Sūkta 15
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (2, 4-6, 9, 10); bhurikpaṅkti (1); nicṛttriṣṭup (3); svarāṭpaṅkti (7); virāṭtrisṭup (8)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचं ।
त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिंद्रो॑ जघान ॥प्र घा न्व् अस्य महतो महानि सत्या सत्यस्य करणानि वोचम् |
त्रिकद्रुकेष्व् अपिबत् सुतस्यास्य मदे अहिम् इन्द्रो जघान ||prá ghā nvásya maható mahā́ni satyā́ satyásya káraṇāni vocam ǀ
tríkadrukeṣvapibatsutásyāsyá máde áhimíndro jaghāna ǁpra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam |
trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna ||प्र । घ॒ । नु । अ॒स्य॒ । म॒ह॒तः । म॒हानि॑ । स॒त्या । स॒त्यस्य॑ । कर॑णानि । वो॒च॒म् ।
त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । अ॒स्य । मदे॑ । अहि॑म् । इन्द्रः॑ । ज॒घा॒न॒ ॥प्र । घ । नु । अस्य । महतः । महानि । सत्या । सत्यस्य । करणानि । वोचम् ।
त्रिऽकद्रुकेषु । अपिबत् । सुतस्य । अस्य । मदे । अहिम् । इन्द्रः । जघान ॥prá ǀ gha ǀ nú ǀ asya ǀ mahatáḥ ǀ mahā́ni ǀ satyā́ ǀ satyásya ǀ káraṇāni ǀ vocam ǀ
trí-kadrukeṣu ǀ apibat ǀ sutásya ǀ asyá ǀ máde ǀ áhim ǀ índraḥ ǀ jaghāna ǁpra ǀ gha ǀ nu ǀ asya ǀ mahataḥ ǀ mahāni ǀ satyā ǀ satyasya ǀ karaṇāni ǀ vocam ǀ
tri-kadrukeṣu ǀ apibat ǀ sutasya ǀ asya ǀ made ǀ ahim ǀ indraḥ ǀ jaghāna ǁ2.15.1 Aṣṭaka 2.6.15.1Anuvāka 2.2.41
-
Ṛk 2
अ॒वं॒शे द्याम॑स्तभायद्बृ॒हंत॒मा रोद॑सी अपृणदं॒तरि॑क्षं ।
स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥अवंशे द्याम् अस्तभायद् बृहन्तम् आ रोदसी अपृणद् अन्तरिक्षम् |
स धारयत् पृथिवीम् पप्रथच् च सोमस्य ता मद इन्द्रश् चकार ||avaṃśé dyā́mastabhāyadbṛhántamā́ ródasī apṛṇadantárikṣam ǀ
sá dhārayatpṛthivī́m papráthacca sómasya tā́ máda índraścakāra ǁavaṃśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam |
sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra ||अ॒वं॒शे । द्याम् । अ॒स्त॒भा॒य॒त् । बृ॒हन्त॑म् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒न्तरि॑क्षम् ।
सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥अवंशे । द्याम् । अस्तभायत् । बृहन्तम् । आ । रोदसी इति । अपृणत् । अन्तरिक्षम् ।
सः । धारयत् । पृथिवीम् । पप्रथत् । च । सोमस्य । ता । मदे । इन्द्रः । चकार ॥avaṃśé ǀ dyā́m ǀ astabhāyat ǀ bṛhántam ǀ ā́ ǀ ródasī íti ǀ apṛṇat ǀ antárikṣam ǀ
sáḥ ǀ dhārayat ǀ pṛthivī́m ǀ papráthat ǀ ca ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁavaṃśe ǀ dyām ǀ astabhāyat ǀ bṛhantam ǀ ā ǀ rodasī iti ǀ apṛṇat ǀ antarikṣam ǀ
saḥ ǀ dhārayat ǀ pṛthivīm ǀ paprathat ǀ ca ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ2.15.2 Aṣṭaka 2.6.15.2Anuvāka 2.2.42
-
Ṛk 3
सद्मे॑व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीनां॑ ।
वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥सद्मेव प्राचो वि मिमाय मानैर् वज्रेण खान्य् अतृणन् नदीनाम् |
वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद इन्द्रश् चकार ||sádmeva prā́co ví mimāya mā́nairvájreṇa khā́nyatṛṇannadī́nām ǀ
vṛ́thāsṛjatpathíbhirdīrghayātháiḥ sómasya tā́ máda índraścakāra ǁsadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām |
vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra ||सद्म॑ऽइव । प्राचः॑ । वि । मि॒मा॒य॒ । मानैः॑ । वज्रे॑ण । खानि॑ । अ॒तृ॒ण॒त् । न॒दीना॑म् ।
वृथा॑ । अ॒सृ॒ज॒त् । प॒थिऽभिः॑ । दी॒र्घ॒ऽया॒थैः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥सद्मऽइव । प्राचः । वि । मिमाय । मानैः । वज्रेण । खानि । अतृणत् । नदीनाम् ।
वृथा । असृजत् । पथिऽभिः । दीर्घऽयाथैः । सोमस्य । ता । मदे । इन्द्रः । चकार ॥sádma-iva ǀ prā́caḥ ǀ ví ǀ mimāya ǀ mā́naiḥ ǀ vájreṇa ǀ khā́ni ǀ atṛṇat ǀ nadī́nām ǀ
vṛ́thā ǀ asṛjat ǀ pathí-bhiḥ ǀ dīrgha-yātháiḥ ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁsadma-iva ǀ prācaḥ ǀ vi ǀ mimāya ǀ mānaiḥ ǀ vajreṇa ǀ khāni ǀ atṛṇat ǀ nadīnām ǀ
vṛthā ǀ asṛjat ǀ pathi-bhiḥ ǀ dīrgha-yāthaiḥ ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ2.15.3 Aṣṭaka 2.6.15.3Anuvāka 2.2.43
-
Ṛk 4
स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या॑ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ ।
सं गोभि॒रश्वै॑रसृज॒द्रथे॑भिः॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥स प्रवोऌहॄन् परिगत्या दभीतेर् विश्वम् अधाग् आयुधम् इद्धे अग्नौ |
सं गोभिर् अश्वैर् असृजद् रथेभिः सोमस्य ता मद इन्द्रश् चकार ||sá pravoḷhṝ́nparigátyā dabhī́tervíśvamadhāgā́yudhamiddhé agnáu ǀ
sám góbhiráśvairasṛjadráthebhiḥ sómasya tā́ máda índraścakāra ǁsa pravoḷhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau |
saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra ||सः । प्र॒ऽवो॒ळ्हॄन् । प॒रि॒ऽगत्य॑ । द॒भीतेः॑ । विश्व॑म् । अ॒धा॒क् । आयु॑धम् । इ॒द्धे । अ॒ग्नौ ।
सम् । गोभिः॑ । अश्वैः॑ । अ॒सृ॒ज॒त् । रथे॑भिः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥सः । प्रऽवोळ्हॄन् । परिऽगत्य । दभीतेः । विश्वम् । अधाक् । आयुधम् । इद्धे । अग्नौ ।
सम् । गोभिः । अश्वैः । असृजत् । रथेभिः । सोमस्य । ता । मदे । इन्द्रः । चकार ॥sáḥ ǀ pra-voḷhṝ́n ǀ pari-gátya ǀ dabhī́teḥ ǀ víśvam ǀ adhāk ǀ ā́yudham ǀ iddhé ǀ agnáu ǀ
sám ǀ góbhiḥ ǀ áśvaiḥ ǀ asṛjat ǀ ráthebhiḥ ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁsaḥ ǀ pra-voḷhṝn ǀ pari-gatya ǀ dabhīteḥ ǀ viśvam ǀ adhāk ǀ āyudham ǀ iddhe ǀ agnau ǀ
sam ǀ gobhiḥ ǀ aśvaiḥ ǀ asṛjat ǀ rathebhiḥ ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ2.15.4 Aṣṭaka 2.6.15.4Anuvāka 2.2.44
-
Ṛk 5
स ईं॑ म॒हीं धुनि॒मेतो॑ररम्णा॒त्सो अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति ।
त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थुः॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥स ईम् महीं धुनिम् एतोर् अरम्णात् सो अस्नातॄन् अपारयत् स्वस्ति |
त उत्स्नाय रयिम् अभि प्र तस्थुः सोमस्य ता मद इन्द्रश् चकार ||sá īm mahī́m dhúnimétoraramṇātsó asnātṝ́napārayatsvastí ǀ
tá utsnā́ya rayímabhí prá tasthuḥ sómasya tā́ máda índraścakāra ǁsa īm mahīṃ dhunim etor aramṇāt so asnātṝn apārayat svasti |
ta utsnāya rayim abhi pra tasthuḥ somasya tā mada indraś cakāra ||सः । ई॒म् । म॒हीम् । धुनि॑म् । एतोः॑ । अ॒र॒म्णा॒त् । सः । अ॒स्ना॒तॄन् । अ॒पा॒र॒य॒त् । स्व॒स्ति ।
ते । उ॒त्ऽस्नाय॑ । र॒यिम् । अ॒भि । प्र । त॒स्थुः॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥सः । ईम् । महीम् । धुनिम् । एतोः । अरम्णात् । सः । अस्नातॄन् । अपारयत् । स्वस्ति ।
ते । उत्ऽस्नाय । रयिम् । अभि । प्र । तस्थुः । सोमस्य । ता । मदे । इन्द्रः । चकार ॥sáḥ ǀ īm ǀ mahī́m ǀ dhúnim ǀ étoḥ ǀ aramṇāt ǀ sáḥ ǀ asnātṝ́n ǀ apārayat ǀ svastí ǀ
té ǀ ut-snā́ya ǀ rayím ǀ abhí ǀ prá ǀ tasthuḥ ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁsaḥ ǀ īm ǀ mahīm ǀ dhunim ǀ etoḥ ǀ aramṇāt ǀ saḥ ǀ asnātṝn ǀ apārayat ǀ svasti ǀ
te ǀ ut-snāya ǀ rayim ǀ abhi ǀ pra ǀ tasthuḥ ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ2.15.5 Aṣṭaka 2.6.15.5Anuvāka 2.2.45
-
Ṛk 6
सोदं॑चं॒ सिंधु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष ।
अ॒ज॒वसो॑ ज॒विनी॑भिर्विवृ॒श्चन्त्सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥सोदञ्चं सिन्धुम् अरिणान् महित्वा वज्रेणान उषसः सम् पिपेष |
अजवसो जविनीभिर् विवृश्चन् सोमस्य ता मद इन्द्रश् चकार ||sódañcam síndhumariṇānmahitvā́ vájreṇā́na uṣásaḥ sám pipeṣa ǀ
ajaváso javínībhirvivṛścántsómasya tā́ máda índraścakāra ǁsodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa |
ajavaso javinībhir vivṛścan somasya tā mada indraś cakāra ||सः । उद॑ञ्चम् । सिन्धु॑म् । अ॒रि॒णा॒त् । म॒हि॒ऽत्वा । वज्रे॑ण । अनः॑ । उ॒षसः॑ । सम् । पि॒पे॒ष॒ ।
अ॒ज॒वसः॑ । ज॒विनी॑भिः । वि॒ऽवृ॒श्चन् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥सः । उदञ्चम् । सिन्धुम् । अरिणात् । महिऽत्वा । वज्रेण । अनः । उषसः । सम् । पिपेष ।
अजवसः । जविनीभिः । विऽवृश्चन् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥sáḥ ǀ údañcam ǀ síndhum ǀ ariṇāt ǀ mahi-tvā́ ǀ vájreṇa ǀ ánaḥ ǀ uṣásaḥ ǀ sám ǀ pipeṣa ǀ
ajavásaḥ ǀ javínībhiḥ ǀ vi-vṛścán ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁsaḥ ǀ udañcam ǀ sindhum ǀ ariṇāt ǀ mahi-tvā ǀ vajreṇa ǀ anaḥ ǀ uṣasaḥ ǀ sam ǀ pipeṣa ǀ
ajavasaḥ ǀ javinībhiḥ ǀ vi-vṛścan ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ2.15.6 Aṣṭaka 2.6.16.1Anuvāka 2.2.46
-
Ṛk 7
स वि॒द्वाँ अ॑पगो॒हं क॒नीना॑मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् ।
प्रति॑ श्रो॒णः स्था॒द्व्य१॒॑नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥स विद्वां अपगोहं कनीनाम् आविर् भवन्न् उद् अतिष्ठत् परावृक् |
प्रति श्रोण स्थाद् व्य् अनग् अचष्ट सोमस्य ता मद इन्द्रश् चकार ||sá vidvā́m̐ apagohám kanī́nāmāvírbhávannúdatiṣṭhatparāvṛ́k ǀ
práti śroṇáḥ sthādvyánágacaṣṭa sómasya tā́ máda índraścakāra ǁsa vidvāṃ apagohaṃ kanīnām āvir bhavann ud atiṣṭhat parāvṛk |
prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra ||सः । वि॒द्वान् । अ॒प॒ऽगो॒हम् । क॒नीना॑म् । आ॒विः । भव॑न् । उत् । अ॒ति॒ष्ठ॒त् । प॒रा॒ऽवृक् ।
प्रति॑ । श्रो॒णः । स्था॒त् । वि । अ॒नक् । अ॒च॒ष्ट॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥सः । विद्वान् । अपऽगोहम् । कनीनाम् । आविः । भवन् । उत् । अतिष्ठत् । पराऽवृक् ।
प्रति । श्रोणः । स्थात् । वि । अनक् । अचष्ट । सोमस्य । ता । मदे । इन्द्रः । चकार ॥sáḥ ǀ vidvā́n ǀ apa-gohám ǀ kanī́nām ǀ āvíḥ ǀ bhávan ǀ út ǀ atiṣṭhat ǀ parā-vṛ́k ǀ
práti ǀ śroṇáḥ ǀ sthāt ǀ ví ǀ anák ǀ acaṣṭa ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁsaḥ ǀ vidvān ǀ apa-goham ǀ kanīnām ǀ āviḥ ǀ bhavan ǀ ut ǀ atiṣṭhat ǀ parā-vṛk ǀ
prati ǀ śroṇaḥ ǀ sthāt ǀ vi ǀ anak ǀ acaṣṭa ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ2.15.7 Aṣṭaka 2.6.16.2Anuvāka 2.2.47
-
Ṛk 8
भि॒नद्व॒लमंगि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै॑रत् ।
रि॒णग्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥भिनद् वलम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृंहितान्य् ऐरत् |
रिणग् रोधांसि कृत्रिमाण्य् एषां सोमस्य ता मद इन्द्रश् चकार ||bhinádvalámáṅgirobhirgṛṇānó ví párvatasya dṛṃhitā́nyairat ǀ
riṇágródhāṃsi kṛtrímāṇyeṣām sómasya tā́ máda índraścakāra ǁbhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat |
riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra ||भि॒नत् । व॒लम् । अङ्गि॑रःऽभिः । गृ॒णा॒नः । वि । पर्व॑तस्य । दृं॒हि॒तानि॑ । ऐ॒र॒त् ।
रि॒णक् । रोधां॑सि । कृ॒त्रिमा॑णि । ए॒षा॒म् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥भिनत् । वलम् । अङ्गिरःऽभिः । गृणानः । वि । पर्वतस्य । दृंहितानि । ऐरत् ।
रिणक् । रोधांसि । कृत्रिमाणि । एषाम् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥bhinát ǀ valám ǀ áṅgiraḥ-bhiḥ ǀ gṛṇānáḥ ǀ ví ǀ párvatasya ǀ dṛṃhitā́ni ǀ airat ǀ
riṇák ǀ ródhāṃsi ǀ kṛtrímāṇi ǀ eṣām ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁbhinat ǀ valam ǀ aṅgiraḥ-bhiḥ ǀ gṛṇānaḥ ǀ vi ǀ parvatasya ǀ dṛṃhitāni ǀ airat ǀ
riṇak ǀ rodhāṃsi ǀ kṛtrimāṇi ǀ eṣām ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ2.15.8 Aṣṭaka 2.6.16.3Anuvāka 2.2.48
-
Ṛk 9
स्वप्ने॑ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं॑ च ज॒घंथ॒ दस्युं॒ प्र द॒भीति॑मावः ।
रं॒भी चि॒दत्र॑ विविदे॒ हिर॑ण्यं॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युम् प्र दभीतिम् आवः |
रम्भी चिद् अत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश् चकार ||svápnenābhyúpyā cúmurim dhúnim ca jaghántha dásyum prá dabhī́timāvaḥ ǀ
rambhī́ cidátra vivide híraṇyam sómasya tā́ máda índraścakāra ǁsvapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyum pra dabhītim āvaḥ |
rambhī cid atra vivide hiraṇyaṃ somasya tā mada indraś cakāra ||स्वप्ने॑न । अ॒भि॒ऽउप्य॑ । चुमु॑रिम् । धुनि॑म् । च॒ । ज॒घन्थ॑ । दस्यु॑म् । प्र । द॒भीति॑म् । आ॒वः॒ ।
र॒म्भी । चि॒त् । अत्र॑ । वि॒वि॒दे॒ । हिर॑ण्यम् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥स्वप्नेन । अभिऽउप्य । चुमुरिम् । धुनिम् । च । जघन्थ । दस्युम् । प्र । दभीतिम् । आवः ।
रम्भी । चित् । अत्र । विविदे । हिरण्यम् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥svápnena ǀ abhi-úpya ǀ cúmurim ǀ dhúnim ǀ ca ǀ jaghántha ǀ dásyum ǀ prá ǀ dabhī́tim ǀ āvaḥ ǀ
rambhī́ ǀ cit ǀ átra ǀ vivide ǀ híraṇyam ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁsvapnena ǀ abhi-upya ǀ cumurim ǀ dhunim ǀ ca ǀ jaghantha ǀ dasyum ǀ pra ǀ dabhītim ǀ āvaḥ ǀ
rambhī ǀ cit ǀ atra ǀ vivide ǀ hiraṇyam ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ2.15.9 Aṣṭaka 2.6.16.4Anuvāka 2.2.49
-
Ṛk 10
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।
शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी |
शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ||nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ
śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁnūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।
शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।
शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ
śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁnūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ
śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ2.15.10 Aṣṭaka 2.6.16.5Anuvāka 2.2.50
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.