Ṛk 2.4.6
Saṃhitā
आ यो वना॑ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये॑व स्वानीत् ।
कृ॒ष्णाध्वा॒ तपू॑ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो॑भिः ॥
आ यो वना तातृषाणो न भाति वार् ण पथा रथ्येव स्वानीत् |
कृष्णाध्वा तपू रण्वश् चिकेत द्यौर् इव स्मयमानो नभोभिः ||
ā́ yó vánā tātṛṣāṇó ná bhā́ti vā́rṇá pathā́ ráthyeva svānīt ǀ
kṛṣṇā́dhvā tápū raṇváściketa dyáuriva smáyamāno nábhobhiḥ ǁ
ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt |
kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ ||
Padapāṭha
आ । यः । वना॑ । त॒तृ॒षा॒णः । न । भाति॑ । वाः । न । प॒था । रथ्या॑ऽइव । स्वा॒नी॒त् ।
कृ॒ष्णऽअ॑ध्वा । तपुः॑ । र॒ण्वः । चि॒के॒त॒ । द्यौःऽइ॑व । स्मय॑मानः । नभः॑ऽभिः ॥
आ । यः । वना । ततृषाणः । न । भाति । वाः । न । पथा । रथ्याऽइव । स्वानीत् ।
कृष्णऽअध्वा । तपुः । रण्वः । चिकेत । द्यौःऽइव । स्मयमानः । नभःऽभिः ॥
ā́ ǀ yáḥ ǀ vánā ǀ tatṛṣāṇáḥ ǀ ná ǀ bhā́ti ǀ vā́ḥ ǀ ná ǀ pathā́ ǀ ráthyā-iva ǀ svānīt ǀ
kṛṣṇá-adhvā ǀ tápuḥ ǀ raṇváḥ ǀ ciketa ǀ dyáuḥ-iva ǀ smáyamānaḥ ǀ nábhaḥ-bhiḥ ǁ
ā ǀ yaḥ ǀ vanā ǀ tatṛṣāṇaḥ ǀ na ǀ bhāti ǀ vāḥ ǀ na ǀ pathā ǀ rathyā-iva ǀ svānīt ǀ
kṛṣṇa-adhvā ǀ tapuḥ ǀ raṇvaḥ ǀ ciketa ǀ dyauḥ-iva ǀ smayamānaḥ ǀ nabhaḥ-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.004.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.25.01
- Maṇḍala · Anuvāka · Ṛk
- 02.01.046
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Somahūti Bhārgava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.