Ṛgveda · Maṇḍala 2

Sūkta 30

Indra, Savitṛ · Indra · Indra, Bṛhaspati · Indra, Soma · Sarasvatī (A), Indra (B) · Bṛhaspati · Maruts · Gṛtsamada Bhārgava Śaunaka · 11 ṛks

Link
Devatā देवता
1: Indra, Savitṛ; 2, 3, 5, 7, 10: Indra; 4: Indra, Bṛhaspati; 6: Indra, Soma; 8: Sarasvatī (A), Indra (B); 9: Bṛhaspati; 11: Maruts
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Triṣṭubh, Jagatī
Metres by ṛk

1st set of styles triṣṭup (4-7, 9); bhurikpaṅkti (1, 3); nicṛttriṣṭup (2, 8); virāṭtrisṭup (10); bhuriktriṣṭup (11)

2nd set of styles triṣṭubh (1-10); jagatī (11)

  1. Ṛk 1

    ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इंद्रा॑याहि॒घ्ने न र॑मंत॒ आपः॑ ।
    अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसां ॥

    ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः |
    अहर्-अहर् यात्य् अक्तुर् अपां कियात्य् आ प्रथमः सर्ग आसाम् ||

    ṛtám devā́ya kṛṇvaté savitrá índrāyāhighné ná ramanta ā́paḥ ǀ
    áharaharyātyaktúrapā́m kíyātyā́ prathamáḥ sárga āsām ǁ

    ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ |
    ahar-ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām ||

    ऋ॒तम् । दे॒वाय॑ । कृ॒ण्व॒ते । स॒वि॒त्रे । इन्द्रा॑य । अ॒हि॒ऽघ्ने । न । र॒म॒न्ते॒ । आपः॑ ।
    अहः॑ऽअहः । या॒ति॒ । अ॒क्तुः । अ॒पाम् । किय॑ति । आ । प्र॒थ॒मः । सर्गः॑ । आ॒सा॒म् ॥

    ऋतम् । देवाय । कृण्वते । सवित्रे । इन्द्राय । अहिऽघ्ने । न । रमन्ते । आपः ।
    अहःऽअहः । याति । अक्तुः । अपाम् । कियति । आ । प्रथमः । सर्गः । आसाम् ॥

    ṛtám ǀ devā́ya ǀ kṛṇvaté ǀ savitré ǀ índrāya ǀ ahi-ghné ǀ ná ǀ ramante ǀ ā́paḥ ǀ
    áhaḥ-ahaḥ ǀ yāti ǀ aktúḥ ǀ apā́m ǀ kíyati ǀ ā́ ǀ prathamáḥ ǀ sárgaḥ ǀ āsām ǁ

    ṛtam ǀ devāya ǀ kṛṇvate ǀ savitre ǀ indrāya ǀ ahi-ghne ǀ na ǀ ramante ǀ āpaḥ ǀ
    ahaḥ-ahaḥ ǀ yāti ǀ aktuḥ ǀ apām ǀ kiyati ǀ ā ǀ prathamaḥ ǀ sargaḥ ǀ āsām ǁ

    2.30.1 Aṣṭaka 2.7.12.1Anuvāka 2.3.80

  2. Ṛk 2

    यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच ।
    प॒थो रदं॑ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो यं॒त्यर्थं॑ ॥

    यो वृत्राय सिनम् अत्राभरिष्यत् प्र तं जनित्री विदुष उवाच |
    पथो रदन्तीर् अनु जोषम् अस्मै दिवे-दिवे धुनयो यन्त्य् अर्थम् ||

    yó vṛtrā́ya sínamátrā́bhariṣyatprá tám jánitrī vidúṣa uvāca ǀ
    pathó rádantīránu jóṣamasmai divédive dhúnayo yantyártham ǁ

    yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca |
    patho radantīr anu joṣam asmai dive-dive dhunayo yanty artham ||

    यः । वृ॒त्राय॑ । सिन॑म् । अत्र॑ । अभ॑रिष्यत् । प्र । तम् । जनि॑त्री । वि॒दुषे॑ । उ॒वा॒च॒ ।
    प॒थः । रद॑न्तीः । अनु॑ । जोष॑म् । अ॒स्मै॒ । दि॒वेऽदि॑वे । धुन॑यः । य॒न्ति॒ । अर्थ॑म् ॥

    यः । वृत्राय । सिनम् । अत्र । अभरिष्यत् । प्र । तम् । जनित्री । विदुषे । उवाच ।
    पथः । रदन्तीः । अनु । जोषम् । अस्मै । दिवेऽदिवे । धुनयः । यन्ति । अर्थम् ॥

    yáḥ ǀ vṛtrā́ya ǀ sínam ǀ átra ǀ ábhariṣyat ǀ prá ǀ tám ǀ jánitrī ǀ vidúṣe ǀ uvāca ǀ
    patháḥ ǀ rádantīḥ ǀ ánu ǀ jóṣam ǀ asmai ǀ divé-dive ǀ dhúnayaḥ ǀ yanti ǀ ártham ǁ

    yaḥ ǀ vṛtrāya ǀ sinam ǀ atra ǀ abhariṣyat ǀ pra ǀ tam ǀ janitrī ǀ viduṣe ǀ uvāca ǀ
    pathaḥ ǀ radantīḥ ǀ anu ǀ joṣam ǀ asmai ǀ dive-dive ǀ dhunayaḥ ǀ yanti ǀ artham ǁ

    2.30.2 Aṣṭaka 2.7.12.2Anuvāka 2.3.81

  3. Ṛk 3

    ऊ॒र्ध्वो ह्यस्था॒दध्यं॒तरि॒क्षेऽधा॑ वृ॒त्राय॒ प्र व॒धं ज॑भार ।
    मिहं॒ वसा॑न॒ उप॒ हीमदु॑द्रोत्ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिंद्रः॑ ॥

    ऊर्ध्वो ह्य् अस्थाद् अध्य् अन्तरिक्षे ऽधा वृत्राय प्र वधं जभार |
    मिहं वसान उप हीम् अदुद्रोत् तिग्मायुधो अजयच् छत्रुम् इन्द्रः ||

    ūrdhvó hyásthādádhyantárikṣé’dhā vṛtrā́ya prá vadhám jabhāra ǀ
    míham vásāna úpa hī́mádudrottigmā́yudho ajayacchátrumíndraḥ ǁ

    ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra |
    mihaṃ vasāna upa hīm adudrot tigmāyudho ajayac chatrum indraḥ ||

    ऊ॒र्ध्वः । हि । अस्था॑त् । अधि॑ । अ॒न्तरि॑क्षे । अध॑ । वृ॒त्राय॑ । प्र । व॒धम् । ज॒भा॒र॒ ।
    मिह॑म् । वसा॑नः । उप॑ । हि । ई॒म् । अदु॑द्रोत् । ति॒ग्मऽआ॑युधः । अ॒ज॒य॒त् । शत्रु॑म् । इन्द्रः॑ ॥

    ऊर्ध्वः । हि । अस्थात् । अधि । अन्तरिक्षे । अध । वृत्राय । प्र । वधम् । जभार ।
    मिहम् । वसानः । उप । हि । ईम् । अदुद्रोत् । तिग्मऽआयुधः । अजयत् । शत्रुम् । इन्द्रः ॥

    ūrdhváḥ ǀ hí ǀ ásthāt ǀ ádhi ǀ antárikṣe ǀ ádha ǀ vṛtrā́ya ǀ prá ǀ vadhám ǀ jabhāra ǀ
    míham ǀ vásānaḥ ǀ úpa ǀ hí ǀ īm ǀ ádudrot ǀ tigmá-āyudhaḥ ǀ ajayat ǀ śátrum ǀ índraḥ ǁ

    ūrdhvaḥ ǀ hi ǀ asthāt ǀ adhi ǀ antarikṣe ǀ adha ǀ vṛtrāya ǀ pra ǀ vadham ǀ jabhāra ǀ
    miham ǀ vasānaḥ ǀ upa ǀ hi ǀ īm ǀ adudrot ǀ tigma-āyudhaḥ ǀ ajayat ǀ śatrum ǀ indraḥ ǁ

    2.30.3 Aṣṭaka 2.7.12.3Anuvāka 2.3.82

  4. Ṛk 4

    बृह॑स्पते॒ तपु॒षाश्ने॑व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान् ।
    यथा॑ ज॒घंथ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिंद्र ॥

    बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् |
    यथा जघन्थ धृषता पुरा चिद् एवा जहि शत्रुम् अस्माकम् इन्द्र ||

    bṛ́haspate tápuṣā́śneva vidhya vṛ́kadvaraso ásurasya vīrā́n ǀ
    yáthā jaghántha dhṛṣatā́ purā́ cidevā́ jahi śátrumasmā́kamindra ǁ

    bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān |
    yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra ||

    बृह॑स्पते । तपु॑षा । अश्ना॑ऽइव । वि॒ध्य॒ । वृक॑ऽद्वरसः । असु॑रस्य । वी॒रान् ।
    यथा॑ । ज॒घन्थ॑ । धृ॒ष॒ता । पु॒रा । चि॒त् । ए॒व । ज॒हि॒ । शत्रु॑म् । अ॒स्माक॑म् । इ॒न्द्र॒ ॥

    बृहस्पते । तपुषा । अश्नाऽइव । विध्य । वृकऽद्वरसः । असुरस्य । वीरान् ।
    यथा । जघन्थ । धृषता । पुरा । चित् । एव । जहि । शत्रुम् । अस्माकम् । इन्द्र ॥

    bṛ́haspate ǀ tápuṣā ǀ áśnā-iva ǀ vidhya ǀ vṛ́ka-dvarasaḥ ǀ ásurasya ǀ vīrā́n ǀ
    yáthā ǀ jaghántha ǀ dhṛṣatā́ ǀ purā́ ǀ cit ǀ evá ǀ jahi ǀ śátrum ǀ asmā́kam ǀ indra ǁ

    bṛhaspate ǀ tapuṣā ǀ aśnā-iva ǀ vidhya ǀ vṛka-dvarasaḥ ǀ asurasya ǀ vīrān ǀ
    yathā ǀ jaghantha ǀ dhṛṣatā ǀ purā ǀ cit ǀ eva ǀ jahi ǀ śatrum ǀ asmākam ǀ indra ǁ

    2.30.4 Aṣṭaka 2.7.12.4Anuvāka 2.3.83

  5. Ṛk 5

    अव॑ क्षिप दि॒वो अश्मा॑नमु॒च्चा येन॒ शत्रुं॑ मंदसा॒नो नि॒जूर्वाः॑ ।
    तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे॑र॒स्माँ अ॒र्धं कृ॑णुतादिंद्र॒ गोनां॑ ॥

    अव क्षिप दिवो अश्मानम् उच्चा येन शत्रुम् मन्दसानो निजूर्वाः |
    तोकस्य सातौ तनयस्य भूरेर् अस्मां अर्धं कृणुताद् इन्द्र गोनाम् ||

    áva kṣipa divó áśmānamuccā́ yéna śátrum mandasānó nijū́rvāḥ ǀ
    tokásya sātáu tánayasya bhū́rerasmā́m̐ ardhám kṛṇutādindra gónām ǁ

    ava kṣipa divo aśmānam uccā yena śatrum mandasāno nijūrvāḥ |
    tokasya sātau tanayasya bhūrer asmāṃ ardhaṃ kṛṇutād indra gonām ||

    अव॑ । क्षि॒प॒ । दि॒वः । अश्मा॑नम् । उ॒च्चा । येन॑ । शत्रु॑म् । म॒न्द॒सा॒नः । नि॒ऽजूर्वाः॑ ।
    तो॒कस्य॑ । सा॒तौ । तन॑यस्य । भूरेः॑ । अ॒स्मान् । अ॒र्धम् । कृ॒णु॒ता॒त् । इ॒न्द्र॒ । गोना॑म् ॥

    अव । क्षिप । दिवः । अश्मानम् । उच्चा । येन । शत्रुम् । मन्दसानः । निऽजूर्वाः ।
    तोकस्य । सातौ । तनयस्य । भूरेः । अस्मान् । अर्धम् । कृणुतात् । इन्द्र । गोनाम् ॥

    áva ǀ kṣipa ǀ diváḥ ǀ áśmānam ǀ uccā́ ǀ yéna ǀ śátrum ǀ mandasānáḥ ǀ ni-jū́rvāḥ ǀ
    tokásya ǀ sātáu ǀ tánayasya ǀ bhū́reḥ ǀ asmā́n ǀ ardhám ǀ kṛṇutāt ǀ indra ǀ gónām ǁ

    ava ǀ kṣipa ǀ divaḥ ǀ aśmānam ǀ uccā ǀ yena ǀ śatrum ǀ mandasānaḥ ǀ ni-jūrvāḥ ǀ
    tokasya ǀ sātau ǀ tanayasya ǀ bhūreḥ ǀ asmān ǀ ardham ǀ kṛṇutāt ǀ indra ǀ gonām ǁ

    2.30.5 Aṣṭaka 2.7.12.5Anuvāka 2.3.84

  6. Ṛk 6

    प्र हि क्रतुं॑ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ ।
    इंद्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे॑ कृणुतमु लो॒कं ॥

    प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ |
    इन्द्रासोमा युवम् अस्मां अविष्टम् अस्मिन् भयस्थे कृणुतम् उ लोकम् ||

    prá hí krátum vṛhátho yám vanuthó radhrásya stho yájamānasya codáu ǀ
    índrāsomā yuvámasmā́m̐ aviṣṭamasmínbhayásthe kṛṇutamu lokám ǁ

    pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau |
    indrāsomā yuvam asmāṃ aviṣṭam asmin bhayasthe kṛṇutam u lokam ||

    प्र । हि । क्रतु॑म् । वृ॒हथः॑ । यम् । व॒नु॒थः । र॒ध्रस्य॑ । स्थः॒ । यज॑मानस्य । चो॒दौ ।
    इन्द्रा॑सोमा । यु॒वम् । अ॒स्मान् । अ॒वि॒ष्ट॒म् । अ॒स्मिन् । भ॒यऽस्थे॑ । कृ॒णु॒त॒म् । ऊं॒ इति॑ । लो॒कम् ॥

    प्र । हि । क्रतुम् । वृहथः । यम् । वनुथः । रध्रस्य । स्थः । यजमानस्य । चोदौ ।
    इन्द्रासोमा । युवम् । अस्मान् । अविष्टम् । अस्मिन् । भयऽस्थे । कृणुतम् । ऊं इति । लोकम् ॥

    prá ǀ hí ǀ krátum ǀ vṛháthaḥ ǀ yám ǀ vanutháḥ ǀ radhrásya ǀ sthaḥ ǀ yájamānasya ǀ codáu ǀ
    índrāsomā ǀ yuvám ǀ asmā́n ǀ aviṣṭam ǀ asmín ǀ bhayá-sthe ǀ kṛṇutam ǀ ūṃ íti ǀ lokám ǁ

    pra ǀ hi ǀ kratum ǀ vṛhathaḥ ǀ yam ǀ vanuthaḥ ǀ radhrasya ǀ sthaḥ ǀ yajamānasya ǀ codau ǀ
    indrāsomā ǀ yuvam ǀ asmān ǀ aviṣṭam ǀ asmin ǀ bhaya-sthe ǀ kṛṇutam ǀ ūṃ iti ǀ lokam ǁ

    2.30.6 Aṣṭaka 2.7.13.1Anuvāka 2.3.85

  7. Ṛk 7

    न मा॑ तम॒न्न श्र॑म॒न्नोत तं॑द्र॒न्न वो॑चाम॒ मा सु॑नो॒तेति॒ सोमं॑ ।
    यो मे॑ पृ॒णाद्यो दद॒द्यो नि॒बोधा॒द्यो मा॑ सु॒न्वंत॒मुप॒ गोभि॒राय॑त् ॥

    न मा तमन् न श्रमन् नोत तन्द्रन् न वोचाम मा सुनोतेति सोमम् |
    यो मे पृणाद् यो ददद् यो निबोधाद् यो मा सुन्वन्तम् उप गोभिर् आयत् ||

    ná mā tamanná śramannótá tandranná vocāma mā́ sunotéti sómam ǀ
    yó me pṛṇā́dyó dádadyó nibódhādyó mā sunvántamúpa góbhirā́yat ǁ

    na mā taman na śraman nota tandran na vocāma mā sunoteti somam |
    yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat ||

    न । मा॒ । त॒म॒त् । न । श्र॒म॒त् । न । उ॒त । त॒न्द्र॒त् । न । वो॒चा॒म॒ । मा । सु॒नो॒त॒ । इति॑ । सोम॑म् ।
    यः । मे॒ । पृ॒णात् । यः । दद॑त् । यः । नि॒ऽबोधा॑त् । यः । मा॒ । सु॒न्वन्त॑म् । उप॑ । गोभिः॑ । आ । अय॑त् ॥

    न । मा । तमत् । न । श्रमत् । न । उत । तन्द्रत् । न । वोचाम । मा । सुनोत । इति । सोमम् ।
    यः । मे । पृणात् । यः । ददत् । यः । निऽबोधात् । यः । मा । सुन्वन्तम् । उप । गोभिः । आ । अयत् ॥

    ná ǀ mā ǀ tamat ǀ ná ǀ śramat ǀ ná ǀ utá ǀ tandrat ǀ ná ǀ vocāma ǀ mā́ ǀ sunota ǀ íti ǀ sómam ǀ
    yáḥ ǀ me ǀ pṛṇā́t ǀ yáḥ ǀ dádat ǀ yáḥ ǀ ni-bódhāt ǀ yáḥ ǀ mā ǀ sunvántam ǀ úpa ǀ góbhiḥ ǀ ā́ ǀ áyat ǁ

    na ǀ mā ǀ tamat ǀ na ǀ śramat ǀ na ǀ uta ǀ tandrat ǀ na ǀ vocāma ǀ mā ǀ sunota ǀ iti ǀ somam ǀ
    yaḥ ǀ me ǀ pṛṇāt ǀ yaḥ ǀ dadat ǀ yaḥ ǀ ni-bodhāt ǀ yaḥ ǀ mā ǀ sunvantam ǀ upa ǀ gobhiḥ ǀ ā ǀ ayat ǁ

    2.30.7 Aṣṭaka 2.7.13.2Anuvāka 2.3.86

  8. Ṛk 8

    सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न् ।
    त्यं चि॒च्छर्धं॑तं तविषी॒यमा॑ण॒मिंद्रो॑ हंति वृष॒भं शंडि॑कानां ॥

    सरस्वति त्वम् अस्मां अविड्ढि मरुत्वती धृषती जेषि शत्रून् |
    त्यं चिच् छर्धन्तं तविषीयमाणम् इन्द्रो हन्ति वृषभं शण्डिकानाम् ||

    sárasvati tvámasmā́m̐ aviḍḍhi marútvatī dhṛṣatī́ jeṣi śátrūn ǀ
    tyám cicchárdhantam taviṣīyámāṇamíndro hanti vṛṣabhám śáṇḍikānām ǁ

    sarasvati tvam asmāṃ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn |
    tyaṃ cic chardhantaṃ taviṣīyamāṇam indro hanti vṛṣabhaṃ śaṇḍikānām ||

    सर॑स्वति । त्वम् । अ॒स्मान् । अ॒वि॒ड्ढि॒ । म॒रुत्व॑ती । धृ॒ष॒ती । जे॒षि॒ । शत्रू॑न् ।
    त्यम् । चि॒त् । शर्ध॑न्तम् । त॒वि॒षी॒ऽयमा॑णम् । इन्द्रः॑ । ह॒न्ति॒ । वृ॒ष॒भम् । शण्डि॑कानाम् ॥

    सरस्वति । त्वम् । अस्मान् । अविड्ढि । मरुत्वती । धृषती । जेषि । शत्रून् ।
    त्यम् । चित् । शर्धन्तम् । तविषीऽयमाणम् । इन्द्रः । हन्ति । वृषभम् । शण्डिकानाम् ॥

    sárasvati ǀ tvám ǀ asmā́n ǀ aviḍḍhi ǀ marútvatī ǀ dhṛṣatī́ ǀ jeṣi ǀ śátrūn ǀ
    tyám ǀ cit ǀ śárdhantam ǀ taviṣī-yámāṇam ǀ índraḥ ǀ hanti ǀ vṛṣabhám ǀ śáṇḍikānām ǁ

    sarasvati ǀ tvam ǀ asmān ǀ aviḍḍhi ǀ marutvatī ǀ dhṛṣatī ǀ jeṣi ǀ śatrūn ǀ
    tyam ǀ cit ǀ śardhantam ǀ taviṣī-yamāṇam ǀ indraḥ ǀ hanti ǀ vṛṣabham ǀ śaṇḍikānām ǁ

    2.30.8 Aṣṭaka 2.7.13.3Anuvāka 2.3.87

  9. Ṛk 9

    यो नः॒ सनु॑त्य उ॒त वा॑ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य ।
    बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रूं॑द्रु॒हे रीषं॑तं॒ परि॑ धेहि राजन् ॥

    यो नः सनुत्य उत वा जिघत्नुर् अभिख्याय तं तिगितेन विध्य |
    बृहस्पत आयुधैर् जेषि शत्रून् द्रुहे रीषन्तम् परि धेहि राजन् ||

    yó naḥ sánutya utá vā jighatnúrabhikhyā́ya tám tigiténa vidhya ǀ
    bṛ́haspata ā́yudhairjeṣi śátrūndruhé rī́ṣantam pári dhehi rājan ǁ

    yo naḥ sanutya uta vā jighatnur abhikhyāya taṃ tigitena vidhya |
    bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan ||

    यः । नः॒ । सनु॑त्यः । उ॒त । वा॒ । जि॒घ॒त्नुः । अ॒भि॒ऽख्याय॑ । तम् । ति॒गि॒तेन॑ । वि॒ध्य॒ ।
    बृह॑स्पते । आयु॑धैः । जे॒षि॒ । शत्रू॑न् । द्रु॒हे । रिष॑न्तम् । परि॑ । धे॒हि॒ । रा॒ज॒न् ॥

    यः । नः । सनुत्यः । उत । वा । जिघत्नुः । अभिऽख्याय । तम् । तिगितेन । विध्य ।
    बृहस्पते । आयुधैः । जेषि । शत्रून् । द्रुहे । रिषन्तम् । परि । धेहि । राजन् ॥

    yáḥ ǀ naḥ ǀ sánutyaḥ ǀ utá ǀ vā ǀ jighatnúḥ ǀ abhi-khyā́ya ǀ tám ǀ tigiténa ǀ vidhya ǀ
    bṛ́haspate ǀ ā́yudhaiḥ ǀ jeṣi ǀ śátrūn ǀ druhé ǀ ríṣantam ǀ pári ǀ dhehi ǀ rājan ǁ

    yaḥ ǀ naḥ ǀ sanutyaḥ ǀ uta ǀ vā ǀ jighatnuḥ ǀ abhi-khyāya ǀ tam ǀ tigitena ǀ vidhya ǀ
    bṛhaspate ǀ āyudhaiḥ ǀ jeṣi ǀ śatrūn ǀ druhe ǀ riṣantam ǀ pari ǀ dhehi ǀ rājan ǁ

    2.30.9 Aṣṭaka 2.7.13.4Anuvāka 2.3.88

  10. Ṛk 10

    अ॒स्माके॑भिः॒ सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि ।
    ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि ॥

    अस्माकेभिः सत्वभिः शूर शूरैर् वीर्या कृधि यानि ते कर्त्वानि |
    ज्योग् अभूवन्न् अनुधूपितासो हत्वी तेषाम् आ भरा नो वसूनि ||

    asmā́kebhiḥ sátvabhiḥ śūra śū́rairvīryā́ kṛdhi yā́ni te kártvāni ǀ
    jyógabhūvannánudhūpitāso hatvī́ téṣāmā́ bharā no vásūni ǁ

    asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni |
    jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni ||

    अ॒स्माके॑भिः । सत्व॑ऽभिः । शू॒र॒ । शूरैः॑ । वी॒र्या॑ । कृ॒धि॒ । यानि॑ । ते॒ । कर्त्वा॑नि ।
    ज्योक् । अ॒भू॒व॒न् । अनु॑ऽधूपितासः । ह॒त्वी । तेषा॑म् । आ । भ॒र॒ । नः॒ । वसू॑नि ॥

    अस्माकेभिः । सत्वऽभिः । शूर । शूरैः । वीर्या । कृधि । यानि । ते । कर्त्वानि ।
    ज्योक् । अभूवन् । अनुऽधूपितासः । हत्वी । तेषाम् । आ । भर । नः । वसूनि ॥

    asmā́kebhiḥ ǀ sátva-bhiḥ ǀ śūra ǀ śū́raiḥ ǀ vīryā́ ǀ kṛdhi ǀ yā́ni ǀ te ǀ kártvāni ǀ
    jyók ǀ abhūvan ǀ ánu-dhūpitāsaḥ ǀ hatvī́ ǀ téṣām ǀ ā́ ǀ bhara ǀ naḥ ǀ vásūni ǁ

    asmākebhiḥ ǀ satva-bhiḥ ǀ śūra ǀ śūraiḥ ǀ vīryā ǀ kṛdhi ǀ yāni ǀ te ǀ kartvāni ǀ
    jyok ǀ abhūvan ǀ anu-dhūpitāsaḥ ǀ hatvī ǀ teṣām ǀ ā ǀ bhara ǀ naḥ ǀ vasūni ǁ

    2.30.10 Aṣṭaka 2.7.13.5Anuvāka 2.3.89

  11. Ṛk 11

    तं वः॒ शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जनं॑ ।
    यथा॑ र॒यिं सर्व॑वीरं॒ नशा॑महा अपत्य॒साचं॒ श्रुत्यं॑ दि॒वेदि॑वे ॥

    तं वः शर्धम् मारुतं सुम्नयुर् गिरोप ब्रुवे नमसा दैव्यं जनम् |
    यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवे-दिवे ||

    tám vaḥ śárdham mā́rutam sumnayúrgirópa bruve námasā dáivyam jánam ǀ
    yáthā rayím sárvavīram náśāmahā apatyasā́cam śrútyam divédive ǁ

    taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam |
    yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive-dive ||

    तम् । वः॒ । शर्ध॑म् । मारु॑तम् । सु॒म्न॒ऽयुः । गि॒रा । उप॑ । ब्रु॒वे॒ । नम॑सा । दैव्य॑म् । जन॑म् ।
    यथा॑ । र॒यिम् । सर्व॑ऽवीरम् । नशा॑महै । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । दि॒वेऽदि॑वे ॥

    तम् । वः । शर्धम् । मारुतम् । सुम्नऽयुः । गिरा । उप । ब्रुवे । नमसा । दैव्यम् । जनम् ।
    यथा । रयिम् । सर्वऽवीरम् । नशामहै । अपत्यऽसाचम् । श्रुत्यम् । दिवेऽदिवे ॥

    tám ǀ vaḥ ǀ śárdham ǀ mā́rutam ǀ sumna-yúḥ ǀ girā́ ǀ úpa ǀ bruve ǀ námasā ǀ dáivyam ǀ jánam ǀ
    yáthā ǀ rayím ǀ sárva-vīram ǀ náśāmahai ǀ apatya-sā́cam ǀ śrútyam ǀ divé-dive ǁ

    tam ǀ vaḥ ǀ śardham ǀ mārutam ǀ sumna-yuḥ ǀ girā ǀ upa ǀ bruve ǀ namasā ǀ daivyam ǀ janam ǀ
    yathā ǀ rayim ǀ sarva-vīram ǀ naśāmahai ǀ apatya-sācam ǀ śrutyam ǀ dive-dive ǁ

    2.30.11 Aṣṭaka 2.7.13.6Anuvāka 2.3.90

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.30 · Indra, Savitṛ · Indra · Indra, Bṛhaspati · Indra, Soma · Sarasvatī (A), Indra (B) · Bṛhaspati · Maruts

Interpretations

Ralph T. H. Griffith

Ṛk 1

THE streams unceasing flow to Indra, slayer of Ahi, Savitar, God, Law's fulfiller, Day after day goes on the sheen of waters. What time hath past since they were first set flowing?

Ṛk 2

His Mother—for she knew—spake and proclaimed him who was about to cast his bolt at Vṛtra. Cutting their paths according to his pleasure day after day flow to their goal the rivers.

Ṛk 3

Aloft he stood above the airy region, and against Vṛtra shot his deadly missile. Enveloped in a cloud he rushed upon him. Indra subdued the foe with sharpened weapons.

Ṛk 4

As with a bolt, Bṛhaspati, fiercely flaming, pierce thou Vṛkadvaras’, the Asura's, heroes. Even as in time of old with might thou slewest, so slay even now our enemy, O Indra.

Ṛk 5

Cast down from heaven on high thy bolt of thunder wherewith in joy thou smitest dead the foeman. For gain of children make us thine, O Indra, of many children's children and of cattle.

Ṛk 6

Whomso ye love, his power ye aid and strengthen; ye Twain are the rich worshipper's advancers. Graciously favour us, Indra and Soma; give us firm standing in this time of danger.

Ṛk 7

Let it not vex me, tire me, make me slothful, and never let us say, Press not the Soma; For him who cares for me, gives gifts, supports me, who comes with kine to me who pour libations.

Ṛk 8

Sarasvatī, protect us: with the Maruts allied thou boldly conquerest our foemen, While Indra does to death the daring chieftain of Śaṇḍikas exulting in his prowess.

Ṛk 9

Him who waylays, yea, him who would destroy us,—aim at him, pierce him with thy sharpened weapon. Bṛhaspati, with arms thou slayest foemen O King, give up the spoiler to destruction.

Ṛk 10

Perform, O Hero, with our valiant heroes the deeds heroic which thou hast to finish. Long have they been inflated with presumption: slay them, and bring us hither their possessions.