Ṛk 2.9.6
Saṃhitā
सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति ।
अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवां आयजिष्ठः स्वस्ति |
अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ||
sáinā́nīkena suvidátro asmé yáṣṭā devā́m̐ ā́yajiṣṭhaḥ svastí ǀ
ádabdho gopā́ utá naḥ paraspā́ ágne dyumádutá reváddidīhi ǁ
sainānīkena suvidatro asme yaṣṭā devāṃ āyajiṣṭhaḥ svasti |
adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi ||
Padapāṭha
सः । ए॒ना । अनी॑केन । सु॒ऽवि॒दत्रः॑ । अ॒स्मे इति॑ । यष्टा॑ । दे॒वान् । आऽय॑जिष्ठः । स्व॒स्ति ।
अद॑ब्धः । गो॒पाः । उ॒त । नः॒ । प॒रः॒ऽपाः । अग्ने॑ । द्यु॒ऽमत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥
सः । एना । अनीकेन । सुऽविदत्रः । अस्मे इति । यष्टा । देवान् । आऽयजिष्ठः । स्वस्ति ।
अदब्धः । गोपाः । उत । नः । परःऽपाः । अग्ने । द्युऽमत् । उत । रेवत् । दिदीहि ॥
sáḥ ǀ enā́ ǀ ánīkena ǀ su-vidátraḥ ǀ asmé íti ǀ yáṣṭā ǀ devā́n ǀ ā́-yajiṣṭhaḥ ǀ svastí ǀ
ádabdhaḥ ǀ gopā́ḥ ǀ utá ǀ naḥ ǀ paraḥ-pā́ḥ ǀ ágne ǀ dyu-mát ǀ utá ǀ revát ǀ didīhi ǁ
saḥ ǀ enā ǀ anīkena ǀ su-vidatraḥ ǀ asme iti ǀ yaṣṭā ǀ devān ǀ ā-yajiṣṭhaḥ ǀ svasti ǀ
adabdhaḥ ǀ gopāḥ ǀ uta ǀ naḥ ǀ paraḥ-pāḥ ǀ agne ǀ dyu-mat ǀ uta ǀ revat ǀ didīhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.009.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.01.06
- Maṇḍala · Anuvāka · Ṛk
- 02.01.083
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.