Ṛgveda · Maṇḍala 2

Sūkta 17

Indra · Gṛtsamada Bhārgava Śaunaka · 9 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles virāḍjagatī (1, 5, 6); nicṛjjagatī (2, 4); bhuriktriṣṭup (3, 7); nicṛtpaṅkti (8); triṣṭup (9)

2nd set of styles jagatī (1-7); triṣṭubh (8-9)

  1. Ṛk 1

    तद॑स्मै॒ नव्य॑मंगिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते ।
    विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी॑वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ॥

    तद् अस्मै नव्यम् अङ्गिरस्वद् अर्चत शुष्मा यद् अस्य प्रत्नथोदीरते |
    विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्य् ऐरयत् ||

    tádasmai návyamaṅgirasvádarcata śúṣmā yádasya pratnáthodī́rate ǀ
    víśvā yádgotrā́ sáhasā párīvṛtā máde sómasya dṛṃhitā́nyáirayat ǁ

    tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate |
    viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat ||

    तत् । अ॒स्मै॒ । नव्य॑म् । अ॒ङ्गि॒र॒स्वत् । अ॒र्च॒त॒ । शुष्माः॑ । यत् । अ॒स्य॒ । प्र॒त्नऽथा॑ । उ॒त्ऽईर॑ते ।
    विश्वा॑ । यत् । गो॒त्रा । सह॑सा । परि॑ऽवृता । मदे॑ । सोम॑स्य । दृं॒हि॒तानि॑ । ऐर॑यत् ॥

    तत् । अस्मै । नव्यम् । अङ्गिरस्वत् । अर्चत । शुष्माः । यत् । अस्य । प्रत्नऽथा । उत्ऽईरते ।
    विश्वा । यत् । गोत्रा । सहसा । परिऽवृता । मदे । सोमस्य । दृंहितानि । ऐरयत् ॥

    tát ǀ asmai ǀ návyam ǀ aṅgirasvát ǀ arcata ǀ śúṣmāḥ ǀ yát ǀ asya ǀ pratná-thā ǀ ut-ī́rate ǀ
    víśvā ǀ yát ǀ gotrā́ ǀ sáhasā ǀ pári-vṛtā ǀ máde ǀ sómasya ǀ dṛṃhitā́ni ǀ áirayat ǁ

    tat ǀ asmai ǀ navyam ǀ aṅgirasvat ǀ arcata ǀ śuṣmāḥ ǀ yat ǀ asya ǀ pratna-thā ǀ ut-īrate ǀ
    viśvā ǀ yat ǀ gotrā ǀ sahasā ǀ pari-vṛtā ǀ made ǀ somasya ǀ dṛṃhitāni ǀ airayat ǁ

    2.17.1 Aṣṭaka 2.6.19.1Anuvāka 2.2.60

  2. Ṛk 2

    स भू॑तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा॑नो महि॒मान॒माति॑रत् ।
    शूरो॒ यो यु॒त्सु त॒न्वं॑ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुंचत ॥

    स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानम् आतिरत् |
    शूरो यो युत्सु तन्वम् परिव्यत शीर्षणि द्याम् महिना प्रत्य् अमुञ्चत ||

    sá bhūtu yó ha prathamā́ya dhā́yasa ójo mímāno mahimā́namā́tirat ǀ
    śū́ro yó yutsú tanvám parivyáta śīrṣáṇi dyā́m mahinā́ prátyamuñcata ǁ

    sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat |
    śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata ||

    सः । भू॒तु॒ । यः । ह॒ । प्र॒थ॒माय॑ । धाय॑से । ओजः॑ । मिमा॑नः । म॒हि॒मान॑म् । आ । अति॑रत् ।
    शूरः॑ । यः । यु॒त्ऽसु । त॒न्व॑म् । प॒रि॒ऽव्यत॑ । शी॒र्षणि॑ । द्याम् । म॒हि॒ना । प्रति॑ । अ॒मु॒ञ्च॒त॒ ॥

    सः । भूतु । यः । ह । प्रथमाय । धायसे । ओजः । मिमानः । महिमानम् । आ । अतिरत् ।
    शूरः । यः । युत्ऽसु । तन्वम् । परिऽव्यत । शीर्षणि । द्याम् । महिना । प्रति । अमुञ्चत ॥

    sáḥ ǀ bhūtu ǀ yáḥ ǀ ha ǀ prathamā́ya ǀ dhā́yase ǀ ójaḥ ǀ mímānaḥ ǀ mahimā́nam ǀ ā́ ǀ átirat ǀ
    śū́raḥ ǀ yáḥ ǀ yut-sú ǀ tanvám ǀ pari-vyáta ǀ śīrṣáṇi ǀ dyā́m ǀ mahinā́ ǀ práti ǀ amuñcata ǁ

    saḥ ǀ bhūtu ǀ yaḥ ǀ ha ǀ prathamāya ǀ dhāyase ǀ ojaḥ ǀ mimānaḥ ǀ mahimānam ǀ ā ǀ atirat ǀ
    śūraḥ ǀ yaḥ ǀ yut-su ǀ tanvam ǀ pari-vyata ǀ śīrṣaṇi ǀ dyām ǀ mahinā ǀ prati ǀ amuñcata ǁ

    2.17.2 Aṣṭaka 2.6.19.2Anuvāka 2.2.61

  3. Ṛk 3

    अधा॑कृणोः प्रथ॒मं वी॒र्यं॑ म॒हद्यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः ।
    र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ताः॒ प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॒॑क्पृथ॑क् ॥

    अधाकृणोः प्रथमं वीर्यम् महद् यद् अस्याग्रे ब्रह्मणा शुष्मम् ऐरयः |
    रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक् पृथक् ||

    ádhākṛṇoḥ prathamám vīryám mahádyádasyā́gre bráhmaṇā śúṣmamáirayaḥ ǀ
    ratheṣṭhéna háryaśvena vícyutāḥ prá jīráyaḥ sisrate sadhryákpṛ́thak ǁ

    adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ |
    ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryak pṛthak ||

    अध॑ । अ॒कृ॒णोः॒ । प्र॒थ॒मम् । वी॒र्य॑म् । म॒हत् । यत् । अ॒स्य॒ । अग्रे॑ । ब्रह्म॑णा । शुष्म॑म् । ऐर॑यः ।
    र॒थे॒ऽस्थेन॑ । हरि॑ऽअश्वेन । विऽच्यु॑ताः । प्र । जी॒रयः॑ । सि॒स्र॒ते॒ । स॒ध्र्य॑क् । पृथ॑क् ॥

    अध । अकृणोः । प्रथमम् । वीर्यम् । महत् । यत् । अस्य । अग्रे । ब्रह्मणा । शुष्मम् । ऐरयः ।
    रथेऽस्थेन । हरिऽअश्वेन । विऽच्युताः । प्र । जीरयः । सिस्रते । सध्र्यक् । पृथक् ॥

    ádha ǀ akṛṇoḥ ǀ prathamám ǀ vīryám ǀ mahát ǀ yát ǀ asya ǀ ágre ǀ bráhmaṇā ǀ śúṣmam ǀ áirayaḥ ǀ
    rathe-sthéna ǀ hári-aśvena ǀ ví-cyutāḥ ǀ prá ǀ jīráyaḥ ǀ sisrate ǀ sadhryák ǀ pṛ́thak ǁ

    adha ǀ akṛṇoḥ ǀ prathamam ǀ vīryam ǀ mahat ǀ yat ǀ asya ǀ agre ǀ brahmaṇā ǀ śuṣmam ǀ airayaḥ ǀ
    rathe-sthena ǀ hari-aśvena ǀ vi-cyutāḥ ǀ pra ǀ jīrayaḥ ǀ sisrate ǀ sadhryak ǀ pṛthak ǁ

    2.17.3 Aṣṭaka 2.6.19.3Anuvāka 2.2.62

  4. Ṛk 4

    अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने॑शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत ।
    आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्यं॒तमां॑सि॒ दुधि॑ता॒ सम॑व्ययत् ॥

    अधा यो विश्वा भुवनाभि मज्मनेशानकृत् प्रवया अभ्य् अवर्धत |
    आद् रोदसी ज्योतिषा वह्निर् आतनोत् सीव्यन् तमांसि दुधिता सम् अव्ययत् ||

    ádhā yó víśvā bhúvanābhí majmáneśānakṛ́tprávayā abhyávardhata ǀ
    ā́dródasī jyótiṣā váhnirā́tanotsī́vyantámāṃsi dúdhitā sámavyayat ǁ

    adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata |
    ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṃsi dudhitā sam avyayat ||

    अध॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ । ई॒शा॒न॒ऽकृत् । प्रऽव॑याः । अ॒भि । अव॑र्धत ।
    आत् । रोद॑सी॒ इति॑ । ज्योति॑षा । वह्निः॑ । आ । अ॒त॒नो॒त् । सीव्य॑न् । तमां॑सि । दुधि॑ता । सम् । अ॒व्य॒य॒त् ॥

    अध । यः । विश्वा । भुवना । अभि । मज्मना । ईशानऽकृत् । प्रऽवयाः । अभि । अवर्धत ।
    आत् । रोदसी इति । ज्योतिषा । वह्निः । आ । अतनोत् । सीव्यन् । तमांसि । दुधिता । सम् । अव्ययत् ॥

    ádha ǀ yáḥ ǀ víśvā ǀ bhúvanā ǀ abhí ǀ majmánā ǀ īśāna-kṛ́t ǀ prá-vayāḥ ǀ abhí ǀ ávardhata ǀ
    ā́t ǀ ródasī íti ǀ jyótiṣā ǀ váhniḥ ǀ ā́ ǀ atanot ǀ sī́vyan ǀ támāṃsi ǀ dúdhitā ǀ sám ǀ avyayat ǁ

    adha ǀ yaḥ ǀ viśvā ǀ bhuvanā ǀ abhi ǀ majmanā ǀ īśāna-kṛt ǀ pra-vayāḥ ǀ abhi ǀ avardhata ǀ
    āt ǀ rodasī iti ǀ jyotiṣā ǀ vahniḥ ǀ ā ǀ atanot ǀ sīvyan ǀ tamāṃsi ǀ dudhitā ǀ sam ǀ avyayat ǁ

    2.17.4 Aṣṭaka 2.6.19.4Anuvāka 2.2.63

  5. Ṛk 5

    स प्रा॒चीना॒न्पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ ।
    अधा॑रयत्पृथि॒वीं वि॒श्वधा॑यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ॥

    स प्राचीनान् पर्वतान् दृंहद् ओजसाधराचीनम् अकृणोद् अपाम् अपः |
    अधारयत् पृथिवीं विश्वधायसम् अस्तभ्नान् मायया द्याम् अवस्रसः ||

    sá prācī́nānpárvatāndṛṃhadójasādharācī́namakṛṇodapā́mápaḥ ǀ
    ádhārayatpṛthivī́m viśvádhāyasamástabhnānmāyáyā dyā́mavasrásaḥ ǁ

    sa prācīnān parvatān dṛṃhad ojasādharācīnam akṛṇod apām apaḥ |
    adhārayat pṛthivīṃ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ ||

    सः । प्रा॒चीना॑न् । पर्व॑तान् । दृं॒ह॒त् । ओज॑सा । अ॒ध॒रा॒चीन॑म् । अ॒कृ॒णो॒त् । अ॒पाम् । अपः॑ ।
    अधा॑रयत् । पृ॒थि॒वीम् । वि॒श्वऽधा॑यसम् । अस्त॑भ्नात् । मा॒यया॑ । द्याम् । अ॒व॒ऽस्रसः॑ ॥

    सः । प्राचीनान् । पर्वतान् । दृंहत् । ओजसा । अधराचीनम् । अकृणोत् । अपाम् । अपः ।
    अधारयत् । पृथिवीम् । विश्वऽधायसम् । अस्तभ्नात् । मायया । द्याम् । अवऽस्रसः ॥

    sáḥ ǀ prācī́nān ǀ párvatān ǀ dṛṃhat ǀ ójasā ǀ adharācī́nam ǀ akṛṇot ǀ apā́m ǀ ápaḥ ǀ
    ádhārayat ǀ pṛthivī́m ǀ viśvá-dhāyasam ǀ ástabhnāt ǀ māyáyā ǀ dyā́m ǀ ava-srásaḥ ǁ

    saḥ ǀ prācīnān ǀ parvatān ǀ dṛṃhat ǀ ojasā ǀ adharācīnam ǀ akṛṇot ǀ apām ǀ apaḥ ǀ
    adhārayat ǀ pṛthivīm ǀ viśva-dhāyasam ǀ astabhnāt ǀ māyayā ǀ dyām ǀ ava-srasaḥ ǁ

    2.17.5 Aṣṭaka 2.6.19.5Anuvāka 2.2.64

  6. Ṛk 6

    सास्मा॒ अरं॑ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द्विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ ।
    येना॑ पृथि॒व्यां नि क्रिविं॑ श॒यध्यै॒ वज्रे॑ण ह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ ॥

    सास्मा अरम् बाहुभ्यां यम् पिताकृणोद् विश्वस्माद् आ जनुषो वेदसस् परि |
    येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्य् अवृणक् तुविष्वणिः ||

    sā́smā áram bāhúbhyām yám pitā́kṛṇodvíśvasmādā́ janúṣo védasaspári ǀ
    yénā pṛthivyā́m ní krívim śayádhyai vájreṇa hatvyávṛṇaktuviṣváṇiḥ ǁ

    sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari |
    yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ ||

    सः । अ॒स्मै॒ । अर॑म् । बा॒हुऽभ्या॑म् । यम् । पि॒ता । अकृ॑णोत् । विश्व॑स्मात् । आ । ज॒नुषः॑ । वेद॑सः । परि॑ ।
    येन॑ । पृ॒थि॒व्याम् । नि । क्रिवि॑म् । श॒यध्यै॑ । वज्रे॑ण । ह॒त्वी । अवृ॑णक् । तु॒वि॒ऽस्वनिः॑ ॥

    सः । अस्मै । अरम् । बाहुऽभ्याम् । यम् । पिता । अकृणोत् । विश्वस्मात् । आ । जनुषः । वेदसः । परि ।
    येन । पृथिव्याम् । नि । क्रिविम् । शयध्यै । वज्रेण । हत्वी । अवृणक् । तुविऽस्वनिः ॥

    sáḥ ǀ asmai ǀ áram ǀ bāhú-bhyām ǀ yám ǀ pitā́ ǀ ákṛṇot ǀ víśvasmāt ǀ ā́ ǀ janúṣaḥ ǀ védasaḥ ǀ pári ǀ
    yéna ǀ pṛthivyā́m ǀ ní ǀ krívim ǀ śayádhyai ǀ vájreṇa ǀ hatvī́ ǀ ávṛṇak ǀ tuvi-svániḥ ǁ

    saḥ ǀ asmai ǀ aram ǀ bāhu-bhyām ǀ yam ǀ pitā ǀ akṛṇot ǀ viśvasmāt ǀ ā ǀ januṣaḥ ǀ vedasaḥ ǀ pari ǀ
    yena ǀ pṛthivyām ǀ ni ǀ krivim ǀ śayadhyai ǀ vajreṇa ǀ hatvī ǀ avṛṇak ǀ tuvi-svaniḥ ǁ

    2.17.6 Aṣṭaka 2.6.20.1Anuvāka 2.2.65

  7. Ṛk 7

    अ॒मा॒जूरि॑व पि॒त्रोः सचा॑ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भगं॑ ।
    कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॒॑ येन॑ मा॒महः॑ ॥

    अमाजूर् इव पित्रोः सचा सती समानाद् आ सदसस् त्वाम् इये भगम् |
    कृधि प्रकेतम् उप मास्य् आ भर दद्धि भागं तन्वो येन मामहः ||

    amājū́riva pitróḥ sácā satī́ samānā́dā́ sádasastvā́miye bhágam ǀ
    kṛdhí praketámúpa māsyā́ bhara daddhí bhāgám tanvó yéna māmáhaḥ ǁ

    amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam |
    kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ ||

    अ॒मा॒जूःऽइ॑व । पि॒त्रोः । सचा॑ । स॒ती । स॒मा॒नात् । आ । सद॑सः । त्वाम् । इ॒ये॒ । भग॑म् ।
    कृ॒धि । प्र॒ऽके॒तम् । उप॑ । मा॒सि॒ । आ । भ॒र॒ । द॒द्धि । भा॒गम् । त॒न्वः॑ । येन॑ । म॒महः॑ ॥

    अमाजूःऽइव । पित्रोः । सचा । सती । समानात् । आ । सदसः । त्वाम् । इये । भगम् ।
    कृधि । प्रऽकेतम् । उप । मासि । आ । भर । दद्धि । भागम् । तन्वः । येन । ममहः ॥

    amājū́ḥ-iva ǀ pitróḥ ǀ sácā ǀ satī́ ǀ samānā́t ǀ ā́ ǀ sádasaḥ ǀ tvā́m ǀ iye ǀ bhágam ǀ
    kṛdhí ǀ pra-ketám ǀ úpa ǀ māsi ǀ ā́ ǀ bhara ǀ daddhí ǀ bhāgám ǀ tanváḥ ǀ yéna ǀ mamáhaḥ ǁ

    amājūḥ-iva ǀ pitroḥ ǀ sacā ǀ satī ǀ samānāt ǀ ā ǀ sadasaḥ ǀ tvām ǀ iye ǀ bhagam ǀ
    kṛdhi ǀ pra-ketam ǀ upa ǀ māsi ǀ ā ǀ bhara ǀ daddhi ǀ bhāgam ǀ tanvaḥ ǀ yena ǀ mamahaḥ ǁ

    2.17.7 Aṣṭaka 2.6.20.2Anuvāka 2.2.66

  8. Ṛk 8

    भो॒जं त्वामिं॑द्र व॒यं हु॑वेम द॒दिष्ट्वमिं॒द्रापां॑सि॒ वाजा॑न् ।
    अ॒वि॒ड्ढीं॑द्र चि॒त्रया॑ न ऊ॒ती कृ॒धि वृ॑षन्निंद्र॒ वस्य॑सो नः ॥

    भोजं त्वाम् इन्द्र वयं हुवेम ददिष् ट्वम् इन्द्रापांसि वाजान् |
    अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्न् इन्द्र वस्यसो नः ||

    bhojám tvā́mindra vayám huvema dadíṣṭvámindrā́pāṃsi vā́jān ǀ
    aviḍḍhī́ndra citráyā na ūtī́ kṛdhí vṛṣannindra vásyaso naḥ ǁ

    bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān |
    aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣann indra vasyaso naḥ ||

    भो॒जम् । त्वाम् । इ॒न्द्र॒ । व॒यम् । हु॒वे॒म॒ । द॒दिः । त्वम् । इ॒न्द्र॒ । अपां॑सि । वाजा॑न् ।
    अ॒वि॒ड्ढि । इ॒न्द्र॒ । चि॒त्रया॑ । नः॒ । ऊ॒ती । कृ॒धि । वृ॒ष॒न् । इ॒न्द्र॒ । वस्य॑सः । नः॒ ॥

    भोजम् । त्वाम् । इन्द्र । वयम् । हुवेम । ददिः । त्वम् । इन्द्र । अपांसि । वाजान् ।
    अविड्ढि । इन्द्र । चित्रया । नः । ऊती । कृधि । वृषन् । इन्द्र । वस्यसः । नः ॥

    bhojám ǀ tvā́m ǀ indra ǀ vayám ǀ huvema ǀ dadíḥ ǀ tvám ǀ indra ǀ ápāṃsi ǀ vā́jān ǀ
    aviḍḍhí ǀ indra ǀ citráyā ǀ naḥ ǀ ūtī́ ǀ kṛdhí ǀ vṛṣan ǀ indra ǀ vásyasaḥ ǀ naḥ ǁ

    bhojam ǀ tvām ǀ indra ǀ vayam ǀ huvema ǀ dadiḥ ǀ tvam ǀ indra ǀ apāṃsi ǀ vājān ǀ
    aviḍḍhi ǀ indra ǀ citrayā ǀ naḥ ǀ ūtī ǀ kṛdhi ǀ vṛṣan ǀ indra ǀ vasyasaḥ ǀ naḥ ǁ

    2.17.8 Aṣṭaka 2.6.20.3Anuvāka 2.2.67

  9. Ṛk 9

    नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।
    शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

    नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी |
    शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ||

    nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ
    śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁ

    nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
    śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

    नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।
    शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

    नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।
    शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

    nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ
    śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

    nūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ
    śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

    2.17.9 Aṣṭaka 2.6.20.4Anuvāka 2.2.68

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.17 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

LIKE the Aṅgirases, sing this new song forth to him, for, as in ancient days, his mighty powers are shown, When in the rapture of the Soma he unclosed with strength the solid firm-shut stables of the kine.

Ṛk 2

Let him be even that God who, for the earliest draught measuring out his power, increased his majesty; Hero who fortified his body in the wars, and through his greatness set the heaven upon his head.

Ṛk 3

Thou didst perform thy first great deed of hero might what time thou showedst power, through prayer, before this folk. Hurled down by thee the car-borne Lord of Tawny Steeds, the congregated swift ones fled in sundry ways.

Ṛk 4

He made himself by might Lord of all living things, and strong in vital power waxed great above them all. He, borne on high, o’erspread with light the heaven and earth, and, sewing up the turbid darkness, closed it in.

Ṛk 5

He with his might made firm the forward-bending hills, the downward rushing of the waters he ordained. Fast he upheld the earth that nourisheth all life, and stayed the heaven from falling by his wondrous skill.

Ṛk 6

Fit for the grasping of his arms is what the Sire hath fabricated from all kind of precious wealth. The thunderbolt, wherewith, loud-roaring, he smote down, and striking him to death laid Krivi on the earth.

Ṛk 7

As she who in her parents' house is growing old, I pray to thee as Bhaga from the seat of all. Grant knowledge, mete it out and bring it to us here: give us the share wherewith thou makest people glad.

Ṛk 8

May we invoke thee as a liberal giver thou givest us, O Indra, strength and labours. Help us with manifold assistance, Indra: Mighty One, Indra, make us yet more wealthy.