Ṛk 2.17.6
Saṃhitā
सास्मा॒ अरं॑ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द्विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ ।
येना॑ पृथि॒व्यां नि क्रिविं॑ श॒यध्यै॒ वज्रे॑ण ह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ ॥
सास्मा अरम् बाहुभ्यां यम् पिताकृणोद् विश्वस्माद् आ जनुषो वेदसस् परि |
येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्य् अवृणक् तुविष्वणिः ||
sā́smā áram bāhúbhyām yám pitā́kṛṇodvíśvasmādā́ janúṣo védasaspári ǀ
yénā pṛthivyā́m ní krívim śayádhyai vájreṇa hatvyávṛṇaktuviṣváṇiḥ ǁ
sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari |
yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ ||
Padapāṭha
सः । अ॒स्मै॒ । अर॑म् । बा॒हुऽभ्या॑म् । यम् । पि॒ता । अकृ॑णोत् । विश्व॑स्मात् । आ । ज॒नुषः॑ । वेद॑सः । परि॑ ।
येन॑ । पृ॒थि॒व्याम् । नि । क्रिवि॑म् । श॒यध्यै॑ । वज्रे॑ण । ह॒त्वी । अवृ॑णक् । तु॒वि॒ऽस्वनिः॑ ॥
सः । अस्मै । अरम् । बाहुऽभ्याम् । यम् । पिता । अकृणोत् । विश्वस्मात् । आ । जनुषः । वेदसः । परि ।
येन । पृथिव्याम् । नि । क्रिविम् । शयध्यै । वज्रेण । हत्वी । अवृणक् । तुविऽस्वनिः ॥
sáḥ ǀ asmai ǀ áram ǀ bāhú-bhyām ǀ yám ǀ pitā́ ǀ ákṛṇot ǀ víśvasmāt ǀ ā́ ǀ janúṣaḥ ǀ védasaḥ ǀ pári ǀ
yéna ǀ pṛthivyā́m ǀ ní ǀ krívim ǀ śayádhyai ǀ vájreṇa ǀ hatvī́ ǀ ávṛṇak ǀ tuvi-svániḥ ǁ
saḥ ǀ asmai ǀ aram ǀ bāhu-bhyām ǀ yam ǀ pitā ǀ akṛṇot ǀ viśvasmāt ǀ ā ǀ januṣaḥ ǀ vedasaḥ ǀ pari ǀ
yena ǀ pṛthivyām ǀ ni ǀ krivim ǀ śayadhyai ǀ vajreṇa ǀ hatvī ǀ avṛṇak ǀ tuvi-svaniḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.017.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.20.01
- Maṇḍala · Anuvāka · Ṛk
- 02.02.065
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.