Ṛk 2.2.4
Saṃhitā
तमु॒क्षमा॑णं॒ रज॑सि॒ स्व आ दमे॑ चं॒द्रमि॑व सु॒रुचं॑ ह्वा॒र आ द॑धुः ।
पृश्न्याः॑ पत॒रं चि॒तयं॑तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑ ॥
तम् उक्षमाणं रजसि स्व आ दमे चन्द्रम् इव सुरुचं ह्वार आ दधुः |
पृश्न्याः पतरं चितयन्तम् अक्षभिः पाथो न पायुं जनसी उभे अनु ||
támukṣámāṇam rájasi svá ā́ dáme candrámiva surúcam hvārá ā́ dadhuḥ ǀ
pṛ́śnyāḥ patarám citáyantamakṣábhiḥ pāthó ná pāyúm jánasī ubhé ánu ǁ
tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ |
pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu ||
Padapāṭha
तम् । उ॒क्षमा॑णम् । रज॑सि । स्वे । आ । दमे॑ । च॒न्द्रम्ऽइ॑व । सु॒ऽरुच॑म् । ह्वा॒रे । आ । द॒धुः॒ ।
पृश्न्याः॑ । प॒त॒रम् । चि॒तय॑न्तम् । अ॒क्षऽभिः॑ । पा॒थः । न । पा॒युम् । जन॑सी॒ इति॑ । उ॒भे इति॑ । अनु॑ ॥
तम् । उक्षमाणम् । रजसि । स्वे । आ । दमे । चन्द्रम्ऽइव । सुऽरुचम् । ह्वारे । आ । दधुः ।
पृश्न्याः । पतरम् । चितयन्तम् । अक्षऽभिः । पाथः । न । पायुम् । जनसी इति । उभे इति । अनु ॥
tám ǀ ukṣámāṇam ǀ rájasi ǀ své ǀ ā́ ǀ dáme ǀ candrám-iva ǀ su-rúcam ǀ hvāré ǀ ā́ ǀ dadhuḥ ǀ
pṛ́śnyāḥ ǀ patarám ǀ citáyantam ǀ akṣá-bhiḥ ǀ pātháḥ ǀ ná ǀ pāyúm ǀ jánasī íti ǀ ubhé íti ǀ ánu ǁ
tam ǀ ukṣamāṇam ǀ rajasi ǀ sve ǀ ā ǀ dame ǀ candram-iva ǀ su-rucam ǀ hvāre ǀ ā ǀ dadhuḥ ǀ
pṛśnyāḥ ǀ pataram ǀ citayantam ǀ akṣa-bhiḥ ǀ pāthaḥ ǀ na ǀ pāyum ǀ janasī iti ǀ ubhe iti ǀ anu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.002.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.20.04
- Maṇḍala · Anuvāka · Ṛk
- 02.01.020
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.