Sūkta 9
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 3); nicṛttriṣṭup (5, 6); paṅktiḥ (2); virāṭtrisṭup (4)
2nd set of styles triṣṭubh
-
Ṛk 1
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ ।
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रंभ॒रः शुचि॑जिह्वो अ॒ग्निः ॥नि होता होतृषदने विदानस् त्वेषो दीदिवां असदत् सुदक्षः |
अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ||ní hótā hotṛṣádane vídānastveṣó dīdivā́m̐ asadatsudákṣaḥ ǀ
ádabdhavratapramatirvásiṣṭhaḥ sahasrambharáḥ śúcijihvo agníḥ ǁni hotā hotṛṣadane vidānas tveṣo dīdivāṃ asadat sudakṣaḥ |
adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ ||नि । होता॑ । हो॒तृ॒ऽसद॑ने । विदा॑नः । त्वे॒षः । दी॒दि॒ऽवान् । अ॒स॒द॒त् । सु॒ऽदक्षः॑ ।
अद॑ब्धव्रतऽप्रमतिः । वसि॑ष्ठः । स॒ह॒स्र॒म्ऽभ॒रः । शुचि॑ऽजिह्वः । अ॒ग्निः ॥नि । होता । होतृऽसदने । विदानः । त्वेषः । दीदिऽवान् । असदत् । सुऽदक्षः ।
अदब्धव्रतऽप्रमतिः । वसिष्ठः । सहस्रम्ऽभरः । शुचिऽजिह्वः । अग्निः ॥ní ǀ hótā ǀ hotṛ-sádane ǀ vídānaḥ ǀ tveṣáḥ ǀ dīdi-vā́n ǀ asadat ǀ su-dákṣaḥ ǀ
ádabdhavrata-pramatiḥ ǀ vásiṣṭhaḥ ǀ sahasram-bharáḥ ǀ śúci-jihvaḥ ǀ agníḥ ǁni ǀ hotā ǀ hotṛ-sadane ǀ vidānaḥ ǀ tveṣaḥ ǀ dīdi-vān ǀ asadat ǀ su-dakṣaḥ ǀ
adabdhavrata-pramatiḥ ǀ vasiṣṭhaḥ ǀ sahasram-bharaḥ ǀ śuci-jihvaḥ ǀ agniḥ ǁ2.9.1 Aṣṭaka 2.6.1.1Anuvāka 2.1.78
-
Ṛk 2
त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता ।
अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छं॒दीद्य॑द्बोधि गो॒पाः ॥त्वं दूतस् त्वम् उ नः परस्पास् त्वं वस्य आ वृषभ प्रणेता |
अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः ||tvám dūtástvámu naḥ paraspā́stvám vásya ā́ vṛṣabha praṇetā́ ǀ
ágne tokásya nastáne tanū́nāmáprayucchandī́dyadbodhi gopā́ḥ ǁtvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā |
agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ ||त्वम् । दू॒तः । त्वम् । ऊं॒ इति॑ । नः॒ । प॒रः॒ऽपाः । त्वम् । वस्यः॑ । आ । वृ॒ष॒भ॒ । प्र॒ऽने॒ता ।
अग्ने॑ । तो॒कस्य॑ । नः॒ । तने॑ । त॒नूना॑म् । अप्र॑ऽयुच्छन् । दीद्य॑त् । बो॒धि॒ । गो॒पाः ॥त्वम् । दूतः । त्वम् । ऊं इति । नः । परःऽपाः । त्वम् । वस्यः । आ । वृषभ । प्रऽनेता ।
अग्ने । तोकस्य । नः । तने । तनूनाम् । अप्रऽयुच्छन् । दीद्यत् । बोधि । गोपाः ॥tvám ǀ dūtáḥ ǀ tvám ǀ ūṃ íti ǀ naḥ ǀ paraḥ-pā́ḥ ǀ tvám ǀ vásyaḥ ǀ ā́ ǀ vṛṣabha ǀ pra-netā́ ǀ
ágne ǀ tokásya ǀ naḥ ǀ táne ǀ tanū́nām ǀ ápra-yucchan ǀ dī́dyat ǀ bodhi ǀ gopā́ḥ ǁtvam ǀ dūtaḥ ǀ tvam ǀ ūṃ iti ǀ naḥ ǀ paraḥ-pāḥ ǀ tvam ǀ vasyaḥ ǀ ā ǀ vṛṣabha ǀ pra-netā ǀ
agne ǀ tokasya ǀ naḥ ǀ tane ǀ tanūnām ǀ apra-yucchan ǀ dīdyat ǀ bodhi ǀ gopāḥ ǁ2.9.2 Aṣṭaka 2.6.1.2Anuvāka 2.1.79
-
Ṛk 3
वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ ।
यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ॥विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे |
यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवींषि जुहुरे समिद्धे ||vidhéma te paramé jánmannagne vidhéma stómairávare sadhásthe ǀ
yásmādyónerudā́rithā yáje tám prá tvé havī́ṃṣi juhure sámiddhe ǁvidhema te parame janmann agne vidhema stomair avare sadhasthe |
yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe ||वि॒धेम॑ । ते॒ । प॒र॒मे । जन्म॑न् । अ॒ग्ने॒ । वि॒धेम॑ । स्तोमैः॑ । अव॑रे । स॒धऽस्थे॑ ।
यस्मा॑त् । योनेः॑ । उ॒त्ऽआरि॑थ । यजे॑ । तम् । प्र । त्वे इति॑ । ह॒वींषि॑ । जु॒हु॒रे॒ । सम्ऽइ॑द्धे ॥विधेम । ते । परमे । जन्मन् । अग्ने । विधेम । स्तोमैः । अवरे । सधऽस्थे ।
यस्मात् । योनेः । उत्ऽआरिथ । यजे । तम् । प्र । त्वे इति । हवींषि । जुहुरे । सम्ऽइद्धे ॥vidhéma ǀ te ǀ paramé ǀ jánman ǀ agne ǀ vidhéma ǀ stómaiḥ ǀ ávare ǀ sadhá-sthe ǀ
yásmāt ǀ yóneḥ ǀ ut-ā́ritha ǀ yáje ǀ tám ǀ prá ǀ tvé íti ǀ havī́ṃṣi ǀ juhure ǀ sám-iddhe ǁvidhema ǀ te ǀ parame ǀ janman ǀ agne ǀ vidhema ǀ stomaiḥ ǀ avare ǀ sadha-sthe ǀ
yasmāt ǀ yoneḥ ǀ ut-āritha ǀ yaje ǀ tam ǀ pra ǀ tve iti ǀ havīṃṣi ǀ juhure ǀ sam-iddhe ǁ2.9.3 Aṣṭaka 2.6.1.3Anuvāka 2.1.80
-
Ṛk 4
अग्ने॒ यज॑स्व ह॒विषा॒ यजी॑यांछ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ ।
त्वं ह्यसि॑ रयि॒पती॑ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता॑ ॥अग्ने यजस्व हविषा यजीयाञ् छ्रुष्टी देष्णम् अभि गृणीहि राधः |
त्वं ह्य् असि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ||ágne yájasva havíṣā yájīyāñchruṣṭī́ deṣṇámabhí gṛṇīhi rā́dhaḥ ǀ
tvám hyási rayipátī rayīṇā́m tvám śukrásya vácaso manótā ǁagne yajasva haviṣā yajīyāñ chruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ |
tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā ||अग्ने॑ । यज॑स्व । ह॒विषा॑ । यजी॑यान् । श्रु॒ष्टी । दे॒ष्णम् । अ॒भि । गृ॒णी॒हि॒ । राधः॑ ।
त्वम् । हि । असि॑ । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । त्वम् । शु॒क्रस्य॑ । वच॑सः । म॒नोता॑ ॥अग्ने । यजस्व । हविषा । यजीयान् । श्रुष्टी । देष्णम् । अभि । गृणीहि । राधः ।
त्वम् । हि । असि । रयिऽपतिः । रयीणाम् । त्वम् । शुक्रस्य । वचसः । मनोता ॥ágne ǀ yájasva ǀ havíṣā ǀ yájīyān ǀ śruṣṭī́ ǀ deṣṇám ǀ abhí ǀ gṛṇīhi ǀ rā́dhaḥ ǀ
tvám ǀ hí ǀ ási ǀ rayi-pátiḥ ǀ rayīṇā́m ǀ tvám ǀ śukrásya ǀ vácasaḥ ǀ manótā ǁagne ǀ yajasva ǀ haviṣā ǀ yajīyān ǀ śruṣṭī ǀ deṣṇam ǀ abhi ǀ gṛṇīhi ǀ rādhaḥ ǀ
tvam ǀ hi ǀ asi ǀ rayi-patiḥ ǀ rayīṇām ǀ tvam ǀ śukrasya ǀ vacasaḥ ǀ manotā ǁ2.9.4 Aṣṭaka 2.6.1.4Anuvāka 2.1.81
-
Ṛk 5
उ॒भयं॑ ते॒ न क्षी॑यते वस॒व्यं॑ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म ।
कृ॒धि क्षु॒मंतं॑ जरि॒तार॑मग्ने कृ॒धि पतिं॑ स्वप॒त्यस्य॑ रा॒यः ॥उभयं ते न क्षीयते वसव्यं दिवे-दिवे जायमानस्य दस्म |
कृधि क्षुमन्तं जरितारम् अग्ने कृधि पतिं स्वपत्यस्य रायः ||ubháyam te ná kṣīyate vasavyám divédive jā́yamānasya dasma ǀ
kṛdhí kṣumántam jaritā́ramagne kṛdhí pátim svapatyásya rāyáḥ ǁubhayaṃ te na kṣīyate vasavyaṃ dive-dive jāyamānasya dasma |
kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ ||उ॒भय॑म् । ते॒ । न । क्षी॒य॒ते॒ । व॒स॒व्य॑म् । दि॒वेऽदि॑वे । जाय॑मानस्य । द॒स्म॒ ।
कृ॒धि । क्षु॒ऽमन्त॑म् । ज॒रि॒तार॑म् । अ॒ग्ने॒ । कृ॒धि । पति॑म् । सु॒ऽअ॒प॒त्यस्य॑ । रा॒यः ॥उभयम् । ते । न । क्षीयते । वसव्यम् । दिवेऽदिवे । जायमानस्य । दस्म ।
कृधि । क्षुऽमन्तम् । जरितारम् । अग्ने । कृधि । पतिम् । सुऽअपत्यस्य । रायः ॥ubháyam ǀ te ǀ ná ǀ kṣīyate ǀ vasavyám ǀ divé-dive ǀ jā́yamānasya ǀ dasma ǀ
kṛdhí ǀ kṣu-mántam ǀ jaritā́ram ǀ agne ǀ kṛdhí ǀ pátim ǀ su-apatyásya ǀ rāyáḥ ǁubhayam ǀ te ǀ na ǀ kṣīyate ǀ vasavyam ǀ dive-dive ǀ jāyamānasya ǀ dasma ǀ
kṛdhi ǀ kṣu-mantam ǀ jaritāram ǀ agne ǀ kṛdhi ǀ patim ǀ su-apatyasya ǀ rāyaḥ ǁ2.9.5 Aṣṭaka 2.6.1.5Anuvāka 2.1.82
-
Ṛk 6
सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति ।
अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥सैनानीकेन सुविदत्रो अस्मे यष्टा देवां आयजिष्ठः स्वस्ति |
अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ||sáinā́nīkena suvidátro asmé yáṣṭā devā́m̐ ā́yajiṣṭhaḥ svastí ǀ
ádabdho gopā́ utá naḥ paraspā́ ágne dyumádutá reváddidīhi ǁsainānīkena suvidatro asme yaṣṭā devāṃ āyajiṣṭhaḥ svasti |
adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi ||सः । ए॒ना । अनी॑केन । सु॒ऽवि॒दत्रः॑ । अ॒स्मे इति॑ । यष्टा॑ । दे॒वान् । आऽय॑जिष्ठः । स्व॒स्ति ।
अद॑ब्धः । गो॒पाः । उ॒त । नः॒ । प॒रः॒ऽपाः । अग्ने॑ । द्यु॒ऽमत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥सः । एना । अनीकेन । सुऽविदत्रः । अस्मे इति । यष्टा । देवान् । आऽयजिष्ठः । स्वस्ति ।
अदब्धः । गोपाः । उत । नः । परःऽपाः । अग्ने । द्युऽमत् । उत । रेवत् । दिदीहि ॥sáḥ ǀ enā́ ǀ ánīkena ǀ su-vidátraḥ ǀ asmé íti ǀ yáṣṭā ǀ devā́n ǀ ā́-yajiṣṭhaḥ ǀ svastí ǀ
ádabdhaḥ ǀ gopā́ḥ ǀ utá ǀ naḥ ǀ paraḥ-pā́ḥ ǀ ágne ǀ dyu-mát ǀ utá ǀ revát ǀ didīhi ǁsaḥ ǀ enā ǀ anīkena ǀ su-vidatraḥ ǀ asme iti ǀ yaṣṭā ǀ devān ǀ ā-yajiṣṭhaḥ ǀ svasti ǀ
adabdhaḥ ǀ gopāḥ ǀ uta ǀ naḥ ǀ paraḥ-pāḥ ǀ agne ǀ dyu-mat ǀ uta ǀ revat ǀ didīhi ǁ2.9.6 Aṣṭaka 2.6.1.6Anuvāka 2.1.83
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.