Ṛk 2.30.2
Saṃhitā
यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच ।
प॒थो रदं॑ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो यं॒त्यर्थं॑ ॥
यो वृत्राय सिनम् अत्राभरिष्यत् प्र तं जनित्री विदुष उवाच |
पथो रदन्तीर् अनु जोषम् अस्मै दिवे-दिवे धुनयो यन्त्य् अर्थम् ||
yó vṛtrā́ya sínamátrā́bhariṣyatprá tám jánitrī vidúṣa uvāca ǀ
pathó rádantīránu jóṣamasmai divédive dhúnayo yantyártham ǁ
yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca |
patho radantīr anu joṣam asmai dive-dive dhunayo yanty artham ||
Padapāṭha
यः । वृ॒त्राय॑ । सिन॑म् । अत्र॑ । अभ॑रिष्यत् । प्र । तम् । जनि॑त्री । वि॒दुषे॑ । उ॒वा॒च॒ ।
प॒थः । रद॑न्तीः । अनु॑ । जोष॑म् । अ॒स्मै॒ । दि॒वेऽदि॑वे । धुन॑यः । य॒न्ति॒ । अर्थ॑म् ॥
यः । वृत्राय । सिनम् । अत्र । अभरिष्यत् । प्र । तम् । जनित्री । विदुषे । उवाच ।
पथः । रदन्तीः । अनु । जोषम् । अस्मै । दिवेऽदिवे । धुनयः । यन्ति । अर्थम् ॥
yáḥ ǀ vṛtrā́ya ǀ sínam ǀ átra ǀ ábhariṣyat ǀ prá ǀ tám ǀ jánitrī ǀ vidúṣe ǀ uvāca ǀ
patháḥ ǀ rádantīḥ ǀ ánu ǀ jóṣam ǀ asmai ǀ divé-dive ǀ dhúnayaḥ ǀ yanti ǀ ártham ǁ
yaḥ ǀ vṛtrāya ǀ sinam ǀ atra ǀ abhariṣyat ǀ pra ǀ tam ǀ janitrī ǀ viduṣe ǀ uvāca ǀ
pathaḥ ǀ radantīḥ ǀ anu ǀ joṣam ǀ asmai ǀ dive-dive ǀ dhunayaḥ ǀ yanti ǀ artham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.030.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.12.02
- Maṇḍala · Anuvāka · Ṛk
- 02.03.081
- Devatā देवता
- 1: Indra, Savitṛ; 2, 3, 5, 7, 10: Indra; 4: Indra, Bṛhaspati; 6: Indra, Soma; 8: Sarasvatī (A), Indra (B); 9: Bṛhaspati; 11: Maruts
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.