Ṛgveda · Maṇḍala 2

Sūkta 24

Brahmaṇaspati · Brahmaṇaspati, Indra · Gṛtsamada Bhārgava Śaunaka · 16 ṛks

Link
Devatā देवता
1-11, 13-16: Brahmaṇaspati; 12: Brahmaṇaspati, Indra
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles nicṛjjagatī (1, 7, 9, 11); jagatī (6, 8, 14); triṣṭup (2, 3); svarāṭtriṣṭup (4, 5); nicṛttriṣṭup (12, 16); svarāḍjagatī (10); bhurigjagatī (13); bhuriktriṣṭup (15)

2nd set of styles jagatī (1-11, 13-15); triṣṭubh (12, 16)

  1. Ṛk 1

    सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा ।
    यथा॑ नो मी॒ढ्वान्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो॑ म॒तिं ॥

    सेमाम् अविड्ढि प्रभृतिं य ईशिषे ऽया विधेम नवया महा गिरा |
    यथा नो मीढ्वान् स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ||

    sémā́maviḍḍhi prábhṛtim yá ī́śiṣe’yā́ vidhema návayā mahā́ girā́ ǀ
    yáthā no mīḍhvā́nstávate sákhā táva bṛ́haspate sī́ṣadhaḥ sótá no matím ǁ

    semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā |
    yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim ||

    सः । इ॒माम् । अ॒वि॒ड्ढि॒ । प्रऽभृ॑तिम् । यः । ईशि॑षे । अ॒या । वि॒धे॒म॒ । नव॑या । म॒हा । गि॒रा ।
    यथा॑ । नः॒ । मी॒ढ्वान् । स्तव॑ते । सखा॑ । तव॑ । बृह॑स्पते । सीस॑धः । सः । उ॒त । नः॒ । म॒तिम् ॥

    सः । इमाम् । अविड्ढि । प्रऽभृतिम् । यः । ईशिषे । अया । विधेम । नवया । महा । गिरा ।
    यथा । नः । मीढ्वान् । स्तवते । सखा । तव । बृहस्पते । सीसधः । सः । उत । नः । मतिम् ॥

    sáḥ ǀ imā́m ǀ aviḍḍhi ǀ prá-bhṛtim ǀ yáḥ ǀ ī́śiṣe ǀ ayā́ ǀ vidhema ǀ návayā ǀ mahā́ ǀ girā́ ǀ
    yáthā ǀ naḥ ǀ mīḍhvā́n ǀ stávate ǀ sákhā ǀ táva ǀ bṛ́haspate ǀ sī́sadhaḥ ǀ sáḥ ǀ utá ǀ naḥ ǀ matím ǁ

    saḥ ǀ imām ǀ aviḍḍhi ǀ pra-bhṛtim ǀ yaḥ ǀ īśiṣe ǀ ayā ǀ vidhema ǀ navayā ǀ mahā ǀ girā ǀ
    yathā ǀ naḥ ǀ mīḍhvān ǀ stavate ǀ sakhā ǀ tava ǀ bṛhaspate ǀ sīsadhaḥ ǀ saḥ ǀ uta ǀ naḥ ǀ matim ǁ

    2.24.1 Aṣṭaka 2.7.1.1Anuvāka 2.3.20

  2. Ṛk 2

    यो नंत्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शंब॑राणि॒ वि ।
    प्राच्या॑वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मंतं॒ वि पर्व॑तं ॥

    यो नन्त्वान्य् अनमन् न्य् ओजसोतादर्दर् मन्युना शम्बराणि वि |
    प्राच्यावयद् अच्युता ब्रह्मणस् पतिर् आ चाविशद् वसुमन्तं वि पर्वतम् ||

    yó nántvānyánamannyójasotā́dardarmanyúnā śámbarāṇi ví ǀ
    prā́cyāvayadácyutā bráhmaṇaspátirā́ cā́viśadvásumantam ví párvatam ǁ

    yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi |
    prācyāvayad acyutā brahmaṇas patir ā cāviśad vasumantaṃ vi parvatam ||

    यः । नन्त्वा॑नि । अन॑मत् । नि । ओज॑सा । उ॒त । अ॒द॒र्दः॒ । म॒न्युना॑ । शम्ब॑राणि । वि ।
    प्र । अ॒च्य॒व॒य॒त् । अच्यु॑ता । ब्रह्म॑णः । पतिः॑ । आ । च॒ । अवि॑शत् । वसु॑ऽमन्तम् । वि । पर्व॑तम् ॥

    यः । नन्त्वानि । अनमत् । नि । ओजसा । उत । अदर्दः । मन्युना । शम्बराणि । वि ।
    प्र । अच्यवयत् । अच्युता । ब्रह्मणः । पतिः । आ । च । अविशत् । वसुऽमन्तम् । वि । पर्वतम् ॥

    yáḥ ǀ nántvāni ǀ ánamat ǀ ní ǀ ójasā ǀ utá ǀ adardaḥ ǀ manyúnā ǀ śámbarāṇi ǀ ví ǀ
    prá ǀ acyavayat ǀ ácyutā ǀ bráhmaṇaḥ ǀ pátiḥ ǀ ā́ ǀ ca ǀ áviśat ǀ vásu-mantam ǀ ví ǀ párvatam ǁ

    yaḥ ǀ nantvāni ǀ anamat ǀ ni ǀ ojasā ǀ uta ǀ adardaḥ ǀ manyunā ǀ śambarāṇi ǀ vi ǀ
    pra ǀ acyavayat ǀ acyutā ǀ brahmaṇaḥ ǀ patiḥ ǀ ā ǀ ca ǀ aviśat ǀ vasu-mantam ǀ vi ǀ parvatam ǁ

    2.24.2 Aṣṭaka 2.7.1.2Anuvāka 2.3.21

  3. Ṛk 3

    तद्दे॒वानां॑ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नंदृ॒ळ्हाव्र॑दंत वीळि॒ता ।
    उद्गा आ॑ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू॑ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ॥

    तद् देवानां देवतमाय कर्त्वम् अश्रथ्नन् दृऌहाव्रदन्त वीऌइता |
    उद् गा आजद् अभिनद् ब्रह्मणा वलम् अगूहत् तमो व्य् अचक्षयत् स्वः ||

    táddevā́nām devátamāya kártvamáśrathnandṛḷhā́vradanta vīḷitā́ ǀ
    údgā́ ājadábhinadbráhmaṇā valámágūhattámo vyácakṣayatsváḥ ǁ

    tad devānāṃ devatamāya kartvam aśrathnan dṛḷhāvradanta vīḷitā |
    ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ ||

    तत् । दे॒वाना॑म् । दे॒वऽत॑माय । कर्त्व॑म् । अश्र॑थ्नन् । दृ॒ळ्हा । अव्र॑दन्त । वी॒ळि॒ता ।
    उत् । गाः । आ॒ज॒त् । अभि॑नत् । ब्रह्म॑णा । व॒लम् । अगू॑हत् । तमः॑ । वि । अ॒च॒क्ष॒य॒त् । स्व१॒॑रिति॑ स्वः॑ ॥

    तत् । देवानाम् । देवऽतमाय । कर्त्वम् । अश्रथ्नन् । दृळ्हा । अव्रदन्त । वीळिता ।
    उत् । गाः । आजत् । अभिनत् । ब्रह्मणा । वलम् । अगूहत् । तमः । वि । अचक्षयत् । स्वरिति स्वः ॥

    tát ǀ devā́nām ǀ devá-tamāya ǀ kártvam ǀ áśrathnan ǀ dṛḷhā́ ǀ ávradanta ǀ vīḷitā́ ǀ
    út ǀ gā́ḥ ǀ ājat ǀ ábhinat ǀ bráhmaṇā ǀ valám ǀ ágūhat ǀ támaḥ ǀ ví ǀ acakṣayat ǀ sváríti sváḥ ǁ

    tat ǀ devānām ǀ deva-tamāya ǀ kartvam ǀ aśrathnan ǀ dṛḷhā ǀ avradanta ǀ vīḷitā ǀ
    ut ǀ gāḥ ǀ ājat ǀ abhinat ǀ brahmaṇā ǀ valam ǀ agūhat ǀ tamaḥ ǀ vi ǀ acakṣayat ǀ svariti svaḥ ǁ

    2.24.3 Aṣṭaka 2.7.1.3Anuvāka 2.3.22

  4. Ṛk 4

    अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् ।
    तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिणं॑ ॥

    अश्मास्यम् अवतम् ब्रह्मणस् पतिर् मधुधारम् अभि यम् ओजसातृणत् |
    तम् एव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुर् उत्सम् उद्रिणम् ||

    áśmāsyamavatám bráhmaṇaspátirmádhudhāramabhí yámójasā́tṛṇat ǀ
    támevá víśve papire svardṛ́śo bahú sākám sisicurútsamudríṇam ǁ

    aśmāsyam avatam brahmaṇas patir madhudhāram abhi yam ojasātṛṇat |
    tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam ||

    अश्म॑ऽआस्यम् । अ॒व॒तम् । ब्रह्म॑णः । पतिः॑ । मधु॑ऽधारम् । अ॒भि । यम् । ओज॑सा । अतृ॑णत् ।
    तम् । ए॒व । विश्वे॑ । प॒पि॒रे॒ । स्वः॒ऽदृशः॑ । ब॒हु । सा॒कम् । सि॒सि॒चुः॒ । उत्स॑म् । उ॒द्रिण॑म् ॥

    अश्मऽआस्यम् । अवतम् । ब्रह्मणः । पतिः । मधुऽधारम् । अभि । यम् । ओजसा । अतृणत् ।
    तम् । एव । विश्वे । पपिरे । स्वःऽदृशः । बहु । साकम् । सिसिचुः । उत्सम् । उद्रिणम् ॥

    áśma-āsyam ǀ avatám ǀ bráhmaṇaḥ ǀ pátiḥ ǀ mádhu-dhāram ǀ abhí ǀ yám ǀ ójasā ǀ átṛṇat ǀ
    tám ǀ evá ǀ víśve ǀ papire ǀ svaḥ-dṛ́śaḥ ǀ bahú ǀ sākám ǀ sisicuḥ ǀ útsam ǀ udríṇam ǁ

    aśma-āsyam ǀ avatam ǀ brahmaṇaḥ ǀ patiḥ ǀ madhu-dhāram ǀ abhi ǀ yam ǀ ojasā ǀ atṛṇat ǀ
    tam ǀ eva ǀ viśve ǀ papire ǀ svaḥ-dṛśaḥ ǀ bahu ǀ sākam ǀ sisicuḥ ǀ utsam ǀ udriṇam ǁ

    2.24.4 Aṣṭaka 2.7.1.4Anuvāka 2.3.23

  5. Ṛk 5

    सना॒ ता का चि॒द्भुव॑ना॒ भवी॑त्वा मा॒द्भिः श॒रद्भि॒र्दुरो॑ वरंत वः ।
    अय॑तंता चरतो अ॒न्यद॑न्य॒दिद्या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ॥

    सना ता का चिद् भुवना भवीत्वा माद्भिः शरद्भिर् दुरो वरन्त वः |
    अयतन्ता चरतो अन्यद्-अन्यद् इद् या चकार वयुना ब्रह्मणस् पतिः ||

    sánā tā́ kā́ cidbhúvanā bhávītvā mādbhíḥ śarádbhirdúro varanta vaḥ ǀ
    áyatantā carato anyádanyadídyā́ cakā́ra vayúnā bráhmaṇaspátiḥ ǁ

    sanā tā kā cid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ |
    ayatantā carato anyad-anyad id yā cakāra vayunā brahmaṇas patiḥ ||

    सना॑ । ता । का । चि॒त् । भुव॑ना । भवी॑त्वा । मा॒त्ऽभिः । श॒रत्ऽभिः॑ । दुरः॑ । व॒र॒न्त॒ । वः॒ ।
    अय॑तन्ता । च॒र॒तः॒ । अ॒न्यत्ऽअ॑न्यत् । इत् । या । च॒कार॑ । व॒युना॑ । ब्रह्म॑णः । पतिः॑ ॥

    सना । ता । का । चित् । भुवना । भवीत्वा । मात्ऽभिः । शरत्ऽभिः । दुरः । वरन्त । वः ।
    अयतन्ता । चरतः । अन्यत्ऽअन्यत् । इत् । या । चकार । वयुना । ब्रह्मणः । पतिः ॥

    sánā ǀ tā́ ǀ kā́ ǀ cit ǀ bhúvanā ǀ bhávītvā ǀ māt-bhíḥ ǀ śarát-bhiḥ ǀ dúraḥ ǀ varanta ǀ vaḥ ǀ
    áyatantā ǀ carataḥ ǀ anyát-anyat ǀ ít ǀ yā́ ǀ cakā́ra ǀ vayúnā ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

    sanā ǀ tā ǀ kā ǀ cit ǀ bhuvanā ǀ bhavītvā ǀ māt-bhiḥ ǀ śarat-bhiḥ ǀ duraḥ ǀ varanta ǀ vaḥ ǀ
    ayatantā ǀ carataḥ ǀ anyat-anyat ǀ it ǀ yā ǀ cakāra ǀ vayunā ǀ brahmaṇaḥ ǀ patiḥ ǁ

    2.24.5 Aṣṭaka 2.7.1.5Anuvāka 2.3.24

  6. Ṛk 6

    अ॒भि॒नक्षं॑तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तं ।
    ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आयं॒तदुदी॑युरा॒विशं॑ ॥

    अभिनक्षन्तो अभि ये तम् आनशुर् निधिम् पणीनाम् परमं गुहा हितम् |
    ते विद्वांसः प्रतिचक्ष्यानृता पुनर् यत उ आयन् तद् उद् ईयुर् आविशम् ||

    abhinákṣanto abhí yé támānaśúrnidhím paṇīnā́m paramám gúhā hitám ǀ
    té vidvā́ṃsaḥ praticákṣyā́nṛtā púnaryáta u ā́yantádúdīyurāvíśam ǁ

    abhinakṣanto abhi ye tam ānaśur nidhim paṇīnām paramaṃ guhā hitam |
    te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam ||

    अ॒भि॒ऽनक्ष॑न्तः । अ॒भि । ये । तम् । आ॒न॒शुः । नि॒ऽधिम् । प॒णी॒नाम् । प॒र॒मम् । गुहा॑ । हि॒तम् ।
    ते । वि॒द्वांसः॑ । प्र॒ति॒ऽचक्ष्य॑ । अनृ॑ता । पुनः॑ । यतः॑ । ऊं॒ इति॑ । आय॑न् । तत् । उत् । ई॒युः॒ । आ॒ऽविश॑म् ॥

    अभिऽनक्षन्तः । अभि । ये । तम् । आनशुः । निऽधिम् । पणीनाम् । परमम् । गुहा । हितम् ।
    ते । विद्वांसः । प्रतिऽचक्ष्य । अनृता । पुनः । यतः । ऊं इति । आयन् । तत् । उत् । ईयुः । आऽविशम् ॥

    abhi-nákṣantaḥ ǀ abhí ǀ yé ǀ tám ǀ ānaśúḥ ǀ ni-dhím ǀ paṇīnā́m ǀ paramám ǀ gúhā ǀ hitám ǀ
    té ǀ vidvā́ṃsaḥ ǀ prati-cákṣya ǀ ánṛtā ǀ púnaḥ ǀ yátaḥ ǀ ūṃ íti ǀ ā́yan ǀ tát ǀ út ǀ īyuḥ ǀ ā-víśam ǁ

    abhi-nakṣantaḥ ǀ abhi ǀ ye ǀ tam ǀ ānaśuḥ ǀ ni-dhim ǀ paṇīnām ǀ paramam ǀ guhā ǀ hitam ǀ
    te ǀ vidvāṃsaḥ ǀ prati-cakṣya ǀ anṛtā ǀ punaḥ ǀ yataḥ ǀ ūṃ iti ǀ āyan ǀ tat ǀ ut ǀ īyuḥ ǀ ā-viśam ǁ

    2.24.6 Aṣṭaka 2.7.2.1Anuvāka 2.3.25

  7. Ṛk 7

    ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः ।
    ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो अ॒स्त्यर॑णो ज॒हुर्हि तं ॥

    ऋतावानः प्रतिचक्ष्यानृता पुनर् आत आ तस्थुः कवयो महस् पथः |
    ते बाहुभ्यां धमितम् अग्निम् अश्मनि नकिः षो अस्त्य् अरणो जहुर् हि तम् ||

    ṛtā́vānaḥ praticákṣyā́nṛtā púnarā́ta ā́ tasthuḥ kaváyo maháspatháḥ ǀ
    té bāhúbhyām dhamitámagnímáśmani nákiḥ ṣó astyáraṇo jahúrhí tám ǁ

    ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ |
    te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam ||

    ऋ॒तऽवा॑नः । प्र॒ति॒ऽचक्ष्य॑ । अनृ॑ता । पुनः॑ । आ । अतः॑ । आ । त॒स्थुः॒ । क॒वयः॑ । म॒हः । प॒थः ।
    ते । बा॒हुऽभ्या॑म् । ध॒मि॒तम् । अ॒ग्निम् । अश्म॑नि । नकिः॑ । सः । अ॒स्ति॒ । अर॑णः । ज॒हुः । हि । तम् ॥

    ऋतऽवानः । प्रतिऽचक्ष्य । अनृता । पुनः । आ । अतः । आ । तस्थुः । कवयः । महः । पथः ।
    ते । बाहुऽभ्याम् । धमितम् । अग्निम् । अश्मनि । नकिः । सः । अस्ति । अरणः । जहुः । हि । तम् ॥

    ṛtá-vānaḥ ǀ prati-cákṣya ǀ ánṛtā ǀ púnaḥ ǀ ā́ ǀ átaḥ ǀ ā́ ǀ tasthuḥ ǀ kaváyaḥ ǀ maháḥ ǀ patháḥ ǀ
    té ǀ bāhú-bhyām ǀ dhamitám ǀ agním ǀ áśmani ǀ nákiḥ ǀ sáḥ ǀ asti ǀ áraṇaḥ ǀ jahúḥ ǀ hí ǀ tám ǁ

    ṛta-vānaḥ ǀ prati-cakṣya ǀ anṛtā ǀ punaḥ ǀ ā ǀ ataḥ ǀ ā ǀ tasthuḥ ǀ kavayaḥ ǀ mahaḥ ǀ pathaḥ ǀ
    te ǀ bāhu-bhyām ǀ dhamitam ǀ agnim ǀ aśmani ǀ nakiḥ ǀ saḥ ǀ asti ǀ araṇaḥ ǀ jahuḥ ǀ hi ǀ tam ǁ

    2.24.7 Aṣṭaka 2.7.2.2Anuvāka 2.3.26

  8. Ṛk 8

    ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना ।
    तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥

    ऋतज्येन क्षिप्रेण ब्रह्मणस् पतिर् यत्र वष्टि प्र तद् अश्नोति धन्वना |
    तस्य साध्वीर् इषवो याभिर् अस्यति नृचक्षसो दृशये कर्णयोनयः ||

    ṛtájyena kṣipréṇa bráhmaṇaspátiryátra váṣṭi prá tádaśnoti dhánvanā ǀ
    tásya sādhvī́ríṣavo yā́bhirásyati nṛcákṣaso dṛśáye kárṇayonayaḥ ǁ

    ṛtajyena kṣipreṇa brahmaṇas patir yatra vaṣṭi pra tad aśnoti dhanvanā |
    tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ ||

    ऋ॒तऽज्ये॑न । क्षि॒प्रेण॑ । ब्रह्म॑णः । पतिः॑ । यत्र॑ । वष्टि॑ । प्र । तत् । अ॒श्नो॒ति॒ । धन्व॑ना ।
    तस्य॑ । सा॒ध्वीः । इष॑वः । याभिः॑ । अस्य॑ति । नृ॒ऽचक्ष॑सः । दृ॒शये॑ । कर्ण॑ऽयोनयः ॥

    ऋतऽज्येन । क्षिप्रेण । ब्रह्मणः । पतिः । यत्र । वष्टि । प्र । तत् । अश्नोति । धन्वना ।
    तस्य । साध्वीः । इषवः । याभिः । अस्यति । नृऽचक्षसः । दृशये । कर्णऽयोनयः ॥

    ṛtá-jyena ǀ kṣipréṇa ǀ bráhmaṇaḥ ǀ pátiḥ ǀ yátra ǀ váṣṭi ǀ prá ǀ tát ǀ aśnoti ǀ dhánvanā ǀ
    tásya ǀ sādhvī́ḥ ǀ íṣavaḥ ǀ yā́bhiḥ ǀ ásyati ǀ nṛ-cákṣasaḥ ǀ dṛśáye ǀ kárṇa-yonayaḥ ǁ

    ṛta-jyena ǀ kṣipreṇa ǀ brahmaṇaḥ ǀ patiḥ ǀ yatra ǀ vaṣṭi ǀ pra ǀ tat ǀ aśnoti ǀ dhanvanā ǀ
    tasya ǀ sādhvīḥ ǀ iṣavaḥ ǀ yābhiḥ ǀ asyati ǀ nṛ-cakṣasaḥ ǀ dṛśaye ǀ karṇa-yonayaḥ ǁ

    2.24.8 Aṣṭaka 2.7.2.3Anuvāka 2.3.27

  9. Ṛk 9

    स सं॑न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ ।
    चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनादित्सूर्य॑स्तपति तप्य॒तुर्वृथा॑ ॥

    स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस् पतिः |
    चाक्ष्मो यद् वाजम् भरते मती धनाद् इत् सूर्यस् तपति तप्यतुर् वृथा ||

    sá saṃnayáḥ sá vinayáḥ puróhitaḥ sá súṣṭutaḥ sá yudhí bráhmaṇaspátiḥ ǀ
    cākṣmó yádvā́jam bhárate matī́ dhánā́dítsū́ryastapati tapyatúrvṛ́thā ǁ

    sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇas patiḥ |
    cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā ||

    सः । स॒म्ऽन॒यः । सः । वि॒ऽन॒यः । पु॒रःऽहि॑तः । सः । सुऽस्तु॑तः । सः । यु॒धि । ब्रह्म॑णः । पतिः॑ ।
    चा॒क्ष्मः । यत् । वाज॑म् । भर॑ते । म॒ती । धना॑ । आत् । इत् । सूर्यः॑ । त॒प॒ति॒ । त॒प्य॒तुः । वृथा॑ ॥

    सः । सम्ऽनयः । सः । विऽनयः । पुरःऽहितः । सः । सुऽस्तुतः । सः । युधि । ब्रह्मणः । पतिः ।
    चाक्ष्मः । यत् । वाजम् । भरते । मती । धना । आत् । इत् । सूर्यः । तपति । तप्यतुः । वृथा ॥

    sáḥ ǀ sam-nayáḥ ǀ sáḥ ǀ vi-nayáḥ ǀ puráḥ-hitaḥ ǀ sáḥ ǀ sú-stutaḥ ǀ sáḥ ǀ yudhí ǀ bráhmaṇaḥ ǀ pátiḥ ǀ
    cākṣmáḥ ǀ yát ǀ vā́jam ǀ bhárate ǀ matī́ ǀ dhánā ǀ ā́t ǀ ít ǀ sū́ryaḥ ǀ tapati ǀ tapyatúḥ ǀ vṛ́thā ǁ

    saḥ ǀ sam-nayaḥ ǀ saḥ ǀ vi-nayaḥ ǀ puraḥ-hitaḥ ǀ saḥ ǀ su-stutaḥ ǀ saḥ ǀ yudhi ǀ brahmaṇaḥ ǀ patiḥ ǀ
    cākṣmaḥ ǀ yat ǀ vājam ǀ bharate ǀ matī ǀ dhanā ǀ āt ǀ it ǀ sūryaḥ ǀ tapati ǀ tapyatuḥ ǀ vṛthā ǁ

    2.24.9 Aṣṭaka 2.7.2.4Anuvāka 2.3.28

  10. Ṛk 10

    वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना॑वतो॒ बृह॒स्पतेः॑ सुवि॒दत्रा॑णि॒ राध्या॑ ।
    इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना॑ उ॒भये॑ भुंज॒ते विशः॑ ॥

    विभु प्रभु प्रथमम् मेहनावतो बृहस्पतेः सुविदत्राणि राध्या |
    इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ||

    vibhú prabhú prathamám mehánāvato bṛ́haspáteḥ suvidátrāṇi rā́dhyā ǀ
    imā́ sātā́ni venyásya vājíno yéna jánā ubháye bhuñjaté víśaḥ ǁ

    vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā |
    imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ ||

    वि॒ऽभु । प्र॒ऽभु । प्र॒थ॒मम् । मे॒हना॑ऽवतः । बृह॒स्पतेः॑ । सु॒ऽवि॒दत्रा॑णि । राध्या॑ ।
    इ॒मा । सा॒तानि॑ । वे॒न्यस्य॑ । वा॒जिनः॑ । येन॑ । जनाः॑ । उ॒भये॑ । भु॒ञ्ज॒ते । विशः॑ ॥

    विऽभु । प्रऽभु । प्रथमम् । मेहनाऽवतः । बृहस्पतेः । सुऽविदत्राणि । राध्या ।
    इमा । सातानि । वेन्यस्य । वाजिनः । येन । जनाः । उभये । भुञ्जते । विशः ॥

    vi-bhú ǀ pra-bhú ǀ prathamám ǀ mehánā-vataḥ ǀ bṛ́haspáteḥ ǀ su-vidátrāṇi ǀ rā́dhyā ǀ
    imā́ ǀ sātā́ni ǀ venyásya ǀ vājínaḥ ǀ yéna ǀ jánāḥ ǀ ubháye ǀ bhuñjaté ǀ víśaḥ ǁ

    vi-bhu ǀ pra-bhu ǀ prathamam ǀ mehanā-vataḥ ǀ bṛhaspateḥ ǀ su-vidatrāṇi ǀ rādhyā ǀ
    imā ǀ sātāni ǀ venyasya ǀ vājinaḥ ǀ yena ǀ janāḥ ǀ ubhaye ǀ bhuñjate ǀ viśaḥ ǁ

    2.24.10 Aṣṭaka 2.7.2.5Anuvāka 2.3.29

  11. Ṛk 11

    योऽव॑रे वृ॒जने॑ वि॒श्वथा॑ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ ।
    स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ॥

    यो ऽवरे वृजने विश्वथा विभुर् महाम् उ रण्वः शवसा ववक्षिथ |
    स देवो देवान् प्रति पप्रथे पृथु विश्वेद् उ ता परिभूर् ब्रह्मणस् पतिः ||

    yó’vare vṛjáne viśváthā vibhúrmahā́mu raṇváḥ śávasā vavákṣitha ǀ
    sá devó devā́npráti paprathe pṛthú víśvédu tā́ paribhū́rbráhmaṇaspátiḥ ǁ

    yo 'vare vṛjane viśvathā vibhur mahām u raṇvaḥ śavasā vavakṣitha |
    sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇas patiḥ ||

    यः । अव॑रे । वृ॒जने॑ । वि॒श्वऽथा॑ । वि॒ऽभुः । म॒हाम् । ऊं॒ इति॑ । र॒ण्वः । शव॑सा । व॒वक्षि॑थ ।
    सः । दे॒वः । दे॒वान् । प्रति॑ । प॒प्र॒थे॒ । पृ॒थु । विश्वा॑ । इत् । ऊं॒ इति॑ । ता । प॒रि॒ऽभूः । ब्रह्म॑णः । पतिः॑ ॥

    यः । अवरे । वृजने । विश्वऽथा । विऽभुः । महाम् । ऊं इति । रण्वः । शवसा । ववक्षिथ ।
    सः । देवः । देवान् । प्रति । पप्रथे । पृथु । विश्वा । इत् । ऊं इति । ता । परिऽभूः । ब्रह्मणः । पतिः ॥

    yáḥ ǀ ávare ǀ vṛjáne ǀ viśvá-thā ǀ vi-bhúḥ ǀ mahā́m ǀ ūṃ íti ǀ raṇváḥ ǀ śávasā ǀ vavákṣitha ǀ
    sáḥ ǀ deváḥ ǀ devā́n ǀ práti ǀ paprathe ǀ pṛthú ǀ víśvā ǀ ít ǀ ūṃ íti ǀ tā́ ǀ pari-bhū́ḥ ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

    yaḥ ǀ avare ǀ vṛjane ǀ viśva-thā ǀ vi-bhuḥ ǀ mahām ǀ ūṃ iti ǀ raṇvaḥ ǀ śavasā ǀ vavakṣitha ǀ
    saḥ ǀ devaḥ ǀ devān ǀ prati ǀ paprathe ǀ pṛthu ǀ viśvā ǀ it ǀ ūṃ iti ǀ tā ǀ pari-bhūḥ ǀ brahmaṇaḥ ǀ patiḥ ǁ

    2.24.11 Aṣṭaka 2.7.3.1Anuvāka 2.3.30

  12. Ṛk 12

    विश्वं॑ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नंति व्र॒तं वां॑ ।
    अच्छें॑द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे॑व वा॒जिना॑ जिगातं ॥

    विश्वं सत्यम् मघवाना युवोर् इद् आपश् चन प्र मिनन्ति व्रतं वाम् |
    अच्छेन्द्राब्रह्मणस्पती हविर् नो ऽन्नं युजेव वाजिना जिगातम् ||

    víśvam satyám maghavānā yuvórídā́paścaná prá minanti vratám vām ǀ
    ácchendrābrahmaṇaspatī havírnó’nnam yújeva vājínā jigātam ǁ

    viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām |
    acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam ||

    विश्व॑म् । स॒त्यम् । म॒घ॒ऽवा॒ना॒ । यु॒वोः । इत् । आपः॑ । च॒न । प्र । मि॒न॒न्ति॒ । व्र॒तम् । वा॒म् ।
    अच्छ॑ । इ॒न्द्रा॒ब्र॒ह्म॒ण॒स्प॒ती॒ इति॑ । ह॒विः । नः॒ । अन्न॑म् । युजा॑ऽइव । वा॒जिना॑ । जि॒गा॒त॒म् ॥

    विश्वम् । सत्यम् । मघऽवाना । युवोः । इत् । आपः । चन । प्र । मिनन्ति । व्रतम् । वाम् ।
    अच्छ । इन्द्राब्रह्मणस्पती इति । हविः । नः । अन्नम् । युजाऽइव । वाजिना । जिगातम् ॥

    víśvam ǀ satyám ǀ magha-vānā ǀ yuvóḥ ǀ ít ǀ ā́paḥ ǀ caná ǀ prá ǀ minanti ǀ vratám ǀ vām ǀ
    áccha ǀ indrābrahmaṇaspatī íti ǀ havíḥ ǀ naḥ ǀ ánnam ǀ yújā-iva ǀ vājínā ǀ jigātam ǁ

    viśvam ǀ satyam ǀ magha-vānā ǀ yuvoḥ ǀ it ǀ āpaḥ ǀ cana ǀ pra ǀ minanti ǀ vratam ǀ vām ǀ
    accha ǀ indrābrahmaṇaspatī iti ǀ haviḥ ǀ naḥ ǀ annam ǀ yujā-iva ǀ vājinā ǀ jigātam ǁ

    2.24.12 Aṣṭaka 2.7.3.2Anuvāka 2.3.31

  13. Ṛk 13

    उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वंति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑ ।
    वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ॥

    उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना |
    वीऌउद्वेषा अनु वश ऋणम् आददिः स ह वाजी समिथे ब्रह्मणस् पतिः ||

    utā́śiṣṭhā ánu śṛṇvanti váhnayaḥ sabhéyo vípro bharate matī́ dhánā ǀ
    vīḷudvéṣā ánu váśa ṛṇámādadíḥ sá ha vājī́ samithé bráhmaṇaspátiḥ ǁ

    utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā |
    vīḷudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇas patiḥ ||

    उ॒त । आशि॑ष्ठाः । अनु॑ । शृ॒ण्व॒न्ति॒ । वह्न॑यः । स॒भेयः॑ । विप्रः॑ । भ॒र॒ते॒ । म॒ती । धना॑ ।
    वी॒ळु॒ऽद्वेषाः॑ । अनु॑ । वशा॑ । ऋ॒णम् । आ॒ऽद॒दिः । सः । ह॒ । वा॒जी । स॒म्ऽइ॒थे । ब्रह्म॑णः । पतिः॑ ॥

    उत । आशिष्ठाः । अनु । शृण्वन्ति । वह्नयः । सभेयः । विप्रः । भरते । मती । धना ।
    वीळुऽद्वेषाः । अनु । वशा । ऋणम् । आऽददिः । सः । ह । वाजी । सम्ऽइथे । ब्रह्मणः । पतिः ॥

    utá ǀ ā́śiṣṭhāḥ ǀ ánu ǀ śṛṇvanti ǀ váhnayaḥ ǀ sabhéyaḥ ǀ vípraḥ ǀ bharate ǀ matī́ ǀ dhánā ǀ
    vīḷu-dvéṣāḥ ǀ ánu ǀ váśā ǀ ṛṇám ǀ ā-dadíḥ ǀ sáḥ ǀ ha ǀ vājī́ ǀ sam-ithé ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

    uta ǀ āśiṣṭhāḥ ǀ anu ǀ śṛṇvanti ǀ vahnayaḥ ǀ sabheyaḥ ǀ vipraḥ ǀ bharate ǀ matī ǀ dhanā ǀ
    vīḷu-dveṣāḥ ǀ anu ǀ vaśā ǀ ṛṇam ǀ ā-dadiḥ ǀ saḥ ǀ ha ǀ vājī ǀ sam-ithe ǀ brahmaṇaḥ ǀ patiḥ ǁ

    2.24.13 Aṣṭaka 2.7.3.3Anuvāka 2.3.32

  14. Ṛk 14

    ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः ।
    यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ॥

    ब्रह्मणस् पतेर् अभवद् यथावशं सत्यो मन्युर् महि कर्मा करिष्यतः |
    यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक् ||

    bráhmaṇaspáterabhavadyathāvaśám satyó manyúrmáhi kármā kariṣyatáḥ ǀ
    yó gā́ udā́jatsá divé ví cābhajanmahī́va rītíḥ śávasāsaratpṛ́thak ǁ

    brahmaṇas pater abhavad yathāvaśaṃ satyo manyur mahi karmā kariṣyataḥ |
    yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak ||

    ब्रह्म॑णः । पतेः॑ । अ॒भ॒व॒त् । य॒था॒ऽव॒शम् । स॒त्यः । म॒न्युः । महि॑ । कर्म॑ । क॒रि॒ष्य॒तः ।
    यः । गाः । उ॒त्ऽआज॑त् । सः । दि॒वे । वि । च॒ । अ॒भ॒ज॒त् । म॒हीऽइ॑व । री॒तिः । शव॑सा । अ॒स॒र॒त् । पृथ॑क् ॥

    ब्रह्मणः । पतेः । अभवत् । यथाऽवशम् । सत्यः । मन्युः । महि । कर्म । करिष्यतः ।
    यः । गाः । उत्ऽआजत् । सः । दिवे । वि । च । अभजत् । महीऽइव । रीतिः । शवसा । असरत् । पृथक् ॥

    bráhmaṇaḥ ǀ páteḥ ǀ abhavat ǀ yathā-vaśám ǀ satyáḥ ǀ manyúḥ ǀ máhi ǀ kárma ǀ kariṣyatáḥ ǀ
    yáḥ ǀ gā́ḥ ǀ ut-ā́jat ǀ sáḥ ǀ divé ǀ ví ǀ ca ǀ abhajat ǀ mahī́-iva ǀ rītíḥ ǀ śávasā ǀ asarat ǀ pṛ́thak ǁ

    brahmaṇaḥ ǀ pateḥ ǀ abhavat ǀ yathā-vaśam ǀ satyaḥ ǀ manyuḥ ǀ mahi ǀ karma ǀ kariṣyataḥ ǀ
    yaḥ ǀ gāḥ ǀ ut-ājat ǀ saḥ ǀ dive ǀ vi ǀ ca ǀ abhajat ǀ mahī-iva ǀ rītiḥ ǀ śavasā ǀ asarat ǀ pṛthak ǁ

    2.24.14 Aṣṭaka 2.7.3.4Anuvāka 2.3.33

  15. Ṛk 15

    ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः ।
    वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हवं॑ ॥

    ब्रह्मणस् पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः |
    वीरेषु वीरां उप पृङ्धि नस् त्वं यद् ईशानो ब्रह्मणा वेषि मे हवम् ||

    bráhmaṇaspate suyámasya viśváhā rāyáḥ syāma rathyó váyasvataḥ ǀ
    vīréṣu vīrā́m̐ úpa pṛṅdhi nastvám yádī́śāno bráhmaṇā véṣi me hávam ǁ

    brahmaṇas pate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ |
    vīreṣu vīrāṃ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam ||

    ब्रह्म॑णः । प॒ते॒ । सु॒ऽयम॑स्य । वि॒श्वहा॑ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः ।
    वी॒रेषु॑ । वी॒रान् । उप॑ । पृ॒ङ्धि॒ । नः॒ । त्वम् । यत् । ईशा॑नः । ब्रह्म॑णा । वेषि॑ । मे॒ । हव॑म् ॥

    ब्रह्मणः । पते । सुऽयमस्य । विश्वहा । रायः । स्याम । रथ्यः । वयस्वतः ।
    वीरेषु । वीरान् । उप । पृङ्धि । नः । त्वम् । यत् । ईशानः । ब्रह्मणा । वेषि । मे । हवम् ॥

    bráhmaṇaḥ ǀ pate ǀ su-yámasya ǀ viśváhā ǀ rāyáḥ ǀ syāma ǀ rathyáḥ ǀ váyasvataḥ ǀ
    vīréṣu ǀ vīrā́n ǀ úpa ǀ pṛṅdhi ǀ naḥ ǀ tvám ǀ yát ǀ ī́śānaḥ ǀ bráhmaṇā ǀ véṣi ǀ me ǀ hávam ǁ

    brahmaṇaḥ ǀ pate ǀ su-yamasya ǀ viśvahā ǀ rāyaḥ ǀ syāma ǀ rathyaḥ ǀ vayasvataḥ ǀ
    vīreṣu ǀ vīrān ǀ upa ǀ pṛṅdhi ǀ naḥ ǀ tvam ǀ yat ǀ īśānaḥ ǀ brahmaṇā ǀ veṣi ǀ me ǀ havam ǁ

    2.24.15 Aṣṭaka 2.7.3.5Anuvāka 2.3.34

  16. Ṛk 16

    ब्रह्म॑णस्पते॒ त्वम॒स्य यं॒ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
    विश्वं॒ तद्भ॒द्रं यदवं॑ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

    ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व |
    विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ||

    bráhmaṇaspate tvámasyá yantā́ sūktásya bodhi tánayam ca jinva ǀ
    víśvam tádbhadrám yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

    brahmaṇas pate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva |
    viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ ||

    ब्रह्म॑णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒ऽउ॒क्तस्य॑ । बो॒धि॒ । तन॑यम् । च॒ । जि॒न्व॒ ।
    विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

    ब्रह्मणः । पते । त्वम् । अस्य । यन्ता । सुऽउक्तस्य । बोधि । तनयम् । च । जिन्व ।
    विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

    bráhmaṇaḥ ǀ pate ǀ tvám ǀ asyá ǀ yantā́ ǀ su-uktásya ǀ bodhi ǀ tánayam ǀ ca ǀ jinva ǀ
    víśvam ǀ tát ǀ bhadrám ǀ yát ǀ ávanti ǀ devā́ḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

    brahmaṇaḥ ǀ pate ǀ tvam ǀ asya ǀ yantā ǀ su-uktasya ǀ bodhi ǀ tanayam ǀ ca ǀ jinva ǀ
    viśvam ǀ tat ǀ bhadram ǀ yat ǀ avanti ǀ devāḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

    2.24.16 Aṣṭaka 2.7.3.6Anuvāka 2.3.35

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.24 · Brahmaṇaspati · Brahmaṇaspati, Indra

Interpretations

Sri Aurobindo

Ṛk 1

Manifest (create) then for us this full-bringing, thou who hast the power, and let us dispose for thee the sacrifice by this new and mighty Word; so do thou perfect for us, O Brihaspati, our thinking that he, thy bounteous Friend, may be confirmed in us by the praise.

Ṛk 2

He who forceth to bow down by his might all that must be bent and tore asunder by force of heart the illusions that destroy, Brahmanaspati manifested the supreme and immutable things; he entered wholly into the hill of substance.

Ṛk 3

That for the most divine of the divine gods is the thing to be done; all that was firm, fell to pieces, all that was strong and hard, grew malleable and soft; he drove upward the cows of light, he broke the wall, Vala, by the soul-thought, he concealed the darkness and made the Heaven of mind visible to our eyes.

Ṛk 4

The stone-faced pit that Brahmanaspati cleft open in his force, whose flowing waters are of honey, of that all they have drunk who see that Heaven; together they pour down its rich and high-billowing fountain.

Ṛk 5

There are there some eternal worlds that have yet to be for us, but by the months and the years their doors have been shut on you; these two at least act one and the other without striving or effort, the two which Brahmanaspati has revealed.

Ṛk 6

They who journey to him, enjoy the supreme treasure of the Panis, the lords of active sense, which is hidden in the secret places of being, they get the knowledge, they distinguish by their gaze all untruths and to the place whence they came, they go up again till they enter in.

Ṛk 7

They have the Truth and their gaze discerns the untruths of the world and they depart back hence as seers to the path of Mahas; they verily in their arms have cast Agni blown up to greatness in this hill; for there is no other labourer in this work, but only he.

Ṛk 8

Brahmanaspati by his swift bow of which the string is the Truth, enjoys all whatsoever on which he placeth his desire; effective are his arrows of impulsion with which he shoots, they are strong-of-eye for the divine vision, they are wombs of the divine hearing.

Ṛk 9

He placed in front bringeth together, he leadeth to their different places, he is the perfectly established, it is he in the battle, even Brahmanaspati; manifested in the vision when by the thought of the mind he bringeth substance to us and possessings, then indeed Surya burneth supremely with his heat and force.

Ṛk 10

Existent widely in all and existent in front of us these are the delightful perfections of knowledge of Brahmanaspati when first he raineth his blessings, these are the winnings of this lord of joy and substance, by whom both the peoples of earth and heaven enjoy the two Births.

Ṛk 11

Thou who becomest pervadingly and in allways in the lower crookednesses, art also he who bearest up rapturously the Vast by his force. So Brahmanaspati extendeth himself vastly a god towards the gods and round about all those objects he encompasseth them with his being.

Ṛk 12

All truth is yours indeed, O ye two full and mighty Ones, and the waters of being cannot contain or measure your action. Come ye, O Indra and Brihaspati, like two steeds in one yoke, towards our material being that we make into offering.

Ṛk 13

Swiftest bearers of our sacrifice have audience of knowledge according (to your law of action), and the illumined soul in its hall of wisdom gathereth him rich possessions by thought of the mind; a foe to strong fixities he taketh according to the motion of his desire; verily, he is our steed in the shock, even Brahmanaspati.

Ṛk 14

All happeneth according to the desire of Brahmanaspati, true is his heart’s motion when he meaneth to do his mighty work, he who drove upward the cows of Light and divided them for the Heaven; it was as if a vast and wide stream flowed out in its force in separate currents.

Ṛk 15

O Brahmanaspati, let us be charioted utterly in a felicity perfectly controlled and having the wideness; heap for us mights upon mights when, lord by the soul, thou comest to my calling.

Ṛk 16

O Brahmanaspati, do thou awaken to this perfect expression of us as its controller and rejoice in our extension; all that is blessed which the gods bring into being. May we express the vastness becoming perfect-energied-in-knowledge.