Ṛk 2.15.1
Saṃhitā
प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचं ।
त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिंद्रो॑ जघान ॥
प्र घा न्व् अस्य महतो महानि सत्या सत्यस्य करणानि वोचम् |
त्रिकद्रुकेष्व् अपिबत् सुतस्यास्य मदे अहिम् इन्द्रो जघान ||
prá ghā nvásya maható mahā́ni satyā́ satyásya káraṇāni vocam ǀ
tríkadrukeṣvapibatsutásyāsyá máde áhimíndro jaghāna ǁ
pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam |
trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna ||
Padapāṭha
प्र । घ॒ । नु । अ॒स्य॒ । म॒ह॒तः । म॒हानि॑ । स॒त्या । स॒त्यस्य॑ । कर॑णानि । वो॒च॒म् ।
त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । अ॒स्य । मदे॑ । अहि॑म् । इन्द्रः॑ । ज॒घा॒न॒ ॥
प्र । घ । नु । अस्य । महतः । महानि । सत्या । सत्यस्य । करणानि । वोचम् ।
त्रिऽकद्रुकेषु । अपिबत् । सुतस्य । अस्य । मदे । अहिम् । इन्द्रः । जघान ॥
prá ǀ gha ǀ nú ǀ asya ǀ mahatáḥ ǀ mahā́ni ǀ satyā́ ǀ satyásya ǀ káraṇāni ǀ vocam ǀ
trí-kadrukeṣu ǀ apibat ǀ sutásya ǀ asyá ǀ máde ǀ áhim ǀ índraḥ ǀ jaghāna ǁ
pra ǀ gha ǀ nu ǀ asya ǀ mahataḥ ǀ mahāni ǀ satyā ǀ satyasya ǀ karaṇāni ǀ vocam ǀ
tri-kadrukeṣu ǀ apibat ǀ sutasya ǀ asya ǀ made ǀ ahim ǀ indraḥ ǀ jaghāna ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.015.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.15.01
- Maṇḍala · Anuvāka · Ṛk
- 02.02.041
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.