Ṛk 2.2.5
Saṃhitā
स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋंजते गि॒रा ।
हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑ ॥
स होता विश्वम् परि भूत्व् अध्वरं तम् उ हव्यैर् मनुष ऋञ्जते गिरा |
हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर् न स्तृभिश् चितयद् रोदसी अनु ||
sá hótā víśvam pári bhūtvadhvarám támu havyáirmánuṣa ṛñjate girā́ ǀ
hiriśipró vṛdhasānā́su járbhuraddyáurná stṛ́bhiścitayadródasī ánu ǁ
sa hotā viśvam pari bhūtv adhvaraṃ tam u havyair manuṣa ṛñjate girā |
hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu ||
Padapāṭha
सः । होता॑ । विश्व॑म् । परि॑ । भू॒तु॒ । अ॒ध्व॒रम् । तम् । ऊं॒ इति॑ । ह॒व्यैः । मनु॑षः । ऋ॒ञ्ज॒ते॒ । गि॒रा ।
हि॒रि॒ऽशि॒प्रः । वृ॒ध॒सा॒नासु॑ । जर्भु॑रत् । द्यौः । न । स्तृऽभिः॑ । चि॒त॒य॒त् । रोद॑सी॒ इति॑ । अनु॑ ॥
सः । होता । विश्वम् । परि । भूतु । अध्वरम् । तम् । ऊं इति । हव्यैः । मनुषः । ऋञ्जते । गिरा ।
हिरिऽशिप्रः । वृधसानासु । जर्भुरत् । द्यौः । न । स्तृऽभिः । चितयत् । रोदसी इति । अनु ॥
sáḥ ǀ hótā ǀ víśvam ǀ pári ǀ bhūtu ǀ adhvarám ǀ tám ǀ ūṃ íti ǀ havyáiḥ ǀ mánuṣaḥ ǀ ṛñjate ǀ girā́ ǀ
hiri-śipráḥ ǀ vṛdhasānā́su ǀ járbhurat ǀ dyáuḥ ǀ ná ǀ stṛ́-bhiḥ ǀ citayat ǀ ródasī íti ǀ ánu ǁ
saḥ ǀ hotā ǀ viśvam ǀ pari ǀ bhūtu ǀ adhvaram ǀ tam ǀ ūṃ iti ǀ havyaiḥ ǀ manuṣaḥ ǀ ṛñjate ǀ girā ǀ
hiri-śipraḥ ǀ vṛdhasānāsu ǀ jarbhurat ǀ dyauḥ ǀ na ǀ stṛ-bhiḥ ǀ citayat ǀ rodasī iti ǀ anu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.002.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.20.05
- Maṇḍala · Anuvāka · Ṛk
- 02.01.021
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.