Ṛk 2.17.1
Saṃhitā
तद॑स्मै॒ नव्य॑मंगिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते ।
विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी॑वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ॥
तद् अस्मै नव्यम् अङ्गिरस्वद् अर्चत शुष्मा यद् अस्य प्रत्नथोदीरते |
विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्य् ऐरयत् ||
tádasmai návyamaṅgirasvádarcata śúṣmā yádasya pratnáthodī́rate ǀ
víśvā yádgotrā́ sáhasā párīvṛtā máde sómasya dṛṃhitā́nyáirayat ǁ
tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate |
viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat ||
Padapāṭha
तत् । अ॒स्मै॒ । नव्य॑म् । अ॒ङ्गि॒र॒स्वत् । अ॒र्च॒त॒ । शुष्माः॑ । यत् । अ॒स्य॒ । प्र॒त्नऽथा॑ । उ॒त्ऽईर॑ते ।
विश्वा॑ । यत् । गो॒त्रा । सह॑सा । परि॑ऽवृता । मदे॑ । सोम॑स्य । दृं॒हि॒तानि॑ । ऐर॑यत् ॥
तत् । अस्मै । नव्यम् । अङ्गिरस्वत् । अर्चत । शुष्माः । यत् । अस्य । प्रत्नऽथा । उत्ऽईरते ।
विश्वा । यत् । गोत्रा । सहसा । परिऽवृता । मदे । सोमस्य । दृंहितानि । ऐरयत् ॥
tát ǀ asmai ǀ návyam ǀ aṅgirasvát ǀ arcata ǀ śúṣmāḥ ǀ yát ǀ asya ǀ pratná-thā ǀ ut-ī́rate ǀ
víśvā ǀ yát ǀ gotrā́ ǀ sáhasā ǀ pári-vṛtā ǀ máde ǀ sómasya ǀ dṛṃhitā́ni ǀ áirayat ǁ
tat ǀ asmai ǀ navyam ǀ aṅgirasvat ǀ arcata ǀ śuṣmāḥ ǀ yat ǀ asya ǀ pratna-thā ǀ ut-īrate ǀ
viśvā ǀ yat ǀ gotrā ǀ sahasā ǀ pari-vṛtā ǀ made ǀ somasya ǀ dṛṃhitāni ǀ airayat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.017.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.19.01
- Maṇḍala · Anuvāka · Ṛk
- 02.02.060
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.