.1 Aṣṭaka 2.5.29.1Anuvāka 2.1.72
-
Ṛk 2
यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिं ।
चारु॑प्रतीक॒ आहु॑तः ॥यः सुनीथो ददाशुषे ऽजुर्यो जरयन्न् अरिम् |
चारुप्रतीक आहुतः ||yáḥ sunīthó dadāśúṣe’juryó jaráyannarím ǀ
cā́rupratīka ā́hutaḥ ǁyaḥ sunītho dadāśuṣe 'juryo jarayann arim |
cārupratīka āhutaḥ ||यः । सु॒ऽनी॒थः । द॒दा॒शुषे॑ । अ॒जु॒र्यः । ज॒रय॑न् । अ॒रिम् ।
चारु॑ऽप्रतीकः । आऽहु॑तः ॥यः । सुऽनीथः । ददाशुषे । अजुर्यः । जरयन् । अरिम् ।
चारुऽप्रतीकः । आऽहुतः ॥yáḥ ǀ su-nītháḥ ǀ dadāśúṣe ǀ ajuryáḥ ǀ jaráyan ǀ arím ǀ
cā́ru-pratīkaḥ ǀ ā́-hutaḥ ǁyaḥ ǀ su-nīthaḥ ǀ dadāśuṣe ǀ ajuryaḥ ǀ jarayan ǀ arim ǀ
cāru-pratīkaḥ ǀ ā-hutaḥ ǁ2.8.2 Aṣṭaka 2.5.29.2Anuvāka 2.1.73
-
Ṛk 3
य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ ।
यस्य॑ व्र॒तं न मीय॑ते ॥य उ श्रिया दमेष्व् आ दोषोषसि प्रशस्यते |
यस्य व्रतं न मीयते ||yá u śriyā́ dámeṣvā́ doṣóṣási praśasyáte ǀ
yásya vratám ná mī́yate ǁya u śriyā dameṣv ā doṣoṣasi praśasyate |
yasya vrataṃ na mīyate ||यः । ऊं॒ इति॑ । श्रि॒या । दमे॑षु । आ । दो॒षा । उ॒षसि॑ । प्र॒ऽश॒स्यते॑ ।
यस्य॑ । व्र॒तम् । न । मीय॑ते ॥यः । ऊं इति । श्रिया । दमेषु । आ । दोषा । उषसि । प्रऽशस्यते ।
यस्य । व्रतम् । न । मीयते ॥yáḥ ǀ ūṃ íti ǀ śriyā́ ǀ dámeṣu ǀ ā́ ǀ doṣā́ ǀ uṣási ǀ pra-śasyáte ǀ
yásya ǀ vratám ǀ ná ǀ mī́yate ǁyaḥ ǀ ūṃ iti ǀ śriyā ǀ dameṣu ǀ ā ǀ doṣā ǀ uṣasi ǀ pra-śasyate ǀ
yasya ǀ vratam ǀ na ǀ mīyate ǁ2.8.3 Aṣṭaka 2.5.29.3Anuvāka 2.1.74
-
Ṛk 4
आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ ।
अं॒जा॒नो अ॒जरै॑र॒भि ॥आ यः स्वर् ण भानुना चित्रो विभात्य् अर्चिषा |
अञ्जानो अजरैर् अभि ||ā́ yáḥ svárṇá bhānúnā citró vibhā́tyarcíṣā ǀ
añjānó ajárairabhí ǁā yaḥ svar ṇa bhānunā citro vibhāty arciṣā |
añjāno ajarair abhi ||आ । यः । स्वः॑ । न । भा॒नुना॑ । चि॒त्रः । वि॒ऽभाति॑ । अ॒र्चिषा॑ ।
अ॒ञ्जा॒नः । अ॒जरैः॑ । अ॒भि ॥आ । यः । स्वः । न । भानुना । चित्रः । विऽभाति । अर्चिषा ।
अञ्जानः । अजरैः । अभि ॥ā́ ǀ yáḥ ǀ sváḥ ǀ ná ǀ bhānúnā ǀ citráḥ ǀ vi-bhā́ti ǀ arcíṣā ǀ
añjānáḥ ǀ ajáraiḥ ǀ abhí ǁā ǀ yaḥ ǀ svaḥ ǀ na ǀ bhānunā ǀ citraḥ ǀ vi-bhāti ǀ arciṣā ǀ
añjānaḥ ǀ ajaraiḥ ǀ abhi ǁ2.8.4 Aṣṭaka 2.5.29.4Anuvāka 2.1.75
-
Ṛk 5
अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः ।
विश्वा॒ अधि॒ श्रियो॑ दधे ॥अत्रिम् अनु स्वराज्यम् अग्निम् उक्थानि वावृधुः |
विश्वा अधि श्रियो दधे ||átrimánu svarā́jyamagnímukthā́ni vāvṛdhuḥ ǀ
víśvā ádhi śríyo dadhe ǁatrim anu svarājyam agnim ukthāni vāvṛdhuḥ |
viśvā adhi śriyo dadhe ||अत्रि॑म् । अनु॑ । स्व॒ऽराज्य॑म् । अ॒ग्निम् । उ॒क्थानि॑ । व॒वृ॒धुः॒ ।
विश्वाः॑ । अधि॑ । श्रियः॑ । द॒धे॒ ॥अत्रिम् । अनु । स्वऽराज्यम् । अग्निम् । उक्थानि । ववृधुः ।
विश्वाः । अधि । श्रियः । दधे ॥átrim ǀ ánu ǀ sva-rā́jyam ǀ agním ǀ ukthā́ni ǀ vavṛdhuḥ ǀ
víśvāḥ ǀ ádhi ǀ śríyaḥ ǀ dadhe ǁatrim ǀ anu ǀ sva-rājyam ǀ agnim ǀ ukthāni ǀ vavṛdhuḥ ǀ
viśvāḥ ǀ adhi ǀ śriyaḥ ǀ dadhe ǁ2.8.5 Aṣṭaka 2.5.29.5Anuvāka 2.1.76
-
Ṛk 6
अ॒ग्नेरिंद्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यं ।
अरि॑ष्यंतः सचेमह्य॒भि ष्या॑म पृतन्य॒तः ॥अग्नेर् इन्द्रस्य सोमस्य देवानाम् ऊतिभिर् वयम् |
अरिष्यन्तः सचेमह्य् अभि ष्याम पृतन्यतः ||agnéríndrasya sómasya devā́nāmūtíbhirvayám ǀ
áriṣyantaḥ sacemahyabhí ṣyāma pṛtanyatáḥ ǁagner indrasya somasya devānām ūtibhir vayam |
ariṣyantaḥ sacemahy abhi ṣyāma pṛtanyataḥ ||अ॒ग्नेः । इन्द्र॑स्य । सोम॑स्य । दे॒वाना॑म् । ऊ॒तिऽभिः॑ । व॒यम् ।
अरि॑ष्यन्तः । स॒चे॒म॒हि॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ॥अग्नेः । इन्द्रस्य । सोमस्य । देवानाम् । ऊतिऽभिः । वयम् ।
अरिष्यन्तः । सचेमहि । अभि । स्याम । पृतन्यतः ॥agnéḥ ǀ índrasya ǀ sómasya ǀ devā́nām ǀ ūtí-bhiḥ ǀ vayám ǀ
áriṣyantaḥ ǀ sacemahi ǀ abhí ǀ syāma ǀ pṛtanyatáḥ ǁagneḥ ǀ indrasya ǀ somasya ǀ devānām ǀ ūti-bhiḥ ǀ vayam ǀ
ariṣyantaḥ ǀ sacemahi ǀ abhi ǀ syāma ǀ pṛtanyataḥ ǁ2.8.6 Aṣṭaka 2.5.29.6Anuvāka 2.1.77
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.