Ṛgveda · Maṇḍala 2

Sūkta 2

Agni · Gṛtsamada Bhārgava Śaunaka · 13 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Jagatī
Metres by ṛk

1st set of styles virāḍjagatī (1, 2, 7, 12); bhuriktriṣṭup (3, 8, 10, 11); nicṛjjagatī (5, 6, 9, 13); jagatī (4)

2nd set of styles jagatī

  1. Ṛk 1

    य॒ज्ञेन॑ वर्धत जा॒तवे॑दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना॑ गि॒रा ।
    स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व॑र्णरं द्यु॒क्षं होता॑रं वृ॒जने॑षु धू॒र्षदं॑ ॥

    यज्ञेन वर्धत जातवेदसम् अग्निं यजध्वं हविषा तना गिरा |
    समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ||

    yajñéna vardhata jātávedasamagním yajadhvam havíṣā tánā girā́ ǀ
    samidhānám suprayásam svárṇaram dyukṣám hótāram vṛjáneṣu dhūrṣádam ǁ

    yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā |
    samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃ vṛjaneṣu dhūrṣadam ||

    य॒ज्ञेन॑ । व॒र्ध॒त॒ । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज॒ध्व॒म् । ह॒विषा॑ । तना॑ । गि॒रा ।
    स॒म्ऽइ॒धा॒नम् । सु॒ऽप्र॒यस॑म् । स्वः॑ऽनरम् । द्यु॒क्षम् । होता॑रम् । वृ॒जने॑षु । धूः॒ऽसद॑म् ॥

    यज्ञेन । वर्धत । जातऽवेदसम् । अग्निम् । यजध्वम् । हविषा । तना । गिरा ।
    सम्ऽइधानम् । सुऽप्रयसम् । स्वःऽनरम् । द्युक्षम् । होतारम् । वृजनेषु । धूःऽसदम् ॥

    yajñéna ǀ vardhata ǀ jātá-vedasam ǀ agním ǀ yajadhvam ǀ havíṣā ǀ tánā ǀ girā́ ǀ
    sam-idhānám ǀ su-prayásam ǀ sváḥ-naram ǀ dyukṣám ǀ hótāram ǀ vṛjáneṣu ǀ dhūḥ-sádam ǁ

    yajñena ǀ vardhata ǀ jāta-vedasam ǀ agnim ǀ yajadhvam ǀ haviṣā ǀ tanā ǀ girā ǀ
    sam-idhānam ǀ su-prayasam ǀ svaḥ-naram ǀ dyukṣam ǀ hotāram ǀ vṛjaneṣu ǀ dhūḥ-sadam ǁ

    2.2.1 Aṣṭaka 2.5.20.1Anuvāka 2.1.17

  2. Ṛk 2

    अ॒भि त्वा॒ नक्ती॑रु॒षसो॑ ववाशि॒रेऽग्ने॑ व॒त्सं न स्वस॑रेषु धे॒नवः॑ ।
    दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो॑ भासि पुरुवार सं॒यतः॑ ॥

    अभि त्वा नक्तीर् उषसो ववाशिरे ऽग्ने वत्सं न स्वसरेषु धेनवः |
    दिव इवेद् अरतिर् मानुषा युगा क्षपो भासि पुरुवार संयतः ||

    abhí tvā náktīruṣáso vavāśiré’gne vatsám ná svásareṣu dhenávaḥ ǀ
    divá ivédaratírmā́nuṣā yugā́ kṣápo bhāsi puruvāra saṃyátaḥ ǁ

    abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ |
    diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ ||

    अ॒भि । त्वा॒ । नक्तीः॑ । उ॒षसः॑ । व॒वा॒शि॒रे॒ । अग्ने॑ । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ ।
    दि॒वःऽइ॑व । इत् । अ॒र॒तिः । मानु॑षा । यु॒गा । आ । क्षपः॑ । भा॒सि॒ । पु॒रु॒ऽवा॒र॒ । स॒म्ऽयतः॑ ॥

    अभि । त्वा । नक्तीः । उषसः । ववाशिरे । अग्ने । वत्सम् । न । स्वसरेषु । धेनवः ।
    दिवःऽइव । इत् । अरतिः । मानुषा । युगा । आ । क्षपः । भासि । पुरुऽवार । सम्ऽयतः ॥

    abhí ǀ tvā ǀ náktīḥ ǀ uṣásaḥ ǀ vavāśire ǀ ágne ǀ vatsám ǀ ná ǀ svásareṣu ǀ dhenávaḥ ǀ
    diváḥ-iva ǀ ít ǀ aratíḥ ǀ mā́nuṣā ǀ yugā́ ǀ ā́ ǀ kṣápaḥ ǀ bhāsi ǀ puru-vāra ǀ sam-yátaḥ ǁ

    abhi ǀ tvā ǀ naktīḥ ǀ uṣasaḥ ǀ vavāśire ǀ agne ǀ vatsam ǀ na ǀ svasareṣu ǀ dhenavaḥ ǀ
    divaḥ-iva ǀ it ǀ aratiḥ ǀ mānuṣā ǀ yugā ǀ ā ǀ kṣapaḥ ǀ bhāsi ǀ puru-vāra ǀ sam-yataḥ ǁ

    2.2.2 Aṣṭaka 2.5.20.2Anuvāka 2.1.18

  3. Ṛk 3

    तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये॑रिरे ।
    रथ॑मिव॒ वेद्यं॑ शु॒क्रशो॑चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्यं॑ ॥

    तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योर् अरतिं न्य् एरिरे |
    रथम् इव वेद्यं शुक्रशोचिषम् अग्निम् मित्रं न क्षितिषु प्रशंस्यम् ||

    tám devā́ budhné rájasaḥ sudáṃsasam diváspṛthivyóraratím nyérire ǀ
    ráthamiva védyam śukráśociṣamagním mitrám ná kṣitíṣu praśáṃsyam ǁ

    taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyor aratiṃ ny erire |
    ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam ||

    तम् । दे॒वाः । बु॒ध्ने । रज॑सः । सु॒ऽदंस॑सम् । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिम् । नि । ए॒रि॒रे॒ ।
    रथ॑म्ऽइव । वेद्य॑म् । शु॒क्रऽशो॑चिषम् । अ॒ग्निम् । मि॒त्रम् । न । क्षि॒तिषु॑ । प्र॒ऽशंस्य॑म् ॥

    तम् । देवाः । बुध्ने । रजसः । सुऽदंससम् । दिवःपृथिव्योः । अरतिम् । नि । एरिरे ।
    रथम्ऽइव । वेद्यम् । शुक्रऽशोचिषम् । अग्निम् । मित्रम् । न । क्षितिषु । प्रऽशंस्यम् ॥

    tám ǀ devā́ḥ ǀ budhné ǀ rájasaḥ ǀ su-dáṃsasam ǀ diváḥpṛthivyóḥ ǀ aratím ǀ ní ǀ erire ǀ
    rátham-iva ǀ védyam ǀ śukrá-śociṣam ǀ agním ǀ mitrám ǀ ná ǀ kṣitíṣu ǀ pra-śáṃsyam ǁ

    tam ǀ devāḥ ǀ budhne ǀ rajasaḥ ǀ su-daṃsasam ǀ divaḥpṛthivyoḥ ǀ aratim ǀ ni ǀ erire ǀ
    ratham-iva ǀ vedyam ǀ śukra-śociṣam ǀ agnim ǀ mitram ǀ na ǀ kṣitiṣu ǀ pra-śaṃsyam ǁ

    2.2.3 Aṣṭaka 2.5.20.3Anuvāka 2.1.19

  4. Ṛk 4

    तमु॒क्षमा॑णं॒ रज॑सि॒ स्व आ दमे॑ चं॒द्रमि॑व सु॒रुचं॑ ह्वा॒र आ द॑धुः ।
    पृश्न्याः॑ पत॒रं चि॒तयं॑तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑ ॥

    तम् उक्षमाणं रजसि स्व आ दमे चन्द्रम् इव सुरुचं ह्वार आ दधुः |
    पृश्न्याः पतरं चितयन्तम् अक्षभिः पाथो न पायुं जनसी उभे अनु ||

    támukṣámāṇam rájasi svá ā́ dáme candrámiva surúcam hvārá ā́ dadhuḥ ǀ
    pṛ́śnyāḥ patarám citáyantamakṣábhiḥ pāthó ná pāyúm jánasī ubhé ánu ǁ

    tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ |
    pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu ||

    तम् । उ॒क्षमा॑णम् । रज॑सि । स्वे । आ । दमे॑ । च॒न्द्रम्ऽइ॑व । सु॒ऽरुच॑म् । ह्वा॒रे । आ । द॒धुः॒ ।
    पृश्न्याः॑ । प॒त॒रम् । चि॒तय॑न्तम् । अ॒क्षऽभिः॑ । पा॒थः । न । पा॒युम् । जन॑सी॒ इति॑ । उ॒भे इति॑ । अनु॑ ॥

    तम् । उक्षमाणम् । रजसि । स्वे । आ । दमे । चन्द्रम्ऽइव । सुऽरुचम् । ह्वारे । आ । दधुः ।
    पृश्न्याः । पतरम् । चितयन्तम् । अक्षऽभिः । पाथः । न । पायुम् । जनसी इति । उभे इति । अनु ॥

    tám ǀ ukṣámāṇam ǀ rájasi ǀ své ǀ ā́ ǀ dáme ǀ candrám-iva ǀ su-rúcam ǀ hvāré ǀ ā́ ǀ dadhuḥ ǀ
    pṛ́śnyāḥ ǀ patarám ǀ citáyantam ǀ akṣá-bhiḥ ǀ pātháḥ ǀ ná ǀ pāyúm ǀ jánasī íti ǀ ubhé íti ǀ ánu ǁ

    tam ǀ ukṣamāṇam ǀ rajasi ǀ sve ǀ ā ǀ dame ǀ candram-iva ǀ su-rucam ǀ hvāre ǀ ā ǀ dadhuḥ ǀ
    pṛśnyāḥ ǀ pataram ǀ citayantam ǀ akṣa-bhiḥ ǀ pāthaḥ ǀ na ǀ pāyum ǀ janasī iti ǀ ubhe iti ǀ anu ǁ

    2.2.4 Aṣṭaka 2.5.20.4Anuvāka 2.1.20

  5. Ṛk 5

    स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋंजते गि॒रा ।
    हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑ ॥

    स होता विश्वम् परि भूत्व् अध्वरं तम् उ हव्यैर् मनुष ऋञ्जते गिरा |
    हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर् न स्तृभिश् चितयद् रोदसी अनु ||

    sá hótā víśvam pári bhūtvadhvarám támu havyáirmánuṣa ṛñjate girā́ ǀ
    hiriśipró vṛdhasānā́su járbhuraddyáurná stṛ́bhiścitayadródasī ánu ǁ

    sa hotā viśvam pari bhūtv adhvaraṃ tam u havyair manuṣa ṛñjate girā |
    hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu ||

    सः । होता॑ । विश्व॑म् । परि॑ । भू॒तु॒ । अ॒ध्व॒रम् । तम् । ऊं॒ इति॑ । ह॒व्यैः । मनु॑षः । ऋ॒ञ्ज॒ते॒ । गि॒रा ।
    हि॒रि॒ऽशि॒प्रः । वृ॒ध॒सा॒नासु॑ । जर्भु॑रत् । द्यौः । न । स्तृऽभिः॑ । चि॒त॒य॒त् । रोद॑सी॒ इति॑ । अनु॑ ॥

    सः । होता । विश्वम् । परि । भूतु । अध्वरम् । तम् । ऊं इति । हव्यैः । मनुषः । ऋञ्जते । गिरा ।
    हिरिऽशिप्रः । वृधसानासु । जर्भुरत् । द्यौः । न । स्तृऽभिः । चितयत् । रोदसी इति । अनु ॥

    sáḥ ǀ hótā ǀ víśvam ǀ pári ǀ bhūtu ǀ adhvarám ǀ tám ǀ ūṃ íti ǀ havyáiḥ ǀ mánuṣaḥ ǀ ṛñjate ǀ girā́ ǀ
    hiri-śipráḥ ǀ vṛdhasānā́su ǀ járbhurat ǀ dyáuḥ ǀ ná ǀ stṛ́-bhiḥ ǀ citayat ǀ ródasī íti ǀ ánu ǁ

    saḥ ǀ hotā ǀ viśvam ǀ pari ǀ bhūtu ǀ adhvaram ǀ tam ǀ ūṃ iti ǀ havyaiḥ ǀ manuṣaḥ ǀ ṛñjate ǀ girā ǀ
    hiri-śipraḥ ǀ vṛdhasānāsu ǀ jarbhurat ǀ dyauḥ ǀ na ǀ stṛ-bhiḥ ǀ citayat ǀ rodasī iti ǀ anu ǁ

    2.2.5 Aṣṭaka 2.5.20.5Anuvāka 2.1.21

  6. Ṛk 6

    स नो॑ रे॒वत्स॑मिधा॒नः स्व॒स्तये॑ संदद॒स्वान्र॒यिम॒स्मासु॑ दीदिहि ।
    आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒ अग्ने॑ ह॒व्या मनु॑षो देव वी॒तये॑ ॥

    स नो रेवत् समिधानः स्वस्तये संददस्वान् रयिम् अस्मासु दीदिहि |
    आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ||

    sá no revátsamidhānáḥ svastáye saṃdadasvā́nrayímasmā́su dīdihi ǀ
    ā́ naḥ kṛṇuṣva suvitā́ya ródasī ágne havyā́ mánuṣo deva vītáye ǁ

    sa no revat samidhānaḥ svastaye saṃdadasvān rayim asmāsu dīdihi |
    ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye ||

    सः । नः॒ । रे॒वत् । स॒म्ऽइ॒धा॒नः । स्व॒स्तये॑ । स॒म्ऽद॒द॒स्वान् । र॒यिम् । अ॒स्मासु॑ । दी॒दि॒हि॒ ।
    आ । नः॒ । कृ॒णु॒ष्व॒ । सु॒वि॒ताय॑ । रोद॑सी॒ इति॑ । अग्ने॑ । ह॒व्या । मनु॑षः । दे॒व॒ । वी॒तये॑ ॥

    सः । नः । रेवत् । सम्ऽइधानः । स्वस्तये । सम्ऽददस्वान् । रयिम् । अस्मासु । दीदिहि ।
    आ । नः । कृणुष्व । सुविताय । रोदसी इति । अग्ने । हव्या । मनुषः । देव । वीतये ॥

    sáḥ ǀ naḥ ǀ revát ǀ sam-idhānáḥ ǀ svastáye ǀ sam-dadasvā́n ǀ rayím ǀ asmā́su ǀ dīdihi ǀ
    ā́ ǀ naḥ ǀ kṛṇuṣva ǀ suvitā́ya ǀ ródasī íti ǀ ágne ǀ havyā́ ǀ mánuṣaḥ ǀ deva ǀ vītáye ǁ

    saḥ ǀ naḥ ǀ revat ǀ sam-idhānaḥ ǀ svastaye ǀ sam-dadasvān ǀ rayim ǀ asmāsu ǀ dīdihi ǀ
    ā ǀ naḥ ǀ kṛṇuṣva ǀ suvitāya ǀ rodasī iti ǀ agne ǀ havyā ǀ manuṣaḥ ǀ deva ǀ vītaye ǁ

    2.2.6 Aṣṭaka 2.5.21.1Anuvāka 2.1.22

  7. Ṛk 7

    दा नो॑ अग्ने बृह॒तो दाः स॑ह॒स्रिणो॑ दु॒रो न वाजं॒ श्रुत्या॒ अपा॑ वृधि ।
    प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॒॑र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतः ॥

    दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि |
    प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर् ण शुक्रम् उषसो वि दिद्युतः ||

    dā́ no agne bṛható dā́ḥ sahasríṇo duró ná vā́jam śrútyā ápā vṛdhi ǀ
    prā́cī dyā́vāpṛthivī́ bráhmaṇā kṛdhi svárṇá śukrámuṣáso ví didyutaḥ ǁ

    dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi |
    prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ ||

    दाः । नः॒ । अ॒ग्ने॒ । बृ॒ह॒तः । दाः । स॒ह॒स्रिणः॑ । दु॒रः । न । वाज॑म् । श्रुत्यै॑ । अप॑ । वृ॒धि॒ ।
    प्राची॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । ब्रह्म॑णा । कृ॒धि॒ । स्वः॑ । न । शु॒क्रम् । उ॒षसः॑ । वि । दि॒द्यु॒तः॒ ॥

    दाः । नः । अग्ने । बृहतः । दाः । सहस्रिणः । दुरः । न । वाजम् । श्रुत्यै । अप । वृधि ।
    प्राची इति । द्यावापृथिवी इति । ब्रह्मणा । कृधि । स्वः । न । शुक्रम् । उषसः । वि । दिद्युतः ॥

    dā́ḥ ǀ naḥ ǀ agne ǀ bṛhatáḥ ǀ dā́ḥ ǀ sahasríṇaḥ ǀ duráḥ ǀ ná ǀ vā́jam ǀ śrútyai ǀ ápa ǀ vṛdhi ǀ
    prā́cī íti ǀ dyā́vāpṛthivī́ íti ǀ bráhmaṇā ǀ kṛdhi ǀ sváḥ ǀ ná ǀ śukrám ǀ uṣásaḥ ǀ ví ǀ didyutaḥ ǁ

    dāḥ ǀ naḥ ǀ agne ǀ bṛhataḥ ǀ dāḥ ǀ sahasriṇaḥ ǀ duraḥ ǀ na ǀ vājam ǀ śrutyai ǀ apa ǀ vṛdhi ǀ
    prācī iti ǀ dyāvāpṛthivī iti ǀ brahmaṇā ǀ kṛdhi ǀ svaḥ ǀ na ǀ śukram ǀ uṣasaḥ ǀ vi ǀ didyutaḥ ǁ

    2.2.7 Aṣṭaka 2.5.21.2Anuvāka 2.1.23

  8. Ṛk 8

    स इ॑धा॒न उ॒षसो॒ राम्या॒ अनु॒ स्व१॒॑र्ण दी॑देदरु॒षेण॑ भा॒नुना॑ ।
    होत्रा॑भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा॑ वि॒शामति॑थि॒श्चारु॑रा॒यवे॑ ॥

    स इधान उषसो राम्या अनु स्वर् ण दीदेद् अरुषेण भानुना |
    होत्राभिर् अग्निर् मनुषः स्वध्वरो राजा विशाम् अतिथिश् चारुर् आयवे ||

    sá idhāná uṣáso rā́myā ánu svárṇá dīdedaruṣéṇa bhānúnā ǀ
    hótrābhiragnírmánuṣaḥ svadhvaró rā́jā viśā́mátithiścā́rurāyáve ǁ

    sa idhāna uṣaso rāmyā anu svar ṇa dīded aruṣeṇa bhānunā |
    hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave ||

    सः । इ॒धा॒नः । उ॒षसः॑ । राम्याः॑ । अनु॑ । स्वः॑ । न । दी॒दे॒त् । अ॒रु॒षेण॑ । भा॒नुना॑ ।
    होत्रा॑भिः । अ॒ग्निः । मनु॑षः । सु॒ऽअ॒ध्व॒रः । राजा॑ । वि॒शाम् । अति॑थिः । चारुः॑ । आ॒यवे॑ ॥

    सः । इधानः । उषसः । राम्याः । अनु । स्वः । न । दीदेत् । अरुषेण । भानुना ।
    होत्राभिः । अग्निः । मनुषः । सुऽअध्वरः । राजा । विशाम् । अतिथिः । चारुः । आयवे ॥

    sáḥ ǀ idhānáḥ ǀ uṣásaḥ ǀ rā́myāḥ ǀ ánu ǀ sváḥ ǀ ná ǀ dīdet ǀ aruṣéṇa ǀ bhānúnā ǀ
    hótrābhiḥ ǀ agníḥ ǀ mánuṣaḥ ǀ su-adhvaráḥ ǀ rā́jā ǀ viśā́m ǀ átithiḥ ǀ cā́ruḥ ǀ āyáve ǁ

    saḥ ǀ idhānaḥ ǀ uṣasaḥ ǀ rāmyāḥ ǀ anu ǀ svaḥ ǀ na ǀ dīdet ǀ aruṣeṇa ǀ bhānunā ǀ
    hotrābhiḥ ǀ agniḥ ǀ manuṣaḥ ǀ su-adhvaraḥ ǀ rājā ǀ viśām ǀ atithiḥ ǀ cāruḥ ǀ āyave ǁ

    2.2.8 Aṣṭaka 2.5.21.3Anuvāka 2.1.24

  9. Ṛk 9

    ए॒वा नो॑ अग्ने अ॒मृते॑षु पूर्व्य॒ धीष्पी॑पाय बृ॒हद्दि॑वेषु॒ मानु॑षा ।
    दुहा॑ना धे॒नुर्वृ॒जने॑षु का॒रवे॒ त्मना॑ श॒तिनं॑ पुरु॒रूप॑मि॒षणि॑ ॥

    एवा नो अग्ने अमृतेषु पूर्व्य धीष् पीपाय बृहद्दिवेषु मानुषा |
    दुहाना धेनुर् वृजनेषु कारवे त्मना शतिनम् पुरुरूपम् इषणि ||

    evā́ no agne amṛ́teṣu pūrvya dhī́ṣpīpāya bṛháddiveṣu mā́nuṣā ǀ
    dúhānā dhenúrvṛjáneṣu kāráve tmánā śatínam pururū́pamiṣáṇi ǁ

    evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā |
    duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi ||

    ए॒व । नः॒ । अ॒ग्ने॒ । अ॒मृते॑षु । पू॒र्व्य॒ । धीः । पी॒पा॒य॒ । बृ॒हत्ऽदि॑वेषु । मानु॑षा ।
    दुहा॑ना । धे॒नुः । वृ॒जने॑षु । का॒रवे॑ । त्मना॑ । श॒तिन॑म् । पु॒रु॒ऽरूप॑म् । इ॒षणि॑ ॥

    एव । नः । अग्ने । अमृतेषु । पूर्व्य । धीः । पीपाय । बृहत्ऽदिवेषु । मानुषा ।
    दुहाना । धेनुः । वृजनेषु । कारवे । त्मना । शतिनम् । पुरुऽरूपम् । इषणि ॥

    evá ǀ naḥ ǀ agne ǀ amṛ́teṣu ǀ pūrvya ǀ dhī́ḥ ǀ pīpāya ǀ bṛhát-diveṣu ǀ mā́nuṣā ǀ
    dúhānā ǀ dhenúḥ ǀ vṛjáneṣu ǀ kāráve ǀ tmánā ǀ śatínam ǀ puru-rū́pam ǀ iṣáṇi ǁ

    eva ǀ naḥ ǀ agne ǀ amṛteṣu ǀ pūrvya ǀ dhīḥ ǀ pīpāya ǀ bṛhat-diveṣu ǀ mānuṣā ǀ
    duhānā ǀ dhenuḥ ǀ vṛjaneṣu ǀ kārave ǀ tmanā ǀ śatinam ǀ puru-rūpam ǀ iṣaṇi ǁ

    2.2.9 Aṣṭaka 2.5.21.4Anuvāka 2.1.25

  10. Ṛk 10

    व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑ ।
    अ॒स्माकं॑ द्यु॒म्नमधि॒ पंच॑ कृ॒ष्टिषू॒च्चा स्व१॒॑र्ण शु॑शुचीत दु॒ष्टरं॑ ॥

    वयम् अग्ने अर्वता वा सुवीर्यम् ब्रह्मणा वा चितयेमा जनां अति |
    अस्माकं द्युम्नम् अधि पञ्च कृष्टिषूच्चा स्वर् ण शुशुचीत दुष्टरम् ||

    vayámagne árvatā vā suvī́ryam bráhmaṇā vā citayemā jánām̐ áti ǀ
    asmā́kam dyumnámádhi páñca kṛṣṭíṣūccā́ svárṇá śuśucīta duṣṭáram ǁ

    vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janāṃ ati |
    asmākaṃ dyumnam adhi pañca kṛṣṭiṣūccā svar ṇa śuśucīta duṣṭaram ||

    व॒यम् । अ॒ग्ने॒ । अर्व॑ता । वा॒ । सु॒ऽवीर्य॑म् । ब्रह्म॑णा । वा॒ । चि॒त॒ये॒म॒ । जना॑न् । अति॑ ।
    अ॒स्माक॑म् । द्यु॒म्नम् । अधि॑ । पञ्च॑ । कृ॒ष्टिषु॑ । उ॒च्चा । स्वः॑ । न । शु॒शु॒ची॒त॒ । दु॒स्तर॑म् ॥

    वयम् । अग्ने । अर्वता । वा । सुऽवीर्यम् । ब्रह्मणा । वा । चितयेम । जनान् । अति ।
    अस्माकम् । द्युम्नम् । अधि । पञ्च । कृष्टिषु । उच्चा । स्वः । न । शुशुचीत । दुस्तरम् ॥

    vayám ǀ agne ǀ árvatā ǀ vā ǀ su-vī́ryam ǀ bráhmaṇā ǀ vā ǀ citayema ǀ jánān ǀ áti ǀ
    asmā́kam ǀ dyumnám ǀ ádhi ǀ páñca ǀ kṛṣṭíṣu ǀ uccā́ ǀ sváḥ ǀ ná ǀ śuśucīta ǀ dustáram ǁ

    vayam ǀ agne ǀ arvatā ǀ vā ǀ su-vīryam ǀ brahmaṇā ǀ vā ǀ citayema ǀ janān ǀ ati ǀ
    asmākam ǀ dyumnam ǀ adhi ǀ pañca ǀ kṛṣṭiṣu ǀ uccā ǀ svaḥ ǀ na ǀ śuśucīta ǀ dustaram ǁ

    2.2.10 Aṣṭaka 2.5.21.5Anuvāka 2.1.26

  11. Ṛk 11

    स नो॑ बोधि सहस्य प्र॒शंस्यो॒ यस्मि॑न्त्सुजा॒ता इ॒षयं॑त सू॒रयः॑ ।
    यम॑ग्ने य॒ज्ञमु॑प॒यंति॑ वा॒जिनो॒ नित्ये॑ तो॒के दी॑दि॒वांसं॒ स्वे दमे॑ ॥

    स नो बोधि सहस्य प्रशंस्यो यस्मिन् सुजाता इषयन्त सूरयः |
    यम् अग्ने यज्ञम् उपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ||

    sá no bodhi sahasya praśáṃsyo yásmintsujātā́ iṣáyanta sūráyaḥ ǀ
    yámagne yajñámupayánti vājíno nítye toké dīdivā́ṃsam své dáme ǁ

    sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ |
    yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame ||

    सः । नः॒ । बो॒धि॒ । स॒ह॒स्य॒ । प्र॒ऽशंस्यः॑ । यस्मि॑न् । सु॒ऽजा॒ताः । इ॒षय॑न्त । सू॒रयः॑ ।
    यम् । अ॒ग्ने॒ । य॒ज्ञम् । उ॒प॒ऽयन्ति॑ । वा॒जिनः॑ । नित्ये॑ । तो॒के । दी॒दि॒ऽवांस॑म् । स्वे । दमे॑ ॥

    सः । नः । बोधि । सहस्य । प्रऽशंस्यः । यस्मिन् । सुऽजाताः । इषयन्त । सूरयः ।
    यम् । अग्ने । यज्ञम् । उपऽयन्ति । वाजिनः । नित्ये । तोके । दीदिऽवांसम् । स्वे । दमे ॥

    sáḥ ǀ naḥ ǀ bodhi ǀ sahasya ǀ pra-śáṃsyaḥ ǀ yásmin ǀ su-jātā́ḥ ǀ iṣáyanta ǀ sūráyaḥ ǀ
    yám ǀ agne ǀ yajñám ǀ upa-yánti ǀ vājínaḥ ǀ nítye ǀ toké ǀ dīdi-vā́ṃsam ǀ své ǀ dáme ǁ

    saḥ ǀ naḥ ǀ bodhi ǀ sahasya ǀ pra-śaṃsyaḥ ǀ yasmin ǀ su-jātāḥ ǀ iṣayanta ǀ sūrayaḥ ǀ
    yam ǀ agne ǀ yajñam ǀ upa-yanti ǀ vājinaḥ ǀ nitye ǀ toke ǀ dīdi-vāṃsam ǀ sve ǀ dame ǁ

    2.2.11 Aṣṭaka 2.5.21.6Anuvāka 2.1.27

  12. Ṛk 12

    उ॒भया॑सो जातवेदः स्याम ते स्तो॒तारो॑ अग्ने सू॒रय॑श्च॒ शर्म॑णि ।
    वस्वो॑ रा॒यः पु॑रुश्चं॒द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ॥

    उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश् च शर्मणि |
    वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ||

    ubháyāso jātavedaḥ syāma te stotā́ro agne sūráyaśca śármaṇi ǀ
    vásvo rāyáḥ puruścandrásya bhū́yasaḥ prajā́vataḥ svapatyásya śagdhi naḥ ǁ

    ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi |
    vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ ||

    उ॒भया॑सः । जा॒त॒ऽवे॒दः॒ । स्या॒म॒ । ते॒ । स्तो॒तारः॑ । अ॒ग्ने॒ । सू॒रयः॑ । च॒ । शर्म॑णि ।
    वस्वः॑ । रा॒यः । पु॒रु॒ऽच॒न्द्रस्य॑ । भूय॑सः । प्र॒जाऽव॑तः । सु॒ऽअ॒प॒त्यस्य॑ । श॒ग्धि॒ । नः॒ ॥

    उभयासः । जातऽवेदः । स्याम । ते । स्तोतारः । अग्ने । सूरयः । च । शर्मणि ।
    वस्वः । रायः । पुरुऽचन्द्रस्य । भूयसः । प्रजाऽवतः । सुऽअपत्यस्य । शग्धि । नः ॥

    ubháyāsaḥ ǀ jāta-vedaḥ ǀ syāma ǀ te ǀ stotā́raḥ ǀ agne ǀ sūráyaḥ ǀ ca ǀ śármaṇi ǀ
    vásvaḥ ǀ rāyáḥ ǀ puru-candrásya ǀ bhū́yasaḥ ǀ prajā́-vataḥ ǀ su-apatyásya ǀ śagdhi ǀ naḥ ǁ

    ubhayāsaḥ ǀ jāta-vedaḥ ǀ syāma ǀ te ǀ stotāraḥ ǀ agne ǀ sūrayaḥ ǀ ca ǀ śarmaṇi ǀ
    vasvaḥ ǀ rāyaḥ ǀ puru-candrasya ǀ bhūyasaḥ ǀ prajā-vataḥ ǀ su-apatyasya ǀ śagdhi ǀ naḥ ǁ

    2.2.12 Aṣṭaka 2.5.21.7Anuvāka 2.1.28

  13. Ṛk 13

    ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जंति॑ सू॒रयः॑ ।
    अ॒स्मांच॒ तांश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

    ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः |
    अस्माञ् च तांश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ||

    yé stotṛ́bhyo góagrāmáśvapeśasamágne rātímupasṛjánti sūráyaḥ ǀ
    asmā́ñca tā́ṃśca prá hí néṣi vásya ā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

    ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ |
    asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ ||

    ये । स्तो॒तृऽभ्यः॑ । गोऽअ॑ग्राम् । अश्व॑ऽपेशसम् । अग्ने॑ । रा॒तिम् । उ॒प॒ऽसृ॒जन्ति॑ । सू॒रयः॑ ।
    अ॒स्मान् । च॒ । तान् । च॒ । प्र । हि । नेषि॑ । वस्यः॑ । आ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

    ये । स्तोतृऽभ्यः । गोऽअग्राम् । अश्वऽपेशसम् । अग्ने । रातिम् । उपऽसृजन्ति । सूरयः ।
    अस्मान् । च । तान् । च । प्र । हि । नेषि । वस्यः । आ । बृहत् । वदेम । विदथे । सुऽवीराः ॥

    yé ǀ stotṛ́-bhyaḥ ǀ gó-agrām ǀ áśva-peśasam ǀ ágne ǀ rātím ǀ upa-sṛjánti ǀ sūráyaḥ ǀ
    asmā́n ǀ ca ǀ tā́n ǀ ca ǀ prá ǀ hí ǀ néṣi ǀ vásyaḥ ǀ ā́ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

    ye ǀ stotṛ-bhyaḥ ǀ go-agrām ǀ aśva-peśasam ǀ agne ǀ rātim ǀ upa-sṛjanti ǀ sūrayaḥ ǀ
    asmān ǀ ca ǀ tān ǀ ca ǀ pra ǀ hi ǀ neṣi ǀ vasyaḥ ǀ ā ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

    2.2.13 Aṣṭaka 2.5.21.8Anuvāka 2.1.29

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.2 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

Make the Fire that knows all things born to grow by your sacrifice; worship him with thy offering and thy body and thy speech. Worship in his kindling Fire with whom are his strong delights, the male of the sun-world, the Priest of the Call, the inhabitant of Heaven4 who sits at the chariot yoke in our battles. (16 HTMF Page 35)

Ṛk 2

The Nights and the Dawns have lowed to thee as the milch cows low towards a calf in their lairs of rest. O Fire of many blessings, thou art the traveller of Heaven through the ages of man and thou shinest self-gathered through his nights.5 ( 16 HTMF Page 35)

Ṛk 3

The Gods have sent into the foundation of the middle world this great worker and pilgrim of earth and of heaven, whom we must know, like our chariot of white-flaming light, Fire whom we must voice with our lauds like a friend in the peoples. (16 HTMF Page 35)

Ṛk 4

They have set in the crookedness, set pouring his rain like gold in the beauty of his light,6 in the middle world and in his own home, the guardian of the dappled mother who awakens us to knowledge with his eyes of vision, the protector of our path along either birth. (16 HTMF Page 36)

Ṛk 5

Let Fire be the priest of your call, let his presence be around every pilgrim-rite; this is he whom men crown with the word and the offering. He shall play in his growing fires wearing his tiara of golden light; like heaven with its stars he shall give us knowledge of our steps along both the continent worlds. (16 HTMF Page 36)

Ṛk 6

O Fire, opulently kindling for our peace, let thy light arise in us and bring its gift of riches. Make Earth and Heaven ways for our happy journeying and the offerings of man a means for the coming of the Gods. (16 HTMF Page 36)

Ṛk 7

O Fire, give us the vast possessions, the thousand fold riches; open to inspiration like gates the plenitude; make Earth and Heaven turned to the Beyond by the Word. The Dawns have broken into splendour as if there shone the brilliant world of the Sun. (16 HTMF Page 36)

Ṛk 8

Kindled in the procession of the beautiful Dawns, he shall break into roseate splendour like the world of the Sun. O Fire, making effective the pilgrim-rite by man’s voices of offering, thou art the King of the peoples and the Guest delightful to the human being. (16 HTMF Page 37)

Ṛk 9

O pristine Fire, even thus the Thought has nourished our human things in the immortals, in the great Heavens. The Thought is our milch-cow, of herself she milks for the doer of works in his battles and in his speed to the journey the many forms and the hundreds of the Treasure. (16 HTMF Page 37)

Ṛk 10

O Fire, let us conquer a hero-strength by the War-Horse, or let us awake to knowledge beyond men by the Word;7 let our light shine out in the Five Nations high and inviolable like the world of the Sun. (16 HTMF Page 37)

Ṛk 11

Awake, O forceful Fire, one to be voiced by our lauds; for thou art he in whom the luminous seers come to perfect birth and speed on their way. O Fire, thou art the sacrifice and to thee the Horses of swiftness come there where thou shinest with light in the eternal son and in thy own home. (16 HTMF Page 37)

Ṛk 12

O Fire, O God who knowest all things born, may we both abide in thy peace, those who hymn thee and the luminous seers. Be forceful for the opulence of the Treasure with the multitude of its riches and its many delights and its issue and the offspring of the Treasure. (16 HTMF Page 38)

Ṛk 13

When to those who hymn thee the luminous Wise set free, O Fire, the gift in whose front the Ray-Cow walks and whose form is the Horse, thou leadest us on and leadest them to a world of greater riches. Strong with the strength of the Heroes, may we voice the Vast in the coming of the knowledge. (16 HTMF Page 38)