Ṛgveda · Maṇḍala 2

Sūkta 4

Agni · Somahūti Bhārgava · 9 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Somahūti Bhārgava
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles ārṣīpaṅkti (2, 3, 5-7); svarāṭpaṅkti (1, 8); brāhmyuṣnik (4); nicṛttriṣṭup (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    हु॒वे वः॑ सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यसं॑ ।
    मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः ॥

    हुवे वः सुद्योत्मानं सुवृक्तिं विशाम् अग्निम् अतिथिं सुप्रयसम् |
    मित्र इव यो दिधिषाय्यो भूद् देव आदेवे जने जातवेदाः ||

    huvé vaḥ sudyótmānam suvṛktím viśā́magnímátithim suprayásam ǀ
    mitrá iva yó didhiṣā́yyo bhū́ddevá ā́deve jáne jātávedāḥ ǁ

    huve vaḥ sudyotmānaṃ suvṛktiṃ viśām agnim atithiṃ suprayasam |
    mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ ||

    हु॒वे । वः॒ । सु॒ऽद्योत्मा॑नम् । सु॒ऽवृ॒क्तिम् । वि॒शाम् । अ॒ग्निम् । अति॑थिम् । सु॒ऽप्र॒यस॑म् ।
    मि॒त्रःऽइ॑व । यः । दि॒धि॒षाय्यः॑ । भूत् । दे॒वः । आऽदे॑वे । जने॑ । जा॒तऽवे॑दाः ॥

    हुवे । वः । सुऽद्योत्मानम् । सुऽवृक्तिम् । विशाम् । अग्निम् । अतिथिम् । सुऽप्रयसम् ।
    मित्रःऽइव । यः । दिधिषाय्यः । भूत् । देवः । आऽदेवे । जने । जातऽवेदाः ॥

    huvé ǀ vaḥ ǀ su-dyótmānam ǀ su-vṛktím ǀ viśā́m ǀ agním ǀ átithim ǀ su-prayásam ǀ
    mitráḥ-iva ǀ yáḥ ǀ didhiṣā́yyaḥ ǀ bhū́t ǀ deváḥ ǀ ā́-deve ǀ jáne ǀ jātá-vedāḥ ǁ

    huve ǀ vaḥ ǀ su-dyotmānam ǀ su-vṛktim ǀ viśām ǀ agnim ǀ atithim ǀ su-prayasam ǀ
    mitraḥ-iva ǀ yaḥ ǀ didhiṣāyyaḥ ǀ bhūt ǀ devaḥ ǀ ā-deve ǀ jane ǀ jāta-vedāḥ ǁ

    2.4.1 Aṣṭaka 2.5.24.1Anuvāka 2.1.41

  2. Ṛk 2

    इ॒मं वि॒धंतो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॒॑योः ।
    ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ॥

    इमं विधन्तो अपां सधस्थे द्वितादधुर् भृगवो विक्ष्व् आयोः |
    एष विश्वान्य् अभ्य् अस्तु भूमा देवानाम् अग्निर् अरतिर् जीराश्वः ||

    imám vidhánto apā́m sadhásthe dvitā́dadhurbhṛ́gavo vikṣvā́yóḥ ǀ
    eṣá víśvānyabhyástu bhū́mā devā́nāmagníraratírjīrā́śvaḥ ǁ

    imaṃ vidhanto apāṃ sadhasthe dvitādadhur bhṛgavo vikṣv āyoḥ |
    eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ ||

    इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । द्वि॒ता । अ॒द॒धुः॒ । भृग॑वः । वि॒क्षु । आ॒योः ।
    ए॒षः । विश्वा॑नि । अ॒भि । अ॒स्तु॒ । भूम॑ । दे॒वाना॑म् । अ॒ग्निः । अ॒र॒तिः । जी॒रऽअ॑श्वः ॥

    इमम् । विधन्तः । अपाम् । सधऽस्थे । द्विता । अदधुः । भृगवः । विक्षु । आयोः ।
    एषः । विश्वानि । अभि । अस्तु । भूम । देवानाम् । अग्निः । अरतिः । जीरऽअश्वः ॥

    imám ǀ vidhántaḥ ǀ apā́m ǀ sadhá-sthe ǀ dvitā́ ǀ adadhuḥ ǀ bhṛ́gavaḥ ǀ vikṣú ǀ āyóḥ ǀ
    eṣáḥ ǀ víśvāni ǀ abhí ǀ astu ǀ bhū́ma ǀ devā́nām ǀ agníḥ ǀ aratíḥ ǀ jīrá-aśvaḥ ǁ

    imam ǀ vidhantaḥ ǀ apām ǀ sadha-sthe ǀ dvitā ǀ adadhuḥ ǀ bhṛgavaḥ ǀ vikṣu ǀ āyoḥ ǀ
    eṣaḥ ǀ viśvāni ǀ abhi ǀ astu ǀ bhūma ǀ devānām ǀ agniḥ ǀ aratiḥ ǀ jīra-aśvaḥ ǁ

    2.4.2 Aṣṭaka 2.5.24.2Anuvāka 2.1.42

  3. Ṛk 3

    अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑ क्षे॒ष्यंतो॒ न मि॒त्रं ।
    स दी॑दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ॥

    अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् |
    स दीदयद् उशतीर् ऊर्म्या आ दक्षाय्यो यो दास्वते दम आ ||

    agním devā́so mā́nuṣīṣu vikṣú priyám dhuḥ kṣeṣyánto ná mitrám ǀ
    sá dīdayaduśatī́rū́rmyā ā́ dakṣā́yyo yó dā́svate dáma ā́ ǁ

    agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto na mitram |
    sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā ||

    अ॒ग्निम् । दे॒वासः॑ । मानु॑षीषु । वि॒क्षु । प्रि॒यम् । धुः॒ । क्षे॒ष्यन्तः॑ । न । मि॒त्रम् ।
    सः । दी॒द॒य॒त् । उ॒श॒तीः । ऊर्म्याः॑ । आ । द॒क्षाय्यः॑ । यः । दास्व॑ते । दमे॑ । आ ॥

    अग्निम् । देवासः । मानुषीषु । विक्षु । प्रियम् । धुः । क्षेष्यन्तः । न । मित्रम् ।
    सः । दीदयत् । उशतीः । ऊर्म्याः । आ । दक्षाय्यः । यः । दास्वते । दमे । आ ॥

    agním ǀ devā́saḥ ǀ mā́nuṣīṣu ǀ vikṣú ǀ priyám ǀ dhuḥ ǀ kṣeṣyántaḥ ǀ ná ǀ mitrám ǀ
    sáḥ ǀ dīdayat ǀ uśatī́ḥ ǀ ū́rmyāḥ ǀ ā́ ǀ dakṣā́yyaḥ ǀ yáḥ ǀ dā́svate ǀ dáme ǀ ā́ ǁ

    agnim ǀ devāsaḥ ǀ mānuṣīṣu ǀ vikṣu ǀ priyam ǀ dhuḥ ǀ kṣeṣyantaḥ ǀ na ǀ mitram ǀ
    saḥ ǀ dīdayat ǀ uśatīḥ ǀ ūrmyāḥ ǀ ā ǀ dakṣāyyaḥ ǀ yaḥ ǀ dāsvate ǀ dame ǀ ā ǁ

    2.4.3 Aṣṭaka 2.5.24.3Anuvāka 2.1.43

  4. Ṛk 4

    अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः॑ ।
    वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न् ॥

    अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिर् अस्य हियानस्य दक्षोः |
    वि यो भरिभ्रद् ओषधीषु जिह्वाम् अत्यो न रथ्यो दोधवीति वारान् ||

    asyá raṇvā́ svásyeva puṣṭíḥ sáṃdṛṣṭirasya hiyānásya dákṣoḥ ǀ
    ví yó bháribhradóṣadhīṣu jihvā́mátyo ná ráthyo dodhavīti vā́rān ǁ

    asya raṇvā svasyeva puṣṭiḥ saṃdṛṣṭir asya hiyānasya dakṣoḥ |
    vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān ||

    अ॒स्य । र॒ण्वा । स्वस्य॑ऽइव । पु॒ष्टिः । सम्ऽदृ॑ष्टिः । अ॒स्य॒ । हि॒या॒नस्य॑ । धक्षोः॑ ।
    वि । यः । भरि॑भ्रत् । ओष॑धीषु । जि॒ह्वाम् । अत्यः॑ । न । रथ्यः॑ । दो॒ध॒वी॒ति॒ । वारा॑न् ॥

    अस्य । रण्वा । स्वस्यऽइव । पुष्टिः । सम्ऽदृष्टिः । अस्य । हियानस्य । धक्षोः ।
    वि । यः । भरिभ्रत् । ओषधीषु । जिह्वाम् । अत्यः । न । रथ्यः । दोधवीति । वारान् ॥

    asyá ǀ raṇvā́ ǀ svásya-iva ǀ puṣṭíḥ ǀ sám-dṛṣṭiḥ ǀ asya ǀ hiyānásya ǀ dhákṣoḥ ǀ
    ví ǀ yáḥ ǀ bháribhrat ǀ óṣadhīṣu ǀ jihvā́m ǀ átyaḥ ǀ ná ǀ ráthyaḥ ǀ dodhavīti ǀ vā́rān ǁ

    asya ǀ raṇvā ǀ svasya-iva ǀ puṣṭiḥ ǀ sam-dṛṣṭiḥ ǀ asya ǀ hiyānasya ǀ dhakṣoḥ ǀ
    vi ǀ yaḥ ǀ bharibhrat ǀ oṣadhīṣu ǀ jihvām ǀ atyaḥ ǀ na ǀ rathyaḥ ǀ dodhavīti ǀ vārān ǁ

    2.4.4 Aṣṭaka 2.5.24.4Anuvāka 2.1.44

  5. Ṛk 5

    आ यन्मे॒ अभ्वं॑ व॒नदः॒ पनं॑तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्णं॑ ।
    स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥

    आ यन् मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् |
    स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुर् आ युवा भूत् ||

    ā́ yánme ábhvam vanádaḥ pánantośígbhyo nā́mimīta várṇam ǀ
    sá citréṇa cikite ráṃsu bhāsā́ jujurvā́m̐ yó múhurā́ yúvā bhū́t ǁ

    ā yan me abhvaṃ vanadaḥ panantośigbhyo nāmimīta varṇam |
    sa citreṇa cikite raṃsu bhāsā jujurvāṃ yo muhur ā yuvā bhūt ||

    आ । यत् । मे॒ । अभ्व॑म् । व॒नदः॑ । पन॑न्त । उ॒शिक्ऽभ्यः॑ । न । अ॒मि॒मी॒त॒ । वर्ण॑म् ।
    सः । चि॒त्रेण॑ । चि॒कि॒ते॒ । रम्ऽसु॑ । भा॒सा । जु॒जु॒र्वान् । यः । मुहुः॑ । आ । युवा॑ । भूत् ॥

    आ । यत् । मे । अभ्वम् । वनदः । पनन्त । उशिक्ऽभ्यः । न । अमिमीत । वर्णम् ।
    सः । चित्रेण । चिकिते । रम्ऽसु । भासा । जुजुर्वान् । यः । मुहुः । आ । युवा । भूत् ॥

    ā́ ǀ yát ǀ me ǀ ábhvam ǀ vanádaḥ ǀ pánanta ǀ uśík-bhyaḥ ǀ ná ǀ amimīta ǀ várṇam ǀ
    sáḥ ǀ citréṇa ǀ cikite ǀ rám-su ǀ bhāsā́ ǀ jujurvā́n ǀ yáḥ ǀ múhuḥ ǀ ā́ ǀ yúvā ǀ bhū́t ǁ

    ā ǀ yat ǀ me ǀ abhvam ǀ vanadaḥ ǀ pananta ǀ uśik-bhyaḥ ǀ na ǀ amimīta ǀ varṇam ǀ
    saḥ ǀ citreṇa ǀ cikite ǀ ram-su ǀ bhāsā ǀ jujurvān ǀ yaḥ ǀ muhuḥ ǀ ā ǀ yuvā ǀ bhūt ǁ

    2.4.5 Aṣṭaka 2.5.24.5Anuvāka 2.1.45

  6. Ṛk 6

    आ यो वना॑ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये॑व स्वानीत् ।
    कृ॒ष्णाध्वा॒ तपू॑ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो॑भिः ॥

    आ यो वना तातृषाणो न भाति वार् ण पथा रथ्येव स्वानीत् |
    कृष्णाध्वा तपू रण्वश् चिकेत द्यौर् इव स्मयमानो नभोभिः ||

    ā́ yó vánā tātṛṣāṇó ná bhā́ti vā́rṇá pathā́ ráthyeva svānīt ǀ
    kṛṣṇā́dhvā tápū raṇváściketa dyáuriva smáyamāno nábhobhiḥ ǁ

    ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt |
    kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ ||

    आ । यः । वना॑ । त॒तृ॒षा॒णः । न । भाति॑ । वाः । न । प॒था । रथ्या॑ऽइव । स्वा॒नी॒त् ।
    कृ॒ष्णऽअ॑ध्वा । तपुः॑ । र॒ण्वः । चि॒के॒त॒ । द्यौःऽइ॑व । स्मय॑मानः । नभः॑ऽभिः ॥

    आ । यः । वना । ततृषाणः । न । भाति । वाः । न । पथा । रथ्याऽइव । स्वानीत् ।
    कृष्णऽअध्वा । तपुः । रण्वः । चिकेत । द्यौःऽइव । स्मयमानः । नभःऽभिः ॥

    ā́ ǀ yáḥ ǀ vánā ǀ tatṛṣāṇáḥ ǀ ná ǀ bhā́ti ǀ vā́ḥ ǀ ná ǀ pathā́ ǀ ráthyā-iva ǀ svānīt ǀ
    kṛṣṇá-adhvā ǀ tápuḥ ǀ raṇváḥ ǀ ciketa ǀ dyáuḥ-iva ǀ smáyamānaḥ ǀ nábhaḥ-bhiḥ ǁ

    ā ǀ yaḥ ǀ vanā ǀ tatṛṣāṇaḥ ǀ na ǀ bhāti ǀ vāḥ ǀ na ǀ pathā ǀ rathyā-iva ǀ svānīt ǀ
    kṛṣṇa-adhvā ǀ tapuḥ ǀ raṇvaḥ ǀ ciketa ǀ dyauḥ-iva ǀ smayamānaḥ ǀ nabhaḥ-bhiḥ ǁ

    2.4.6 Aṣṭaka 2.5.25.1Anuvāka 2.1.46

  7. Ṛk 7

    स यो व्यस्था॑द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो॑पाः ।
    अ॒ग्निः शो॒चिष्माँ॑ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ॥

    स यो व्य् अस्थाद् अभि दक्षद् उर्वीम् पशुर् नैति स्वयुर् अगोपाः |
    अग्निः शोचिष्मां अतसान्य् उष्णन् कृष्णव्यथिर् अस्वदयन् न भूम ||

    sá yó vyásthādabhí dákṣadurvī́m paśúrnáiti svayúrágopāḥ ǀ
    agníḥ śocíṣmām̐ atasā́nyuṣṇánkṛṣṇávyathirasvadayanná bhūma ǁ

    sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ |
    agniḥ śociṣmāṃ atasāny uṣṇan kṛṣṇavyathir asvadayan na bhūma ||

    सः । यः । वि । अस्था॑त् । अ॒भि । धक्ष॑त् । उ॒र्वीम् । प॒शुः । न । ए॒ति॒ । स्व॒ऽयुः । अगो॑पाः ।
    अ॒ग्निः । शो॒चिष्मा॑न् । अ॒त॒सानि॑ । उ॒ष्णन् । कृ॒ष्णऽव्य॑थिः । अ॒स्व॒द॒य॒त् । न । भूम॑ ॥

    सः । यः । वि । अस्थात् । अभि । धक्षत् । उर्वीम् । पशुः । न । एति । स्वऽयुः । अगोपाः ।
    अग्निः । शोचिष्मान् । अतसानि । उष्णन् । कृष्णऽव्यथिः । अस्वदयत् । न । भूम ॥

    sáḥ ǀ yáḥ ǀ ví ǀ ásthāt ǀ abhí ǀ dhákṣat ǀ urvī́m ǀ paśúḥ ǀ ná ǀ eti ǀ sva-yúḥ ǀ ágopāḥ ǀ
    agníḥ ǀ śocíṣmān ǀ atasā́ni ǀ uṣṇán ǀ kṛṣṇá-vyathiḥ ǀ asvadayat ǀ ná ǀ bhū́ma ǁ

    saḥ ǀ yaḥ ǀ vi ǀ asthāt ǀ abhi ǀ dhakṣat ǀ urvīm ǀ paśuḥ ǀ na ǀ eti ǀ sva-yuḥ ǀ agopāḥ ǀ
    agniḥ ǀ śociṣmān ǀ atasāni ǀ uṣṇan ǀ kṛṣṇa-vyathiḥ ǀ asvadayat ǀ na ǀ bhūma ǁ

    2.4.7 Aṣṭaka 2.5.25.2Anuvāka 2.1.47

  8. Ṛk 8

    नू ते॒ पूर्व॒स्याव॑सो॒ अधी॑तौ तृ॒तीये॑ वि॒दथे॒ मन्म॑ शंसि ।
    अ॒स्मे अ॑ग्ने सं॒यद्वी॑रं बृ॒हंतं॑ क्षु॒मंतं॒ वाजं॑ स्वप॒त्यं र॒यिं दाः॑ ॥

    नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि |
    अस्मे अग्ने संयद्वीरम् बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ||

    nū́ te pū́rvasyā́vaso ádhītau tṛtī́ye vidáthe mánma śaṃsi ǀ
    asmé agne saṃyádvīram bṛhántam kṣumántam vā́jam svapatyám rayím dāḥ ǁ

    nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi |
    asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ ||

    नु । ते॒ । पूर्व॑स्य । अव॑सः । अधि॑ऽइतौ । तृ॒तीये॑ । वि॒दथे॑ । मन्म॑ । शं॒सि॒ ।
    अ॒स्मे इति॑ । अ॒ग्ने॒ । सं॒यत्ऽवी॑रम् । बृ॒हन्त॑म् । क्षु॒ऽमन्त॑म् । वाज॑म् । सु॒ऽअ॒प॒त्यम् । र॒यिम् । दाः॒ ॥

    नु । ते । पूर्वस्य । अवसः । अधिऽइतौ । तृतीये । विदथे । मन्म । शंसि ।
    अस्मे इति । अग्ने । संयत्ऽवीरम् । बृहन्तम् । क्षुऽमन्तम् । वाजम् । सुऽअपत्यम् । रयिम् । दाः ॥

    nú ǀ te ǀ pū́rvasya ǀ ávasaḥ ǀ ádhi-itau ǀ tṛtī́ye ǀ vidáthe ǀ mánma ǀ śaṃsi ǀ
    asmé íti ǀ agne ǀ saṃyát-vīram ǀ bṛhántam ǀ kṣu-mántam ǀ vā́jam ǀ su-apatyám ǀ rayím ǀ dāḥ ǁ

    nu ǀ te ǀ pūrvasya ǀ avasaḥ ǀ adhi-itau ǀ tṛtīye ǀ vidathe ǀ manma ǀ śaṃsi ǀ
    asme iti ǀ agne ǀ saṃyat-vīram ǀ bṛhantam ǀ kṣu-mantam ǀ vājam ǀ su-apatyam ǀ rayim ǀ dāḥ ǁ

    2.4.8 Aṣṭaka 2.5.25.3Anuvāka 2.1.48

  9. Ṛk 9

    त्वया॒ यथा॑ गृत्सम॒दासो॑ अग्ने॒ गुहा॑ व॒न्वंत॒ उप॑राँ अ॒भि ष्युः ।
    सु॒वीरा॑सो अभिमाति॒षाहः॒ स्मत्सू॒रिभ्यो॑ गृण॒ते तद्वयो॑ धाः ॥

    त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरां अभि ष्युः |
    सुवीरासो अभिमातिषाहः स्मत् सूरिभ्यो गृणते तद् वयो धाः ||

    tváyā yáthā gṛtsamadā́so agne gúhā vanvánta úparām̐ abhí ṣyúḥ ǀ
    suvī́rāso abhimātiṣā́haḥ smátsūríbhyo gṛṇaté tádváyo dhāḥ ǁ

    tvayā yathā gṛtsamadāso agne guhā vanvanta uparāṃ abhi ṣyuḥ |
    suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ ||

    त्वया॑ । यथा॑ । गृ॒त्स॒ऽम॒दासः॑ । अ॒ग्ने॒ । गुहा॑ । व॒न्वन्तः॑ । उप॑रान् । अ॒भि । स्युरिति॒ स्युः ।
    सु॒ऽवीरा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । स्मत् । सू॒रिऽभ्यः॑ । गृ॒ण॒ते । तत् । वयः॑ । धाः॒ ॥

    त्वया । यथा । गृत्सऽमदासः । अग्ने । गुहा । वन्वन्तः । उपरान् । अभि । स्युरिति स्युः ।
    सुऽवीरासः । अभिमातिऽसहः । स्मत् । सूरिऽभ्यः । गृणते । तत् । वयः । धाः ॥

    tváyā ǀ yáthā ǀ gṛtsa-madā́saḥ ǀ agne ǀ gúhā ǀ vanvántaḥ ǀ úparān ǀ abhí ǀ syúríti syúḥ ǀ
    su-vī́rāsaḥ ǀ abhimāti-sáhaḥ ǀ smát ǀ sūrí-bhyaḥ ǀ gṛṇaté ǀ tát ǀ váyaḥ ǀ dhāḥ ǁ

    tvayā ǀ yathā ǀ gṛtsa-madāsaḥ ǀ agne ǀ guhā ǀ vanvantaḥ ǀ uparān ǀ abhi ǀ syuriti syuḥ ǀ
    su-vīrāsaḥ ǀ abhimāti-sahaḥ ǀ smat ǀ sūri-bhyaḥ ǀ gṛṇate ǀ tat ǀ vayaḥ ǀ dhāḥ ǁ

    2.4.9 Aṣṭaka 2.5.25.4Anuvāka 2.1.49

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.4 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

I call to you the Fire with his strong delights and his splendours of light, Fire who strips all sin from us, the guest of the peoples. He becomes like a supporting friend, he becomes the God who knows all things born in the man with whom are the Gods.12 (16 HTMF Page 41)

Ṛk 2

The Bhrigus worshipping in the session of the Waters set him a twofold Light in the peoples of Man. May he master all planes prevailing vastly, Fire the traveller of the Gods with his rapid horses. (16 HTMF Page 41)

Ṛk 3

As men who would settle in a home bring into it a beloved friend, the Gods have set the Fire in these human peoples. Let him illumine the desire of the billowing nights, let him be one full of discerning mind in the house for the giver of sacrifice. (16 HTMF Page 42)

Ṛk 4

Delightful is his growth as if one’s own increase, rapturous is his vision as he gallops burning on his way. He darts about his tongue mid the growths of the forest and tosses his mane like a chariot courser. (16 HTMF Page 42)

Ṛk 5

When my thoughts enjoying him chant his mightiness, he shapes hue of kind as if to our desire. He awakes to knowledge in men that have the ecstasy by the rich diversity of his light; old and outworn he grows young again and again. (16 HTMF Page 42)

Ṛk 6

Like one who thirsts he lifts his light on the forests; his roar is like the cry of waters on their path, he neighs like a chariot war-horse. Black is his trail, burning his heat; he is full of rapture and awakes to knowledge: he is like Father Heaven smiling with his starry spaces. (16 HTMF Page 42)

Ṛk 7

He starts on his journey to burn through all wide earth and moves like a beast that wanders at will and has no keeper; Fire with his blazing light and his black affliction assails the dry trunks with his heat as if he tasted the vastness. (16 HTMF Page 43)

Ṛk 8

Now in our mind’s return on thy former safeguarding, our thought has been spoken in the third session of the knowledge. O Fire, give us the treasure with its children; give us a vast and opulent plenitude where the heroes assemble. (16 HTMF Page 43)

Ṛk 9

To the luminous Wise Ones and to him who voices thee, O Fire, be the founder of their growth and expansion, that the Gritsamadas strong with the strength of the Heroes and overcoming the hostile forces may conquer the higher worlds by thy force and take delight of13 the secret inner spaces. (16 HTMF Page 43)