Ṛk 2.15.4
Saṃhitā
स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या॑ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ ।
सं गोभि॒रश्वै॑रसृज॒द्रथे॑भिः॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥
स प्रवोऌहॄन् परिगत्या दभीतेर् विश्वम् अधाग् आयुधम् इद्धे अग्नौ |
सं गोभिर् अश्वैर् असृजद् रथेभिः सोमस्य ता मद इन्द्रश् चकार ||
sá pravoḷhṝ́nparigátyā dabhī́tervíśvamadhāgā́yudhamiddhé agnáu ǀ
sám góbhiráśvairasṛjadráthebhiḥ sómasya tā́ máda índraścakāra ǁ
sa pravoḷhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau |
saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra ||
Padapāṭha
सः । प्र॒ऽवो॒ळ्हॄन् । प॒रि॒ऽगत्य॑ । द॒भीतेः॑ । विश्व॑म् । अ॒धा॒क् । आयु॑धम् । इ॒द्धे । अ॒ग्नौ ।
सम् । गोभिः॑ । अश्वैः॑ । अ॒सृ॒ज॒त् । रथे॑भिः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥
सः । प्रऽवोळ्हॄन् । परिऽगत्य । दभीतेः । विश्वम् । अधाक् । आयुधम् । इद्धे । अग्नौ ।
सम् । गोभिः । अश्वैः । असृजत् । रथेभिः । सोमस्य । ता । मदे । इन्द्रः । चकार ॥
sáḥ ǀ pra-voḷhṝ́n ǀ pari-gátya ǀ dabhī́teḥ ǀ víśvam ǀ adhāk ǀ ā́yudham ǀ iddhé ǀ agnáu ǀ
sám ǀ góbhiḥ ǀ áśvaiḥ ǀ asṛjat ǀ ráthebhiḥ ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁ
saḥ ǀ pra-voḷhṝn ǀ pari-gatya ǀ dabhīteḥ ǀ viśvam ǀ adhāk ǀ āyudham ǀ iddhe ǀ agnau ǀ
sam ǀ gobhiḥ ǀ aśvaiḥ ǀ asṛjat ǀ rathebhiḥ ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.015.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.15.04
- Maṇḍala · Anuvāka · Ṛk
- 02.02.044
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.