Ṛgveda · Maṇḍala 2

Sūkta 11

Indra · Gṛtsamada Bhārgava Śaunaka · 21 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Virāṭsthānā Triṣṭubh, Triṣṭubh
Metres by ṛk

1st set of styles nicṛtpaṅkti (3, 4, 6, 11, 12, 14, 18); paṅktiḥ (1, 8, 10, 13, 19, 20); bhurikpaṅkti (2, 9); bhurigbṛhatī (16, 17); svarāḍbṛhatī (5); virāṭpaṅkti (7); bṛhatī (15); triṣṭup (21)

2nd set of styles virāṭsthānā triṣṭubh (1-20); triṣṭubh (21)

  1. Ṛk 1

    श्रु॒धी हव॑मिंद्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू॑नां ।
    इ॒मा हि त्वामूर्जो॑ व॒र्धयं॑ति वसू॒यवः॒ सिंध॑वो॒ न क्षरं॑तः ॥

    श्रुधी हवम् इन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् |
    इमा हि त्वाम् ऊर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ||

    śrudhī́ hávamindra mā́ riṣaṇyaḥ syā́ma te dāváne vásūnām ǀ
    imā́ hí tvā́mū́rjo vardháyanti vasūyávaḥ síndhavo ná kṣárantaḥ ǁ

    śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām |
    imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ ||

    श्रु॒धि । हव॑म् । इ॒न्द्र॒ । मा । रि॒ष॒ण्यः॒ । स्याम॑ । ते॒ । दा॒वने॑ । वसू॑नाम् ।
    इ॒माः । हि । त्वाम् । ऊर्जः॑ । व॒र्धय॑न्ति । व॒सु॒ऽयवः॑ । सिन्ध॑वः । न । क्षर॑न्तः ॥

    श्रुधि । हवम् । इन्द्र । मा । रिषण्यः । स्याम । ते । दावने । वसूनाम् ।
    इमाः । हि । त्वाम् । ऊर्जः । वर्धयन्ति । वसुऽयवः । सिन्धवः । न । क्षरन्तः ॥

    śrudhí ǀ hávam ǀ indra ǀ mā́ ǀ riṣaṇyaḥ ǀ syā́ma ǀ te ǀ dāváne ǀ vásūnām ǀ
    imā́ḥ ǀ hí ǀ tvā́m ǀ ū́rjaḥ ǀ vardháyanti ǀ vasu-yávaḥ ǀ síndhavaḥ ǀ ná ǀ kṣárantaḥ ǁ

    śrudhi ǀ havam ǀ indra ǀ mā ǀ riṣaṇyaḥ ǀ syāma ǀ te ǀ dāvane ǀ vasūnām ǀ
    imāḥ ǀ hi ǀ tvām ǀ ūrjaḥ ǀ vardhayanti ǀ vasu-yavaḥ ǀ sindhavaḥ ǀ na ǀ kṣarantaḥ ǁ

    2.11.1 Aṣṭaka 2.6.3.1Anuvāka 2.1.90

  2. Ṛk 2

    सृ॒जो म॒हीरिं॑द्र॒ या अपि॑न्वः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।
    अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥

    सृजो महीर् इन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः |
    अमर्त्यं चिद् दासम् मन्यमानम् अवाभिनद् उक्थैर् वावृधानः ||

    sṛjó mahī́rindra yā́ ápinvaḥ páriṣṭhitā áhinā śūra pūrvī́ḥ ǀ
    ámartyam ciddāsám mányamānamávābhinaduktháirvāvṛdhānáḥ ǁ

    sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ |
    amartyaṃ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ ||

    सृ॒जः । म॒हीः । इ॒न्द्र॒ । याः । अपि॑न्वः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः ।
    अम॑र्त्यम् । चि॒त् । दा॒सम् । मन्य॑मानम् । अव॑ । अ॒भि॒न॒त् । उ॒क्थैः । व॒वृ॒धा॒नः ॥

    सृजः । महीः । इन्द्र । याः । अपिन्वः । परिऽस्थिताः । अहिना । शूर । पूर्वीः ।
    अमर्त्यम् । चित् । दासम् । मन्यमानम् । अव । अभिनत् । उक्थैः । ववृधानः ॥

    sṛjáḥ ǀ mahī́ḥ ǀ indra ǀ yā́ḥ ǀ ápinvaḥ ǀ pári-sthitāḥ ǀ áhinā ǀ śūra ǀ pūrvī́ḥ ǀ
    ámartyam ǀ cit ǀ dāsám ǀ mányamānam ǀ áva ǀ abhinat ǀ uktháiḥ ǀ vavṛdhānáḥ ǁ

    sṛjaḥ ǀ mahīḥ ǀ indra ǀ yāḥ ǀ apinvaḥ ǀ pari-sthitāḥ ǀ ahinā ǀ śūra ǀ pūrvīḥ ǀ
    amartyam ǀ cit ǀ dāsam ǀ manyamānam ǀ ava ǀ abhinat ǀ ukthaiḥ ǀ vavṛdhānaḥ ǁ

    2.11.2 Aṣṭaka 2.6.3.2Anuvāka 2.1.91

  3. Ṛk 3

    उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्स्तोमे॑ष्विंद्र रु॒द्रिये॑षु च ।
    तुभ्येदे॒ता यासु॑ मंदसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥

    उक्थेष्व् इन् नु शूर येषु चाकन् स्तोमेष्व् इन्द्र रुद्रियेषु च |
    तुभ्येद् एता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ||

    ukthéṣvínnú śūra yéṣu cākánstómeṣvindra rudríyeṣu ca ǀ
    túbhyédetā́ yā́su mandasānáḥ prá vāyáve sisrate ná śubhrā́ḥ ǁ

    uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca |
    tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ ||

    उ॒क्थेषु॑ । इत् । नु । शू॒र॒ । येषु॑ । चा॒कन् । स्तोमे॑षु । इ॒न्द्र॒ । रु॒द्रिये॑षु । च॒ ।
    तुभ्य॑ । इत् । ए॒ताः । यासु॑ । म॒न्द॒सा॒नः । प्र । वा॒यवे॑ । सि॒स्र॒ते॒ । न । शु॒भ्राः ॥

    उक्थेषु । इत् । नु । शूर । येषु । चाकन् । स्तोमेषु । इन्द्र । रुद्रियेषु । च ।
    तुभ्य । इत् । एताः । यासु । मन्दसानः । प्र । वायवे । सिस्रते । न । शुभ्राः ॥

    ukthéṣu ǀ ít ǀ nú ǀ śūra ǀ yéṣu ǀ cākán ǀ stómeṣu ǀ indra ǀ rudríyeṣu ǀ ca ǀ
    túbhya ǀ ít ǀ etā́ḥ ǀ yā́su ǀ mandasānáḥ ǀ prá ǀ vāyáve ǀ sisrate ǀ ná ǀ śubhrā́ḥ ǁ

    uktheṣu ǀ it ǀ nu ǀ śūra ǀ yeṣu ǀ cākan ǀ stomeṣu ǀ indra ǀ rudriyeṣu ǀ ca ǀ
    tubhya ǀ it ǀ etāḥ ǀ yāsu ǀ mandasānaḥ ǀ pra ǀ vāyave ǀ sisrate ǀ na ǀ śubhrāḥ ǁ

    2.11.3 Aṣṭaka 2.6.3.3Anuvāka 2.1.92

  4. Ṛk 4

    शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धयं॑तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः ।
    शु॒भ्रस्त्वमिं॑द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये॑ण सह्याः ॥

    शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रम् बाह्वोर् दधानाः |
    शुभ्रस् त्वम् इन्द्र वावृधानो अस्मे दासीर् विशः सूर्येण सह्याः ||

    śubhrám nú te śúṣmam vardháyantaḥ śubhrám vájram bāhvórdádhānāḥ ǀ
    śubhrástvámindra vāvṛdhānó asmé dā́sīrvíśaḥ sū́ryeṇa sahyāḥ ǁ

    śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ |
    śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ ||

    शु॒भ्रम् । नु । ते॒ । शुष्म॑म् । व॒र्धय॑न्तः । शु॒भ्रम् । वज्र॑म् । बा॒ह्वोः । दधा॑नाः ।
    शु॒भ्रः । त्वम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्मे इति॑ । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ॥

    शुभ्रम् । नु । ते । शुष्मम् । वर्धयन्तः । शुभ्रम् । वज्रम् । बाह्वोः । दधानाः ।
    शुभ्रः । त्वम् । इन्द्र । ववृधानः । अस्मे इति । दासीः । विशः । सूर्येण । सह्याः ॥

    śubhrám ǀ nú ǀ te ǀ śúṣmam ǀ vardháyantaḥ ǀ śubhrám ǀ vájram ǀ bāhvóḥ ǀ dádhānāḥ ǀ
    śubhráḥ ǀ tvám ǀ indra ǀ vavṛdhānáḥ ǀ asmé íti ǀ dā́sīḥ ǀ víśaḥ ǀ sū́ryeṇa ǀ sahyāḥ ǁ

    śubhram ǀ nu ǀ te ǀ śuṣmam ǀ vardhayantaḥ ǀ śubhram ǀ vajram ǀ bāhvoḥ ǀ dadhānāḥ ǀ
    śubhraḥ ǀ tvam ǀ indra ǀ vavṛdhānaḥ ǀ asme iti ǀ dāsīḥ ǀ viśaḥ ǀ sūryeṇa ǀ sahyāḥ ǁ

    2.11.4 Aṣṭaka 2.6.3.4Anuvāka 2.1.93

  5. Ṛk 5

    गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यंतं॑ ।
    उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥

    गुहा हितं गुह्यं गूऌहम् अप्स्व् अपीवृतम् मायिनं क्षियन्तम् |
    उतो अपो द्यां तस्तभ्वांसम् अहन्न् अहिं शूर वीर्येण ||

    gúhā hitám gúhyam gūḷhámapsvápīvṛtam māyínam kṣiyántam ǀ
    utó apó dyā́m tastabhvā́ṃsamáhannáhim śūra vīryéṇa ǁ

    guhā hitaṃ guhyaṃ gūḷham apsv apīvṛtam māyinaṃ kṣiyantam |
    uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa ||

    गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । अपि॑ऽवृतम् । मा॒यिन॑म् । क्षि॒यन्त॑म् ।
    उ॒तो इति॑ । अ॒पः । द्याम् । त॒स्त॒भ्वांस॑म् । अह॑न् । अहि॑म् । शू॒र॒ । वी॒र्ये॑ण ॥

    गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । अपिऽवृतम् । मायिनम् । क्षियन्तम् ।
    उतो इति । अपः । द्याम् । तस्तभ्वांसम् । अहन् । अहिम् । शूर । वीर्येण ॥

    gúhā ǀ hitám ǀ gúhyam ǀ gūḷhám ǀ ap-sú ǀ ápi-vṛtam ǀ māyínam ǀ kṣiyántam ǀ
    utó íti ǀ apáḥ ǀ dyā́m ǀ tastabhvā́ṃsam ǀ áhan ǀ áhim ǀ śūra ǀ vīryéṇa ǁ

    guhā ǀ hitam ǀ guhyam ǀ gūḷham ǀ ap-su ǀ api-vṛtam ǀ māyinam ǀ kṣiyantam ǀ
    uto iti ǀ apaḥ ǀ dyām ǀ tastabhvāṃsam ǀ ahan ǀ ahim ǀ śūra ǀ vīryeṇa ǁ

    2.11.5 Aṣṭaka 2.6.3.5Anuvāka 2.1.94

  6. Ṛk 6

    स्तवा॒ नु त॑ इंद्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ ।
    स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शंतं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ॥

    स्तवा नु त इन्द्र पूर्व्या महान्य् उत स्तवाम नूतना कृतानि |
    स्तवा वज्रम् बाह्वोर् उशन्तं स्तवा हरी सूर्यस्य केतू ||

    stávā nú ta indra pūrvyā́ mahā́nyutá stavāma nū́tanā kṛtā́ni ǀ
    stávā vájram bāhvóruśántam stávā hárī sū́ryasya ketū́ ǁ

    stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni |
    stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū ||

    स्तव॑ । नु । ते॒ । इ॒न्द्र॒ । पू॒र्व्या । म॒हानि॑ । उ॒त । स्त॒वा॒म॒ । नूत॑ना । कृ॒तानि॑ ।
    स्तव॑ । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । स्तव॑ । हरी॒ इति॑ । सूर्य॑स्य । के॒तू इति॑ ॥

    स्तव । नु । ते । इन्द्र । पूर्व्या । महानि । उत । स्तवाम । नूतना । कृतानि ।
    स्तव । वज्रम् । बाह्वोः । उशन्तम् । स्तव । हरी इति । सूर्यस्य । केतू इति ॥

    stáva ǀ nú ǀ te ǀ indra ǀ pūrvyā́ ǀ mahā́ni ǀ utá ǀ stavāma ǀ nū́tanā ǀ kṛtā́ni ǀ
    stáva ǀ vájram ǀ bāhvóḥ ǀ uśántam ǀ stáva ǀ hárī íti ǀ sū́ryasya ǀ ketū́ íti ǁ

    stava ǀ nu ǀ te ǀ indra ǀ pūrvyā ǀ mahāni ǀ uta ǀ stavāma ǀ nūtanā ǀ kṛtāni ǀ
    stava ǀ vajram ǀ bāhvoḥ ǀ uśantam ǀ stava ǀ harī iti ǀ sūryasya ǀ ketū iti ǁ

    2.11.6 Aṣṭaka 2.6.4.1Anuvāka 2.1.95

  7. Ṛk 7

    हरी॒ नु त॑ इंद्र वा॒जयं॑ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टां ।
    वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं॑स्त॒ पर्व॑तश्चित्सरि॒ष्यन् ॥

    हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारम् अस्वार्ष्टाम् |
    वि समना भूमिर् अप्रथिष्टारंस्त पर्वतश् चित् सरिष्यन् ||

    hárī nú ta indra vājáyantā ghṛtaścútam svārámasvārṣṭām ǀ
    ví samanā́ bhū́miraprathiṣṭā́raṃsta párvataścitsariṣyán ǁ

    harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām |
    vi samanā bhūmir aprathiṣṭāraṃsta parvataś cit sariṣyan ||

    हरी॒ इति॑ । नु । ते॒ । इ॒न्द्र॒ । वा॒जय॑न्ता । घृ॒त॒ऽश्चुत॑म् । स्वा॒रम् । अ॒स्वा॒र्ष्टा॒म् ।
    वि । स॒म॒ना । भूमिः॑ । अ॒प्र॒थि॒ष्ट । अरं॑स्त । पर्व॑तः । चि॒त् । स॒रि॒ष्यन् ॥

    हरी इति । नु । ते । इन्द्र । वाजयन्ता । घृतऽश्चुतम् । स्वारम् । अस्वार्ष्टाम् ।
    वि । समना । भूमिः । अप्रथिष्ट । अरंस्त । पर्वतः । चित् । सरिष्यन् ॥

    hárī íti ǀ nú ǀ te ǀ indra ǀ vājáyantā ǀ ghṛta-ścútam ǀ svārám ǀ asvārṣṭām ǀ
    ví ǀ samanā́ ǀ bhū́miḥ ǀ aprathiṣṭá ǀ áraṃsta ǀ párvataḥ ǀ cit ǀ sariṣyán ǁ

    harī iti ǀ nu ǀ te ǀ indra ǀ vājayantā ǀ ghṛta-ścutam ǀ svāram ǀ asvārṣṭām ǀ
    vi ǀ samanā ǀ bhūmiḥ ǀ aprathiṣṭa ǀ araṃsta ǀ parvataḥ ǀ cit ǀ sariṣyan ǁ

    2.11.7 Aṣṭaka 2.6.4.2Anuvāka 2.1.96

  8. Ṛk 8

    नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्त्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान् ।
    दू॒रे पा॒रे वाणीं॑ व॒र्धयं॑त॒ इंद्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि ॥

    नि पर्वतः साद्य् अप्रयुच्छन् सम् मातृभिर् वावशानो अक्रान् |
    दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिम् पप्रथन् नि ||

    ní párvataḥ sādyáprayucchantsám mātṛ́bhirvāvaśānó akrān ǀ
    dūré pāré vā́ṇīm vardháyanta índreṣitām dhamánim paprathanní ǁ

    ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān |
    dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamanim paprathan ni ||

    नि । पर्व॑तः । सा॒दि॒ । अप्र॑ऽयुच्छन् । सम् । मा॒तृऽभिः॑ । वा॒व॒शा॒नः । अ॒क्रा॒न् ।
    दू॒रे । पा॒रे । वाणी॑म् । व॒र्धय॑न्तः । इन्द्र॑ऽइषिताम् । ध॒मनि॑म् । प॒प्र॒थ॒न् । नि ॥

    नि । पर्वतः । सादि । अप्रऽयुच्छन् । सम् । मातृऽभिः । वावशानः । अक्रान् ।
    दूरे । पारे । वाणीम् । वर्धयन्तः । इन्द्रऽइषिताम् । धमनिम् । पप्रथन् । नि ॥

    ní ǀ párvataḥ ǀ sādi ǀ ápra-yucchan ǀ sám ǀ mātṛ́-bhiḥ ǀ vāvaśānáḥ ǀ akrān ǀ
    dūré ǀ pāré ǀ vā́ṇīm ǀ vardháyantaḥ ǀ índra-iṣitām ǀ dhamánim ǀ paprathan ǀ ní ǁ

    ni ǀ parvataḥ ǀ sādi ǀ apra-yucchan ǀ sam ǀ mātṛ-bhiḥ ǀ vāvaśānaḥ ǀ akrān ǀ
    dūre ǀ pāre ǀ vāṇīm ǀ vardhayantaḥ ǀ indra-iṣitām ǀ dhamanim ǀ paprathan ǀ ni ǁ

    2.11.8 Aṣṭaka 2.6.4.3Anuvāka 2.1.97

  9. Ṛk 9

    इंद्रो॑ म॒हां सिंधु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः ।
    अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त् ॥

    इन्द्रो महां सिन्धुम् आशयानम् मायाविनं वृत्रम् अस्फुरन् निः |
    अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ||

    índro mahā́m síndhumāśáyānam māyāvínam vṛtrámasphuranníḥ ǀ
    árejetām ródasī bhiyāné kánikradato vṛ́ṣṇo asya vájrāt ǁ

    indro mahāṃ sindhum āśayānam māyāvinaṃ vṛtram asphuran niḥ |
    arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt ||

    इन्द्रः॑ । म॒हाम् । सिन्धु॑म् । आ॒ऽशया॑नम् । मा॒या॒ऽविन॑म् । वृ॒त्रम् । अ॒स्फु॒र॒त् । निः ।
    अरे॑जेताम् । रोद॑सी॒ इति॑ । भि॒या॒ने इति॑ । कनि॑क्रदतः । वृष्णः॑ । अ॒स्य॒ । वज्रा॑त् ॥

    इन्द्रः । महाम् । सिन्धुम् । आऽशयानम् । मायाऽविनम् । वृत्रम् । अस्फुरत् । निः ।
    अरेजेताम् । रोदसी इति । भियाने इति । कनिक्रदतः । वृष्णः । अस्य । वज्रात् ॥

    índraḥ ǀ mahā́m ǀ síndhum ǀ ā-śáyānam ǀ māyā-vínam ǀ vṛtrám ǀ asphurat ǀ níḥ ǀ
    árejetām ǀ ródasī íti ǀ bhiyāné íti ǀ kánikradataḥ ǀ vṛ́ṣṇaḥ ǀ asya ǀ vájrāt ǁ

    indraḥ ǀ mahām ǀ sindhum ǀ ā-śayānam ǀ māyā-vinam ǀ vṛtram ǀ asphurat ǀ niḥ ǀ
    arejetām ǀ rodasī iti ǀ bhiyāne iti ǀ kanikradataḥ ǀ vṛṣṇaḥ ǀ asya ǀ vajrāt ǁ

    2.11.9 Aṣṭaka 2.6.4.4Anuvāka 2.1.98

  10. Ṛk 10

    अरो॑रवी॒द्वृष्णो॑ अस्य॒ वज्रोऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त् ।
    नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत्पपि॒वान्त्सु॒तस्य॑ ॥

    अरोरवीद् वृष्णो अस्य वज्रो ऽमानुषं यन् मानुषो निजूर्वात् |
    नि मायिनो दानवस्य माया अपादयत् पपिवान् सुतस्य ||

    ároravīdvṛ́ṣṇo asya vájró’mānuṣam yánmā́nuṣo nijū́rvāt ǀ
    ní māyíno dānavásya māyā́ ápādayatpapivā́ntsutásya ǁ

    aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt |
    ni māyino dānavasya māyā apādayat papivān sutasya ||

    अरो॑रवीत् । वृष्णः॑ । अ॒स्य॒ । वज्रः॑ । अमा॑नुषम् । यत् । मानु॑षः । नि॒ऽजूर्वा॑त् ।
    नि । मा॒यिनः॑ । दा॒न॒वस्य॑ । मा॒याः । अपा॑दयत् । प॒पि॒ऽवान् । सु॒तस्य॑ ॥

    अरोरवीत् । वृष्णः । अस्य । वज्रः । अमानुषम् । यत् । मानुषः । निऽजूर्वात् ।
    नि । मायिनः । दानवस्य । मायाः । अपादयत् । पपिऽवान् । सुतस्य ॥

    ároravīt ǀ vṛ́ṣṇaḥ ǀ asya ǀ vájraḥ ǀ ámānuṣam ǀ yát ǀ mā́nuṣaḥ ǀ ni-jū́rvāt ǀ
    ní ǀ māyínaḥ ǀ dānavásya ǀ māyā́ḥ ǀ ápādayat ǀ papi-vā́n ǀ sutásya ǁ

    aroravīt ǀ vṛṣṇaḥ ǀ asya ǀ vajraḥ ǀ amānuṣam ǀ yat ǀ mānuṣaḥ ǀ ni-jūrvāt ǀ
    ni ǀ māyinaḥ ǀ dānavasya ǀ māyāḥ ǀ apādayat ǀ papi-vān ǀ sutasya ǁ

    2.11.10 Aṣṭaka 2.6.4.5Anuvāka 2.1.99

  11. Ṛk 11

    पिबा॑पि॒बेदिं॑द्र शूर॒ सोमं॒ मंदं॑तु त्वा मं॒दिनः॑ सु॒तासः॑ ।
    पृ॒णंत॑स्ते कु॒क्षी व॑र्धयंत्वि॒त्था सु॒तः पौ॒र इंद्र॑माव ॥

    पिबा-पिबेद् इन्द्र शूर सोमम् मन्दन्तु त्वा मन्दिनः सुतासः |
    पृणन्तस् ते कुक्षी वर्धयन्त्व् इत्था सुतः पौर इन्द्रम् आव ||

    píbāpibédindra śūra sómam mándantu tvā mandínaḥ sutā́saḥ ǀ
    pṛṇántaste kukṣī́ vardhayantvitthā́ sutáḥ paurá índramāva ǁ

    pibā-pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ |
    pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva ||

    पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मन्द॑न्तु । त्वा॒ । म॒न्दिनः॑ । सु॒तासः॑ ।
    पृ॒णन्तः॑ । ते॒ । कु॒क्षी इति॑ । व॒र्ध॒य॒न्तु॒ । इ॒त्था । सु॒तः । पौ॒रः । इन्द्र॑म् । आ॒व॒ ॥

    पिबऽपिब । इत् । इन्द्र । शूर । सोमम् । मन्दन्तु । त्वा । मन्दिनः । सुतासः ।
    पृणन्तः । ते । कुक्षी इति । वर्धयन्तु । इत्था । सुतः । पौरः । इन्द्रम् । आव ॥

    píba-piba ǀ ít ǀ indra ǀ śūra ǀ sómam ǀ mándantu ǀ tvā ǀ mandínaḥ ǀ sutā́saḥ ǀ
    pṛṇántaḥ ǀ te ǀ kukṣī́ íti ǀ vardhayantu ǀ itthā́ ǀ sutáḥ ǀ pauráḥ ǀ índram ǀ āva ǁ

    piba-piba ǀ it ǀ indra ǀ śūra ǀ somam ǀ mandantu ǀ tvā ǀ mandinaḥ ǀ sutāsaḥ ǀ
    pṛṇantaḥ ǀ te ǀ kukṣī iti ǀ vardhayantu ǀ itthā ǀ sutaḥ ǀ pauraḥ ǀ indram ǀ āva ǁ

    2.11.11 Aṣṭaka 2.6.5.1Anuvāka 2.1.100

  12. Ṛk 12

    त्वे इं॒द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सपं॑तः ।
    अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम ॥

    त्वे इन्द्राप्य् अभूम विप्रा धियं वनेम ऋतया सपन्तः |
    अवस्यवो धीमहि प्रशस्तिं सद्यस् ते रायो दावने स्याम ||

    tvé indrā́pyabhūma víprā dhíyam vanema ṛtayā́ sápantaḥ ǀ
    avasyávo dhīmahi práśastim sadyáste rāyó dāváne syāma ǁ

    tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ |
    avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma ||

    त्वे इति॑ । इ॒न्द्र॒ । अपि॑ । अ॒भू॒म॒ । विप्राः॑ । धिय॑म् । व॒ने॒म॒ । ऋ॒त॒ऽया । सप॑न्तः ।
    अ॒व॒स्यवः॑ । धी॒म॒हि॒ । प्रऽश॑स्तिम् । स॒द्यः । ते॒ । रा॒यः । दा॒वने॑ । स्या॒म॒ ॥

    त्वे इति । इन्द्र । अपि । अभूम । विप्राः । धियम् । वनेम । ऋतऽया । सपन्तः ।
    अवस्यवः । धीमहि । प्रऽशस्तिम् । सद्यः । ते । रायः । दावने । स्याम ॥

    tvé íti ǀ indra ǀ ápi ǀ abhūma ǀ víprāḥ ǀ dhíyam ǀ vanema ǀ ṛta-yā́ ǀ sápantaḥ ǀ
    avasyávaḥ ǀ dhīmahi ǀ prá-śastim ǀ sadyáḥ ǀ te ǀ rāyáḥ ǀ dāváne ǀ syāma ǁ

    tve iti ǀ indra ǀ api ǀ abhūma ǀ viprāḥ ǀ dhiyam ǀ vanema ǀ ṛta-yā ǀ sapantaḥ ǀ
    avasyavaḥ ǀ dhīmahi ǀ pra-śastim ǀ sadyaḥ ǀ te ǀ rāyaḥ ǀ dāvane ǀ syāma ǁ

    2.11.12 Aṣṭaka 2.6.5.2Anuvāka 2.1.101

  13. Ṛk 13

    स्याम॒ ते त॑ इंद्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धयं॑तः ।
    शु॒ष्मिंत॑मं॒ यं चा॒कना॑म देवा॒स्मे र॒यिं रा॑सि वी॒रवं॑तं ॥

    स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः |
    शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ||

    syā́ma té ta indra yé ta ūtī́ avasyáva ū́rjam vardháyantaḥ ǀ
    śuṣmíntamam yám cākánāma devāsmé rayím rāsi vīrávantam ǁ

    syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ |
    śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam ||

    स्याम॑ । ते । ते॒ । इ॒न्द्र॒ । ये । ते॒ । ऊ॒ती । अ॒व॒स्यवः॑ । ऊर्ज॑म् । व॒र्धय॑न्तः ।
    शु॒ष्मिन्ऽत॑मम् । यम् । चा॒कना॑म । दे॒व॒ । अ॒स्मे इति॑ । र॒यिम् । रा॒सि॒ । वी॒रऽव॑न्तम् ॥

    स्याम । ते । ते । इन्द्र । ये । ते । ऊती । अवस्यवः । ऊर्जम् । वर्धयन्तः ।
    शुष्मिन्ऽतमम् । यम् । चाकनाम । देव । अस्मे इति । रयिम् । रासि । वीरऽवन्तम् ॥

    syā́ma ǀ té ǀ te ǀ indra ǀ yé ǀ te ǀ ūtī́ ǀ avasyávaḥ ǀ ū́rjam ǀ vardháyantaḥ ǀ
    śuṣmín-tamam ǀ yám ǀ cākánāma ǀ deva ǀ asmé íti ǀ rayím ǀ rāsi ǀ vīrá-vantam ǁ

    syāma ǀ te ǀ te ǀ indra ǀ ye ǀ te ǀ ūtī ǀ avasyavaḥ ǀ ūrjam ǀ vardhayantaḥ ǀ
    śuṣmin-tamam ǀ yam ǀ cākanāma ǀ deva ǀ asme iti ǀ rayim ǀ rāsi ǀ vīra-vantam ǁ

    2.11.13 Aṣṭaka 2.6.5.3Anuvāka 2.1.102

  14. Ṛk 14

    रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इंद्र॒ मारु॑तं नः ।
    स॒जोष॑सो॒ ये च॑ मंदसा॒नाः प्र वा॒यवः॑ पां॒त्यग्र॑णीतिं ॥

    रासि क्षयं रासि मित्रम् अस्मे रासि शर्ध इन्द्र मारुतं नः |
    सजोषसो ये च मन्दसानाः प्र वायवः पान्त्य् अग्रणीतिम् ||

    rā́si kṣáyam rā́si mitrámasmé rā́si śárdha indra mā́rutam naḥ ǀ
    sajóṣaso yé ca mandasānā́ḥ prá vāyávaḥ pāntyágraṇītim ǁ

    rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ |
    sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim ||

    रासि॑ । क्षय॑म् । रासि॑ । मि॒त्रम् । अ॒स्मे इति॑ । रासि॑ । शर्धः॑ । इ॒न्द्र॒ । मारु॑तम् । नः॒ ।
    स॒ऽजोष॑सः । ये । च॒ । म॒न्द॒सा॒नाः । प्र । वा॒यवः॑ । पा॒न्ति॒ । अग्र॑ऽनीतिम् ॥

    रासि । क्षयम् । रासि । मित्रम् । अस्मे इति । रासि । शर्धः । इन्द्र । मारुतम् । नः ।
    सऽजोषसः । ये । च । मन्दसानाः । प्र । वायवः । पान्ति । अग्रऽनीतिम् ॥

    rā́si ǀ kṣáyam ǀ rā́si ǀ mitrám ǀ asmé íti ǀ rā́si ǀ śárdhaḥ ǀ indra ǀ mā́rutam ǀ naḥ ǀ
    sa-jóṣasaḥ ǀ yé ǀ ca ǀ mandasānā́ḥ ǀ prá ǀ vāyávaḥ ǀ pānti ǀ ágra-nītim ǁ

    rāsi ǀ kṣayam ǀ rāsi ǀ mitram ǀ asme iti ǀ rāsi ǀ śardhaḥ ǀ indra ǀ mārutam ǀ naḥ ǀ
    sa-joṣasaḥ ǀ ye ǀ ca ǀ mandasānāḥ ǀ pra ǀ vāyavaḥ ǀ pānti ǀ agra-nītim ǁ

    2.11.14 Aṣṭaka 2.6.5.4Anuvāka 2.1.103

  15. Ṛk 15

    व्यंत्विन्नु येषु॑ मंदसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदिं॑द्र ।
    अ॒स्मान्त्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ॥

    व्यन्त्व् इन् नु येषु मन्दसानस् तृपत् सोमम् पाहि द्रह्यद् इन्द्र |
    अस्मान् सु पृत्स्व् आ तरुत्रावर्धयो द्याम् बृहद्भिर् अर्कैः ||

    vyántvínnú yéṣu mandasānástṛpátsómam pāhi drahyádindra ǀ
    asmā́ntsú pṛtsvā́ tarutrā́vardhayo dyā́m bṛhádbhirarkáiḥ ǁ

    vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra |
    asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ ||

    व्यन्तु॑ । इत् । नु । येषु॑ । म॒न्द॒सा॒नः । तृ॒पत् । सोम॑म् । पा॒हि॒ । द्र॒ह्यत् । इ॒न्द्र॒ ।
    अ॒स्मान् । सु । पृ॒त्ऽसु । आ । त॒रु॒त्र॒ । अव॑र्धयः । द्याम् । बृ॒हत्ऽभिः॑ । अ॒र्कैः ॥

    व्यन्तु । इत् । नु । येषु । मन्दसानः । तृपत् । सोमम् । पाहि । द्रह्यत् । इन्द्र ।
    अस्मान् । सु । पृत्ऽसु । आ । तरुत्र । अवर्धयः । द्याम् । बृहत्ऽभिः । अर्कैः ॥

    vyántu ǀ ít ǀ nú ǀ yéṣu ǀ mandasānáḥ ǀ tṛpát ǀ sómam ǀ pāhi ǀ drahyát ǀ indra ǀ
    asmā́n ǀ sú ǀ pṛt-sú ǀ ā́ ǀ tarutra ǀ ávardhayaḥ ǀ dyā́m ǀ bṛhát-bhiḥ ǀ arkáiḥ ǁ

    vyantu ǀ it ǀ nu ǀ yeṣu ǀ mandasānaḥ ǀ tṛpat ǀ somam ǀ pāhi ǀ drahyat ǀ indra ǀ
    asmān ǀ su ǀ pṛt-su ǀ ā ǀ tarutra ǀ avardhayaḥ ǀ dyām ǀ bṛhat-bhiḥ ǀ arkaiḥ ǁ

    2.11.15 Aṣṭaka 2.6.5.5Anuvāka 2.1.104

  16. Ṛk 16

    बृ॒हंत॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान् ।
    स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदिं॑द्र॒ वाज॑मग्मन् ॥

    बृहन्त इन् नु ये ते तरुत्रोक्थेभिर् वा सुम्नम् आविवासान् |
    स्तृणानासो बर्हिः पस्त्यावत् त्वोता इद् इन्द्र वाजम् अग्मन् ||

    bṛhánta ínnú yé te tarutrokthébhirvā sumnámāvívāsān ǀ
    stṛṇānā́so barhíḥ pastyā́vattvótā ídindra vā́jamagman ǁ

    bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān |
    stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman ||

    बृ॒हन्तः॑ । इत् । नु । ये । ते॒ । त॒रु॒त्र॒ । उ॒क्थेभिः॑ । वा॒ । सु॒म्नम् । आ॒ऽविवा॑सान् ।
    स्तृ॒णा॒नासः॑ । ब॒र्हिः । प॒स्त्य॑ऽवत् । त्वाऽऊ॑ताः । इत् । इ॒न्द्र॒ । वाज॑म् । अ॒ग्म॒न् ॥

    बृहन्तः । इत् । नु । ये । ते । तरुत्र । उक्थेभिः । वा । सुम्नम् । आऽविवासान् ।
    स्तृणानासः । बर्हिः । पस्त्यऽवत् । त्वाऽऊताः । इत् । इन्द्र । वाजम् । अग्मन् ॥

    bṛhántaḥ ǀ ít ǀ nú ǀ yé ǀ te ǀ tarutra ǀ ukthébhiḥ ǀ vā ǀ sumnám ǀ ā-vívāsān ǀ
    stṛṇānā́saḥ ǀ barhíḥ ǀ pastyá-vat ǀ tvā́-ūtāḥ ǀ ít ǀ indra ǀ vā́jam ǀ agman ǁ

    bṛhantaḥ ǀ it ǀ nu ǀ ye ǀ te ǀ tarutra ǀ ukthebhiḥ ǀ vā ǀ sumnam ǀ ā-vivāsān ǀ
    stṛṇānāsaḥ ǀ barhiḥ ǀ pastya-vat ǀ tvā-ūtāḥ ǀ it ǀ indra ǀ vājam ǀ agman ǁ

    2.11.16 Aṣṭaka 2.6.6.1Anuvāka 2.1.105

  17. Ṛk 17

    उ॒ग्रेष्विन्नु शू॑र मंदसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिंद्र ।
    प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिं ॥

    उग्रेष्व् इन् नु शूर मन्दसानस् त्रिकद्रुकेषु पाहि सोमम् इन्द्र |
    प्रदोधुवच् छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ||

    ugréṣvínnú śūra mandasānástríkadrukeṣu pāhi sómamindra ǀ
    pradódhuvacchmáśruṣu prīṇānó yāhí háribhyām sutásya pītím ǁ

    ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra |
    pradodhuvac chmaśruṣu prīṇāno yāhi haribhyāṃ sutasya pītim ||

    उ॒ग्रेषु॑ । इत् । नु । शू॒र॒ । म॒न्द॒सा॒नः । त्रिऽक॑द्रुकेषु । पा॒हि॒ । सोम॑म् । इ॒न्द्र॒ ।
    प्र॒ऽदोधु॑वत् । श्मश्रु॑षु । प्री॒णा॒नः । या॒हि । हरि॑ऽभ्याम् । सु॒तस्य॑ । पी॒तिम् ॥

    उग्रेषु । इत् । नु । शूर । मन्दसानः । त्रिऽकद्रुकेषु । पाहि । सोमम् । इन्द्र ।
    प्रऽदोधुवत् । श्मश्रुषु । प्रीणानः । याहि । हरिऽभ्याम् । सुतस्य । पीतिम् ॥

    ugréṣu ǀ ít ǀ nú ǀ śūra ǀ mandasānáḥ ǀ trí-kadrukeṣu ǀ pāhi ǀ sómam ǀ indra ǀ
    pra-dódhuvat ǀ śmáśruṣu ǀ prīṇānáḥ ǀ yāhí ǀ hári-bhyām ǀ sutásya ǀ pītím ǁ

    ugreṣu ǀ it ǀ nu ǀ śūra ǀ mandasānaḥ ǀ tri-kadrukeṣu ǀ pāhi ǀ somam ǀ indra ǀ
    pra-dodhuvat ǀ śmaśruṣu ǀ prīṇānaḥ ǀ yāhi ǀ hari-bhyām ǀ sutasya ǀ pītim ǁ

    2.11.17 Aṣṭaka 2.6.6.2Anuvāka 2.1.106

  18. Ṛk 18

    धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भं ।
    अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिंद्र ॥

    धिष्वा शवः शूर येन वृत्रम् अवाभिनद् दानुम् और्णवाभम् |
    अपावृणोर् ज्योतिर् आर्याय नि सव्यतः सादि दस्युर् इन्द्र ||

    dhiṣvā́ śávaḥ śūra yéna vṛtrámavā́bhinaddā́numaurṇavābhám ǀ
    ápāvṛṇorjyótirā́ryāya ní savyatáḥ sādi dásyurindra ǁ

    dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham |
    apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra ||

    धि॒ष्व । शवः॑ । शू॒र॒ । येन॑ । वृ॒त्रम् । अ॒व॒ऽअभि॑नत् । दानु॑म् । औ॒र्ण॒ऽवा॒भम् ।
    अप॑ । अ॒वृ॒णोः॒ । ज्योतिः॑ । आर्या॑य । नि । स॒व्य॒तः । सा॒दि॒ । दस्युः॑ । इ॒न्द्र॒ ॥

    धिष्व । शवः । शूर । येन । वृत्रम् । अवऽअभिनत् । दानुम् । और्णऽवाभम् ।
    अप । अवृणोः । ज्योतिः । आर्याय । नि । सव्यतः । सादि । दस्युः । इन्द्र ॥

    dhiṣvá ǀ śávaḥ ǀ śūra ǀ yéna ǀ vṛtrám ǀ ava-ábhinat ǀ dā́num ǀ aurṇa-vābhám ǀ
    ápa ǀ avṛṇoḥ ǀ jyótiḥ ǀ ā́ryāya ǀ ní ǀ savyatáḥ ǀ sādi ǀ dásyuḥ ǀ indra ǁ

    dhiṣva ǀ śavaḥ ǀ śūra ǀ yena ǀ vṛtram ǀ ava-abhinat ǀ dānum ǀ aurṇa-vābham ǀ
    apa ǀ avṛṇoḥ ǀ jyotiḥ ǀ āryāya ǀ ni ǀ savyataḥ ǀ sādi ǀ dasyuḥ ǀ indra ǁ

    2.11.18 Aṣṭaka 2.6.6.3Anuvāka 2.1.107

  19. Ṛk 19

    सने॑म॒ ये त॑ ऊ॒तिभि॒स्तरं॑तो॒ विश्वाः॒ स्पृध॒ आर्ये॑ण॒ दस्यू॑न् ।
    अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू॑प॒मरं॑धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ॥

    सनेम ये त ऊतिभिस् तरन्तो विश्वा स्पृध आर्येण दस्यून् |
    अस्मभ्यं तत् त्वाष्ट्रं विश्वरूपम् अरन्धयः साख्यस्य त्रिताय ||

    sánema yé ta ūtíbhistáranto víśvāḥ spṛ́dha ā́ryeṇa dásyūn ǀ
    asmábhyam táttvāṣṭrám viśvárūpamárandhayaḥ sākhyásya tritā́ya ǁ

    sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn |
    asmabhyaṃ tat tvāṣṭraṃ viśvarūpam arandhayaḥ sākhyasya tritāya ||

    सने॑म । ये । ते॒ । ऊ॒तिऽभिः॑ । तर॑न्तः । विश्वाः॑ । स्पृधः॑ । आर्ये॑ण । दस्यू॑न् ।
    अ॒स्मभ्य॑म् । तत् । त्वा॒ष्ट्रम् । वि॒श्वऽरू॑पम् । अर॑न्धयः । सा॒ख्यस्य॑ । त्रि॒ताय॑ ॥

    सनेम । ये । ते । ऊतिऽभिः । तरन्तः । विश्वाः । स्पृधः । आर्येण । दस्यून् ।
    अस्मभ्यम् । तत् । त्वाष्ट्रम् । विश्वऽरूपम् । अरन्धयः । साख्यस्य । त्रिताय ॥

    sánema ǀ yé ǀ te ǀ ūtí-bhiḥ ǀ tárantaḥ ǀ víśvāḥ ǀ spṛ́dhaḥ ǀ ā́ryeṇa ǀ dásyūn ǀ
    asmábhyam ǀ tát ǀ tvāṣṭrám ǀ viśvá-rūpam ǀ árandhayaḥ ǀ sākhyásya ǀ tritā́ya ǁ

    sanema ǀ ye ǀ te ǀ ūti-bhiḥ ǀ tarantaḥ ǀ viśvāḥ ǀ spṛdhaḥ ǀ āryeṇa ǀ dasyūn ǀ
    asmabhyam ǀ tat ǀ tvāṣṭram ǀ viśva-rūpam ǀ arandhayaḥ ǀ sākhyasya ǀ tritāya ǁ

    2.11.19 Aṣṭaka 2.6.6.4Anuvāka 2.1.108

  20. Ṛk 20

    अ॒स्य सु॑वा॒नस्य॑ मं॒दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः ।
    अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिंद्रो॒ अंगि॑रस्वान् ॥

    अस्य सुवानस्य मन्दिनस् त्रितस्य न्य् अर्बुदं वावृधानो अस्तः |
    अवर्तयत् सूर्यो न चक्रम् भिनद् वलम् इन्द्रो अङ्गिरस्वान् ||

    asyá suvānásya mandínastritásya nyárbudam vāvṛdhānó astaḥ ǀ
    ávartayatsū́ryo ná cakrám bhinádvalámíndro áṅgirasvān ǁ

    asya suvānasya mandinas tritasya ny arbudaṃ vāvṛdhāno astaḥ |
    avartayat sūryo na cakram bhinad valam indro aṅgirasvān ||

    अ॒स्य । सु॒वा॒नस्य॑ । म॒न्दिनः॑ । त्रि॒तस्य॑ । नि । अर्बु॑दम् । व॒वृ॒धा॒नः । अ॒स्त॒रित्य॑स्तः ।
    अव॑र्तयत् । सूर्यः॑ । न । च॒क्रम् । भि॒नत् । व॒लम् । इन्द्रः॑ । अङ्गि॑रस्वान् ॥

    अस्य । सुवानस्य । मन्दिनः । त्रितस्य । नि । अर्बुदम् । ववृधानः । अस्तरित्यस्तः ।
    अवर्तयत् । सूर्यः । न । चक्रम् । भिनत् । वलम् । इन्द्रः । अङ्गिरस्वान् ॥

    asyá ǀ suvānásya ǀ mandínaḥ ǀ tritásya ǀ ní ǀ árbudam ǀ vavṛdhānáḥ ǀ astarítyastaḥ ǀ
    ávartayat ǀ sū́ryaḥ ǀ ná ǀ cakrám ǀ bhinát ǀ valám ǀ índraḥ ǀ áṅgirasvān ǁ

    asya ǀ suvānasya ǀ mandinaḥ ǀ tritasya ǀ ni ǀ arbudam ǀ vavṛdhānaḥ ǀ astarityastaḥ ǀ
    avartayat ǀ sūryaḥ ǀ na ǀ cakram ǀ bhinat ǀ valam ǀ indraḥ ǀ aṅgirasvān ǁ

    2.11.20 Aṣṭaka 2.6.6.5Anuvāka 2.1.109

  21. Ṛk 21

    नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।
    शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

    नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी |
    शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ||

    nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ
    śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁ

    nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
    śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

    नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।
    शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

    नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।
    शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

    nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ
    śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

    nūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ
    śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

    2.11.21 Aṣṭaka 2.6.6.6Anuvāka 2.1.110

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.11 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

HEAR thou my call, O Indra; be not heedless: thine may we be for thee to give us treasures; For these presented viands, seeking riches, increase thy strength like streams of water flowing.

Ṛk 2

Floods great and many, compassed by the Dragon, thou badest swell and settest free, O Hero. Strengthened by songs of praise thou rentest piecemeal the Dāsa, him who deemed himself immortal.

Ṛk 3

For, Hero, in the lauds wherein thou joyedst, in hymns of praise, O Indra, songs of Rudras, These streams in which is thy delight approach thee, even as the brilliant ones draw near to Vāyu.

Ṛk 4

We who add strength to thine own splendid vigour, laying within thine arms the splendid thunder— With us mayst thou, O Indra, waxen splendid, with Sūrya overcome the Dāsa races.

Ṛk 5

Hero, thou slewest in thy valour Ahi concealed in depths, mysterious, great enchanter, Dwelling enveloped deep within the waters, him who checked heaven and stayed the floods from flowing.

Ṛk 6

Indra, we laud thy great deeds wrought aforetime, we laud thine exploits later of achievement; We laud the bolt that in thine arms lies eager; we laud thy two Bay Steeds, heralds of Sūrya.

Ṛk 7

Indra, thy Bay Steeds showing forth their vigour have sent a loud cry out that droppeth fatness. The earth hath spread herself in all her fulness: the cloud that was about to move hath rested.

Ṛk 8

Down, never ceasing, hath the rain-cloud settled: bellowing, it hath wandered with the Mothers. Swelling the roar in the far distant limits, they have spread wide the blast sent forth by Indra.

Ṛk 9

Indra hath hurled down the magician Vṛtra who lay beleaguering the mighty river. Then both the heaven and earth trembled in terror at the strong Hero's thunder when he bellowed.

Ṛk 10

Loud roared the mighty Hero's bolt of thunder, when he, the Friend of man, burnt up the monster, And, having drunk his fill of flowing Soma, baffled the guileful Dānava's devices.

Ṛk 11

Drink thou, O Hero Indra, drink the Soma; let the joy-giving juices make thee joyful. They, filling both thy flanks, shall swell thy vigour. The juice that satisfies hath helped Indra.

Ṛk 12

Singers have we become with thee, O Indra: may we serve duly and prepare devotion. Seeking thy help we meditate thy praises: may we at once enjoy thy gift of riches.

Ṛk 13

May we be thine, such by thy help, O Indra, as swell thy vigour while they seek thy favour. Give us, thou God, the riches that we long for, most powerful, with stare of noble children.

Ṛk 14

Give us a friend, give us an habitation; Indra, give us the company of Maruts, And those whose minds accord with theirs, the Vāyus, who drink the first libation of the Soma.

Ṛk 15

Let those enjoy in whom thou art delighted. Indra, drink Soma for thy strength and gladness. Thou hast exalted us to heaven, Preserver, in battles, through the lofty hymns that praise thee.

Ṛk 16

Great, verily, are they, O thou Protector, who by their songs of praise have won the blessing. They who strew sacred grass to be thy dwelling, helped by thee have got them strength, O Indra.

Ṛk 17

Upon the great Trikadruka days, Hero, rejoicing thee, O Indra, drink the Soma. Come with Bay Steeds to drink of libation, shaking the drops from out thy beard, contented.

Ṛk 18

Hero, assume the might wherewith thou clavest Vṛtra piecemeal, the Dānava Aurṇavābha. Thou hast disclosed the light to light the Ārya: on thy left hand, O Indra, sank the Dasyu.

Ṛk 19

May we gain wealth, subduing with thy succour and with the Ārya, all our foes, the Dasyus. Our gain was that to Tṛta of our party thou gavest up Tvaṣṭar's son Viśvarūpa.

Ṛk 20

He cast down Arbuda what time his vigour was strengthened by libations poured by Tṛta. Indra sent forth his whirling wheel like Sūrya, and aided by the Aṅgirases rent Vala.