Ṛgveda · Maṇḍala 2

Sūkta 3

Agni · Gṛtsamada Bhārgava Śaunaka · 11 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Triṣṭubh, Jagatī
Metres by ṛk

1st set of styles bhuriktriṣṭup (3, 5, 6); nicṛttriṣṭup (4, 9, 11); virāṭtrisṭup (1, 2); triṣṭup (8, 10); jagatī (7)

2nd set of styles triṣṭubh (1-6, 8-11); jagatī (7)

  1. Ṛk 1

    समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ् विश्वा॑नि॒ भुव॑नान्यस्थात् ।
    होता॑ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥

    समिद्धो अग्निर् निहितः पृथिव्याम् प्रत्यङ् विश्वानि भुवनान्य् अस्थात् |
    होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्व् अग्निर् अर्हन् ||

    sámiddho agnírníhitaḥ pṛthivyā́m pratyáṅ víśvāni bhúvanānyasthāt ǀ
    hótā pāvakáḥ pradívaḥ sumedhā́ devó devā́nyajatvagnírárhan ǁ

    samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt |
    hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan ||

    सम्ऽइ॑द्धः । अ॒ग्निः । निऽहि॑तः । पृ॒थि॒व्याम् । प्र॒त्यङ् । विश्वा॑नि । भुव॑नानि । अ॒स्था॒त् ।
    होता॑ । पा॒व॒कः । प्र॒ऽदिवः॑ । सु॒ऽमे॒धाः । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥

    सम्ऽइद्धः । अग्निः । निऽहितः । पृथिव्याम् । प्रत्यङ् । विश्वानि । भुवनानि । अस्थात् ।
    होता । पावकः । प्रऽदिवः । सुऽमेधाः । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥

    sám-iddhaḥ ǀ agníḥ ǀ ní-hitaḥ ǀ pṛthivyā́m ǀ pratyáṅ ǀ víśvāni ǀ bhúvanāni ǀ asthāt ǀ
    hótā ǀ pāvakáḥ ǀ pra-dívaḥ ǀ su-medhā́ḥ ǀ deváḥ ǀ devā́n ǀ yajatu ǀ agníḥ ǀ árhan ǁ

    sam-iddhaḥ ǀ agniḥ ǀ ni-hitaḥ ǀ pṛthivyām ǀ pratyaṅ ǀ viśvāni ǀ bhuvanāni ǀ asthāt ǀ
    hotā ǀ pāvakaḥ ǀ pra-divaḥ ǀ su-medhāḥ ǀ devaḥ ǀ devān ǀ yajatu ǀ agniḥ ǀ arhan ǁ

    2.3.1 Aṣṭaka 2.5.22.1Anuvāka 2.1.30

  2. Ṛk 2

    नरा॒शंसः॒ प्रति॒ धामा॑न्यं॒जन् ति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः ।
    घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमुं॒दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥

    नराशंसः प्रति धामान्य् अञ्जन् तिस्रो दिवः प्रति मह्ना स्वर्चिः |
    घृतप्रुषा मनसा हव्यम् उन्दन् मूर्धन् यज्ञस्य सम् अनक्तु देवान् ||

    nárāśáṃsaḥ práti dhā́mānyañján tisró dívaḥ práti mahnā́ svarcíḥ ǀ
    ghṛtaprúṣā mánasā havyámundánmūrdhányajñásya sámanaktu devā́n ǁ

    narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ |
    ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān ||

    नरा॒शंसः॑ । प्रति॑ । धामा॑नि । अ॒ञ्जन् । ति॒स्रः । दिवः॑ । प्रति॑ । म॒ह्ना । सु॒ऽअ॒र्चिः ।
    घृ॒त॒ऽप्रुषा॑ । मन॑सा । ह॒व्यम् । उ॒न्दन् । मू॒र्धन् । य॒ज्ञस्य॑ । सम् । अ॒न॒क्तु॒ । दे॒वान् ॥

    नराशंसः । प्रति । धामानि । अञ्जन् । तिस्रः । दिवः । प्रति । मह्ना । सुऽअर्चिः ।
    घृतऽप्रुषा । मनसा । हव्यम् । उन्दन् । मूर्धन् । यज्ञस्य । सम् । अनक्तु । देवान् ॥

    nárāśáṃsaḥ ǀ práti ǀ dhā́māni ǀ añján ǀ tisráḥ ǀ dívaḥ ǀ práti ǀ mahnā́ ǀ su-arcíḥ ǀ
    ghṛta-prúṣā ǀ mánasā ǀ havyám ǀ undán ǀ mūrdhán ǀ yajñásya ǀ sám ǀ anaktu ǀ devā́n ǁ

    narāśaṃsaḥ ǀ prati ǀ dhāmāni ǀ añjan ǀ tisraḥ ǀ divaḥ ǀ prati ǀ mahnā ǀ su-arciḥ ǀ
    ghṛta-pruṣā ǀ manasā ǀ havyam ǀ undan ǀ mūrdhan ǀ yajñasya ǀ sam ǀ anaktu ǀ devān ǁ

    2.3.2 Aṣṭaka 2.5.22.2Anuvāka 2.1.31

  3. Ṛk 3

    ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्हं॑दे॒वान्य॑क्षि॒ मानु॑षा॒त्पूर्वो॑ अ॒द्य ।
    स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिंद्रं॑ नरो बर्हि॒षदं॑ यजध्वं ॥

    ईऌइतो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो अद्य |
    स आ वह मरुतां शर्धो अच्युतम् इन्द्रं नरो बर्हिषदं यजध्वम् ||

    īḷitó agne mánasā no árhandevā́nyakṣi mā́nuṣātpū́rvo adyá ǀ
    sá ā́ vaha marútām śárdho ácyutamíndram naro barhiṣádam yajadhvam ǁ

    īḷito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya |
    sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam ||

    ई॒ळि॒तः । अ॒ग्ने॒ । मन॑सा । नः॒ । अर्ह॑न् । दे॒वान् । य॒क्षि॒ । मानु॑षात् । पूर्वः॑ । अ॒द्य ।
    सः । आ । व॒ह॒ । म॒रुता॑म् । शर्धः॑ । अच्यु॑तम् । इन्द्र॑म् । न॒रः॒ । ब॒र्हि॒ऽसद॑म् । य॒ज॒ध्व॒म् ॥

    ईळितः । अग्ने । मनसा । नः । अर्हन् । देवान् । यक्षि । मानुषात् । पूर्वः । अद्य ।
    सः । आ । वह । मरुताम् । शर्धः । अच्युतम् । इन्द्रम् । नरः । बर्हिऽसदम् । यजध्वम् ॥

    īḷitáḥ ǀ agne ǀ mánasā ǀ naḥ ǀ árhan ǀ devā́n ǀ yakṣi ǀ mā́nuṣāt ǀ pū́rvaḥ ǀ adyá ǀ
    sáḥ ǀ ā́ ǀ vaha ǀ marútām ǀ śárdhaḥ ǀ ácyutam ǀ índram ǀ naraḥ ǀ barhi-sádam ǀ yajadhvam ǁ

    īḷitaḥ ǀ agne ǀ manasā ǀ naḥ ǀ arhan ǀ devān ǀ yakṣi ǀ mānuṣāt ǀ pūrvaḥ ǀ adya ǀ
    saḥ ǀ ā ǀ vaha ǀ marutām ǀ śardhaḥ ǀ acyutam ǀ indram ǀ naraḥ ǀ barhi-sadam ǀ yajadhvam ǁ

    2.3.3 Aṣṭaka 2.5.22.3Anuvāka 2.1.32

  4. Ṛk 4

    देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्यां ।
    घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥

    देव बर्हिर् वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्य् अस्याम् |
    घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ||

    déva barhirvárdhamānam suvī́ram stīrṇám rāyé subháram védyasyā́m ǀ
    ghṛténāktám vasavaḥ sīdatedám víśve devā ādityā yajñíyāsaḥ ǁ

    deva barhir vardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedy asyām |
    ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ ||

    देव॑ । ब॒र्हिः॒ । वर्ध॑मानम् । सु॒ऽवीर॑म् । स्ती॒र्णम् । रा॒ये । सु॒ऽभर॑म् । वेदी॒ इति॑ । अ॒स्याम् ।
    घृ॒तेन॑ । अ॒क्तम् । व॒स॒वः॒ । सी॒द॒त॒ । इ॒दम् । विश्वे॑ । दे॒वाः॒ । आ॒दि॒त्याः॒ । य॒ज्ञिया॑सः ॥

    देव । बर्हिः । वर्धमानम् । सुऽवीरम् । स्तीर्णम् । राये । सुऽभरम् । वेदी इति । अस्याम् ।
    घृतेन । अक्तम् । वसवः । सीदत । इदम् । विश्वे । देवाः । आदित्याः । यज्ञियासः ॥

    déva ǀ barhiḥ ǀ várdhamānam ǀ su-vī́ram ǀ stīrṇám ǀ rāyé ǀ su-bháram ǀ védī íti ǀ asyā́m ǀ
    ghṛténa ǀ aktám ǀ vasavaḥ ǀ sīdata ǀ idám ǀ víśve ǀ devāḥ ǀ ādityāḥ ǀ yajñíyāsaḥ ǁ

    deva ǀ barhiḥ ǀ vardhamānam ǀ su-vīram ǀ stīrṇam ǀ rāye ǀ su-bharam ǀ vedī iti ǀ asyām ǀ
    ghṛtena ǀ aktam ǀ vasavaḥ ǀ sīdata ǀ idam ǀ viśve ǀ devāḥ ǀ ādityāḥ ǀ yajñiyāsaḥ ǁ

    2.3.4 Aṣṭaka 2.5.22.4Anuvāka 2.1.33

  5. Ṛk 5

    वि श्र॑यंतामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः ।
    व्यच॑स्वती॒र्वि प्र॑थंतामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीरं॑ ॥

    वि श्रयन्ताम् उर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः |
    व्यचस्वतीर् वि प्रथन्ताम् अजुर्या वर्णम् पुनाना यशसं सुवीरम् ||

    ví śrayantāmurviyā́ hūyámānā dvā́ro devī́ḥ suprāyaṇā́ námobhiḥ ǀ
    vyácasvatīrví prathantāmajuryā́ várṇam punānā́ yaśásam suvī́ram ǁ

    vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ |
    vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram ||

    वि । श्र॑यन्ताम् । उ॒र्वि॒या । हू॒यमा॑नाः । द्वारः॑ । दे॒वीः । सु॒प्र॒ऽअ॒य॒नाः । नमः॑ऽभिः ।
    व्यच॑स्वतीः । वि । प्र॒थ॒न्ता॒म् । अ॒जु॒र्याः । वर्ण॑म् । पु॒ना॒नाः । य॒शस॑म् । सु॒ऽवीर॑म् ॥

    वि । श्रयन्ताम् । उर्विया । हूयमानाः । द्वारः । देवीः । सुप्रऽअयनाः । नमःऽभिः ।
    व्यचस्वतीः । वि । प्रथन्ताम् । अजुर्याः । वर्णम् । पुनानाः । यशसम् । सुऽवीरम् ॥

    ví ǀ śráyantām ǀ urviyā́ ǀ hūyámānāḥ ǀ dvā́raḥ ǀ devī́ḥ ǀ supra-ayanā́ḥ ǀ námaḥ-bhiḥ ǀ
    vyácasvatīḥ ǀ ví ǀ prathantām ǀ ajuryā́ḥ ǀ várṇam ǀ punānā́ḥ ǀ yaśásam ǀ su-vī́ram ǁ

    vi ǀ śrayantām ǀ urviyā ǀ hūyamānāḥ ǀ dvāraḥ ǀ devīḥ ǀ supra-ayanāḥ ǀ namaḥ-bhiḥ ǀ
    vyacasvatīḥ ǀ vi ǀ prathantām ǀ ajuryāḥ ǀ varṇam ǀ punānāḥ ǀ yaśasam ǀ su-vīram ǁ

    2.3.5 Aṣṭaka 2.5.22.5Anuvāka 2.1.34

  6. Ṛk 6

    सा॒ध्वपां॑सि स॒नता॑ न उक्षि॒ते उ॒षासा॒नक्ता॑ व॒य्ये॑व रण्वि॒ते ।
    तंतुं॑ त॒तं सं॒वयं॑ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ॥

    साध्व् अपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते |
    तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ||

    sādhvápāṃsi sanátā na ukṣité uṣā́sānáktā vayyéva raṇvité ǀ
    tántum tatám saṃváyantī samīcī́ yajñásya péśaḥ sudúghe páyasvatī ǁ

    sādhv apāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite |
    tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī ||

    सा॒धु । अपां॑सि । स॒नता॑ । नः॒ । उ॒क्षि॒ते इति॑ । उ॒षसा॒नक्ता॑ । व॒य्या॑ऽइव । र॒ण्वि॒ते इति॑ ।
    तन्तु॑म् । त॒तम् । सं॒वय॑न्ती॒ इति॑ स॒म्ऽवय॑न्ती । स॒मी॒ची इति॑ स॒म्ऽई॒ची । य॒ज्ञस्य॑ । पेशः॑ । सु॒दुघे॒ इति॑ सु॒ऽदुघे॑ । पय॑स्वती॒ इति॑ ॥

    साधु । अपांसि । सनता । नः । उक्षिते इति । उषसानक्ता । वय्याऽइव । रण्विते इति ।
    तन्तुम् । ततम् । संवयन्ती इति सम्ऽवयन्ती । समीची इति सम्ऽईची । यज्ञस्य । पेशः । सुदुघे इति सुऽदुघे । पयस्वती इति ॥

    sādhú ǀ ápāṃsi ǀ sanátā ǀ naḥ ǀ ukṣité íti ǀ uṣásānáktā ǀ vayyā́-iva ǀ raṇvité íti ǀ
    tántum ǀ tatám ǀ saṃváyantī íti sam-váyantī ǀ samīcī́ íti sam-īcī́ ǀ yajñásya ǀ péśaḥ ǀ sudúghe íti su-dúghe ǀ páyasvatī íti ǁ

    sādhu ǀ apāṃsi ǀ sanatā ǀ naḥ ǀ ukṣite iti ǀ uṣasānaktā ǀ vayyā-iva ǀ raṇvite iti ǀ
    tantum ǀ tatam ǀ saṃvayantī iti sam-vayantī ǀ samīcī iti sam-īcī ǀ yajñasya ǀ peśaḥ ǀ sudughe iti su-dughe ǀ payasvatī iti ǁ

    2.3.6 Aṣṭaka 2.5.23.1Anuvāka 2.1.35

  7. Ṛk 7

    दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा ।
    दे॒वान्यजं॑तावृतु॒था समं॑जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ॥

    दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः सम् ऋचा वपुष्टरा |
    देवान् यजन्ताव् ऋतुथा सम् अञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ||

    dáivyā hótārā prathamā́ vidúṣṭara ṛjú yakṣataḥ sámṛcā́ vapúṣṭarā ǀ
    devā́nyájantāvṛtuthā́ sámañjato nā́bhā pṛthivyā́ ádhi sā́nuṣu triṣú ǁ

    daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ sam ṛcā vapuṣṭarā |
    devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu ||

    दैव्या॑ । होता॑रा । प्र॒थ॒मा । वि॒दुःऽत॑रा । ऋ॒जु । य॒क्ष॒तः॒ । सम् । ऋ॒चा । व॒पुःऽत॑रा ।
    दे॒वान् । यज॑न्तौ । ऋ॒तु॒ऽथा । सम् । अ॒ञ्ज॒तः॒ । नाभा॑ । पृ॒थि॒व्याः । अधि॑ । सानु॑षु । त्रि॒षु ॥

    दैव्या । होतारा । प्रथमा । विदुःऽतरा । ऋजु । यक्षतः । सम् । ऋचा । वपुःऽतरा ।
    देवान् । यजन्तौ । ऋतुऽथा । सम् । अञ्जतः । नाभा । पृथिव्याः । अधि । सानुषु । त्रिषु ॥

    dáivyā ǀ hótārā ǀ prathamā́ ǀ vidúḥ-tarā ǀ ṛjú ǀ yakṣataḥ ǀ sám ǀ ṛcā́ ǀ vapúḥ-tarā ǀ
    devā́n ǀ yájantau ǀ ṛtu-thā́ ǀ sám ǀ añjataḥ ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ ádhi ǀ sā́nuṣu ǀ triṣú ǁ

    daivyā ǀ hotārā ǀ prathamā ǀ viduḥ-tarā ǀ ṛju ǀ yakṣataḥ ǀ sam ǀ ṛcā ǀ vapuḥ-tarā ǀ
    devān ǀ yajantau ǀ ṛtu-thā ǀ sam ǀ añjataḥ ǀ nābhā ǀ pṛthivyāḥ ǀ adhi ǀ sānuṣu ǀ triṣu ǁ

    2.3.7 Aṣṭaka 2.5.23.2Anuvāka 2.1.36

  8. Ṛk 8

    सर॑स्वती सा॒धयं॑ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः ।
    ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पांतु शर॒णं नि॒षद्य॑ ॥

    सरस्वती साधयन्ती धियं न इऌआ देवी भारती विश्वतूर्तिः |
    तिस्रो देवीः स्वधया बर्हिर् एदम् अच्छिद्रम् पान्तु शरणं निषद्य ||

    sárasvatī sādháyantī dhíyam na íḷā devī́ bhā́ratī viśvátūrtiḥ ǀ
    tisró devī́ḥ svadháyā barhírédámácchidram pāntu śaraṇám niṣádya ǁ

    sarasvatī sādhayantī dhiyaṃ na iḷā devī bhāratī viśvatūrtiḥ |
    tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya ||

    सर॑स्वती । सा॒धय॑न्ती । धिय॑म् । नः॒ । इळा॑ । दे॒वी । भार॑ती । वि॒श्वऽतू॑र्तिः ।
    ति॒स्रः । दे॒वीः । स्व॒धया॑ । ब॒र्हिः । आ । इ॒दम् । अच्छि॑द्रम् । पा॒न्तु॒ । श॒र॒णम् । नि॒ऽसद्य॑ ॥

    सरस्वती । साधयन्ती । धियम् । नः । इळा । देवी । भारती । विश्वऽतूर्तिः ।
    तिस्रः । देवीः । स्वधया । बर्हिः । आ । इदम् । अच्छिद्रम् । पान्तु । शरणम् । निऽसद्य ॥

    sárasvatī ǀ sādháyantī ǀ dhíyam ǀ naḥ ǀ íḷā ǀ devī́ ǀ bhā́ratī ǀ viśvá-tūrtiḥ ǀ
    tisráḥ ǀ devī́ḥ ǀ svadháyā ǀ barhíḥ ǀ ā́ ǀ idám ǀ ácchidram ǀ pāntu ǀ śaraṇám ǀ ni-sádya ǁ

    sarasvatī ǀ sādhayantī ǀ dhiyam ǀ naḥ ǀ iḷā ǀ devī ǀ bhāratī ǀ viśva-tūrtiḥ ǀ
    tisraḥ ǀ devīḥ ǀ svadhayā ǀ barhiḥ ǀ ā ǀ idam ǀ acchidram ǀ pāntu ǀ śaraṇam ǀ ni-sadya ǁ

    2.3.8 Aṣṭaka 2.5.23.3Anuvāka 2.1.37

  9. Ṛk 9

    पि॒शंग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः ।
    प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥

    पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः |
    प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु पाथः ||

    piśáṅgarūpaḥ subháro vayodhā́ḥ śruṣṭī́ vīró jāyate devákāmaḥ ǀ
    prajā́m tváṣṭā ví ṣyatu nā́bhimasmé áthā devā́nāmápyetu pā́thaḥ ǁ

    piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ |
    prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ ||

    पि॒शङ्ग॑ऽरूपः । सु॒ऽभरः॑ । व॒यः॒ऽधाः । श्रु॒ष्टी । वी॒रः । जा॒य॒ते॒ । दे॒वऽका॑मः ।
    प्र॒ऽजाम् । त्वष्टा॑ । वि । स्य॒तु॒ । नाभि॑म् । अ॒स्मे इति॑ । अथ॑ । दे॒वाना॑म् । अपि॑ । ए॒तु॒ । पाथः॑ ॥

    पिशङ्गऽरूपः । सुऽभरः । वयःऽधाः । श्रुष्टी । वीरः । जायते । देवऽकामः ।
    प्रऽजाम् । त्वष्टा । वि । स्यतु । नाभिम् । अस्मे इति । अथ । देवानाम् । अपि । एतु । पाथः ॥

    piśáṅga-rūpaḥ ǀ su-bháraḥ ǀ vayaḥ-dhā́ḥ ǀ śruṣṭī́ ǀ vīráḥ ǀ jāyate ǀ devá-kāmaḥ ǀ
    pra-jā́m ǀ tváṣṭā ǀ ví ǀ syatu ǀ nā́bhim ǀ asmé íti ǀ átha ǀ devā́nām ǀ ápi ǀ etu ǀ pā́thaḥ ǁ

    piśaṅga-rūpaḥ ǀ su-bharaḥ ǀ vayaḥ-dhāḥ ǀ śruṣṭī ǀ vīraḥ ǀ jāyate ǀ deva-kāmaḥ ǀ
    pra-jām ǀ tvaṣṭā ǀ vi ǀ syatu ǀ nābhim ǀ asme iti ǀ atha ǀ devānām ǀ api ǀ etu ǀ pāthaḥ ǁ

    2.3.9 Aṣṭaka 2.5.23.4Anuvāka 2.1.38

  10. Ṛk 10

    वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू॑दयाति॒ प्र धी॒भिः ।
    त्रिधा॒ सम॑क्तं नयतु प्रजा॒नंदे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यं ॥

    वनस्पतिर् अवसृजन्न् उप स्थाद् अग्निर् हविः सूदयाति प्र धीभिः |
    त्रिधा समक्तं नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप हव्यम् ||

    vánaspátiravasṛjánnúpa sthādagnírhavíḥ sūdayāti prá dhībhíḥ ǀ
    trídhā sámaktam nayatu prajānándevébhyo dáivyaḥ śamitópa havyám ǁ

    vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ |
    tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam ||

    वन॒स्पतिः॑ । अ॒व॒ऽसृ॒जन् । उप॑ । स्था॒त् । अ॒ग्निः । ह॒विः । सू॒द॒या॒ति॒ । प्र । धी॒भिः ।
    त्रिधा॑ । सम्ऽअ॑क्तम् । न॒य॒तु॒ । प्र॒ऽजा॒नन् । दे॒वेभ्यः॑ । दैव्यः॑ । श॒मि॒ता । उप॑ । ह॒व्यम् ॥

    वनस्पतिः । अवऽसृजन् । उप । स्थात् । अग्निः । हविः । सूदयाति । प्र । धीभिः ।
    त्रिधा । सम्ऽअक्तम् । नयतु । प्रऽजानन् । देवेभ्यः । दैव्यः । शमिता । उप । हव्यम् ॥

    vánaspátiḥ ǀ ava-sṛján ǀ úpa ǀ sthāt ǀ agníḥ ǀ havíḥ ǀ sūdayāti ǀ prá ǀ dhībhíḥ ǀ
    trídhā ǀ sám-aktam ǀ nayatu ǀ pra-jānán ǀ devébhyaḥ ǀ dáivyaḥ ǀ śamitā́ ǀ úpa ǀ havyám ǁ

    vanaspatiḥ ǀ ava-sṛjan ǀ upa ǀ sthāt ǀ agniḥ ǀ haviḥ ǀ sūdayāti ǀ pra ǀ dhībhiḥ ǀ
    tridhā ǀ sam-aktam ǀ nayatu ǀ pra-jānan ǀ devebhyaḥ ǀ daivyaḥ ǀ śamitā ǀ upa ǀ havyam ǁ

    2.3.10 Aṣṭaka 2.5.23.5Anuvāka 2.1.39

  11. Ṛk 11

    घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ ।
    अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यं ॥

    घृतम् मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् व् अस्य धाम |
    अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ||

    ghṛtám mimikṣe ghṛtámasya yónirghṛté śritó ghṛtámvasya dhā́ma ǀ
    anuṣvadhámā́ vaha mādáyasva svā́hākṛtam vṛṣabha vakṣi havyám ǁ

    ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma |
    anuṣvadham ā vaha mādayasva svāhākṛtaṃ vṛṣabha vakṣi havyam ||

    घृ॒तम् । मि॒मि॒क्षे॒ । घृ॒तम् । अ॒स्य॒ । योनिः॑ । घृ॒ते । श्रि॒तः । घृ॒तम् । ऊं॒ इति॑ । अ॒स्य॒ । धाम॑ ।
    अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व । स्वाहा॑ऽकृतम् । वृ॒ष॒भ॒ । व॒क्षि॒ । ह॒व्यम् ॥

    घृतम् । मिमिक्षे । घृतम् । अस्य । योनिः । घृते । श्रितः । घृतम् । ऊं इति । अस्य । धाम ।
    अनुऽस्वधम् । आ । वह । मादयस्व । स्वाहाऽकृतम् । वृषभ । वक्षि । हव्यम् ॥

    ghṛtám ǀ mimikṣe ǀ ghṛtám ǀ asya ǀ yóniḥ ǀ ghṛté ǀ śritáḥ ǀ ghṛtám ǀ ūṃ íti ǀ asya ǀ dhā́ma ǀ
    anu-svadhám ǀ ā́ ǀ vaha ǀ mādáyasva ǀ svā́hā-kṛtam ǀ vṛṣabha ǀ vakṣi ǀ havyám ǁ

    ghṛtam ǀ mimikṣe ǀ ghṛtam ǀ asya ǀ yoniḥ ǀ ghṛte ǀ śritaḥ ǀ ghṛtam ǀ ūṃ iti ǀ asya ǀ dhāma ǀ
    anu-svadham ǀ ā ǀ vaha ǀ mādayasva ǀ svāhā-kṛtam ǀ vṛṣabha ǀ vakṣi ǀ havyam ǁ

    2.3.11 Aṣṭaka 2.5.23.6Anuvāka 2.1.40

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.3 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

The Fire that was set inward in the earth is kindled and has arisen fronting all the worlds. He has arisen, the purifying Flame, the priest of the call, the wise of understanding, the Ancient of Days. Today let the Fire in the fullness of his powers, a god to the gods do sacrifice. (16 HTMF Page 38)

Ṛk 2

Fire who voices the godhead, shines revealing the planes, each and each; high of ray he reveals, each and each, the triple heavens by his greatness. Let him flood the oblation with a mind that diffuses the light and manifest the gods on the head of the sacrifice. (16 HTMF Page 39)

Ṛk 3

O Fire, aspired to by our mind, putting forth today thy power do sacrifice to the gods, O thou who wast of old before aught that is human. Bring to us the unfallen host of the Life-Gods; and you, O Powers, sacrifice to Indra where he sits on the seat of our altar. (16 HTMF Page 39)

Ṛk 4

O Godhead, strewn is the seat on this altar, the hero-guarded seat that ever grows, the seat well-packed for the riches,8 anointed with the Light. O all Gods, sit on this altar-seat, sons of the indivisible Mother, princes of the treasure, kings of sacrifice. (16 HTMF Page 39)

Ṛk 5

May the divine Doors swing open, wide to our call, easy of approach with our prostrations of surrender; may they stretch wide opening into vastnesses, the imperishable Doors purifying the glorious and heroic kind. (16 HTMF Page 40)

Ṛk 6

Milch-cows, good milkers, pouring out on us may Night and Dawn, the eternal and equal sisters, come like weaving women full of gladness, weaving out the weft that is spun, the weft of our perfected works into a shape of sacrifice. (16 HTMF Page 39)

Ṛk 7

The two divine Priests of the call, the first, the full in wisdom and stature, offer by the illumining Word the straight things in us; sacrificing to the Gods in season, they reveal them in light in the navel of the Earth and on the three peaks of Heaven. (16 HTMF Page 40)

Ṛk 8

May Saraswati effecting our thought and goddess Ila and Bharati who carries all to their goal, the three goddesses, sit on our altar-seat and guard by the self-law of things our gapless house of refuge. (16 HTMF Page 40)

Ṛk 9

Soon there is born a Hero of golden-red form, an aspirant to the Godheads, a mighty bringer of riches and founder of our growth to wideness. Let the Maker of forms loosen the knot of the navel in us, let him set free the issue of our works; then let him walk on the way of the Gods.9 (16 HTMF Page 40)

Ṛk 10

The Plant is with us streaming out the Wine. Fire speeds the oblation by our thoughts. Let the divine Achiever of works, understanding, lead the offering triply revealed10 in his light on its way to the Godhead. (16 HTMF Page 41)

Ṛk 11

I pour on him the running light; for the light is his native lair, he is lodged in the light, the light is his plane. According to thy self-nature, bring the Gods and fill them with rapture. O Male of the herd, carry to them our offering blessed with svaha.11 (16 HTMF Page 41)