Ṛk 2.2.3
Saṃhitā
तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये॑रिरे ।
रथ॑मिव॒ वेद्यं॑ शु॒क्रशो॑चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्यं॑ ॥
तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योर् अरतिं न्य् एरिरे |
रथम् इव वेद्यं शुक्रशोचिषम् अग्निम् मित्रं न क्षितिषु प्रशंस्यम् ||
tám devā́ budhné rájasaḥ sudáṃsasam diváspṛthivyóraratím nyérire ǀ
ráthamiva védyam śukráśociṣamagním mitrám ná kṣitíṣu praśáṃsyam ǁ
taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyor aratiṃ ny erire |
ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam ||
Padapāṭha
तम् । दे॒वाः । बु॒ध्ने । रज॑सः । सु॒ऽदंस॑सम् । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिम् । नि । ए॒रि॒रे॒ ।
रथ॑म्ऽइव । वेद्य॑म् । शु॒क्रऽशो॑चिषम् । अ॒ग्निम् । मि॒त्रम् । न । क्षि॒तिषु॑ । प्र॒ऽशंस्य॑म् ॥
तम् । देवाः । बुध्ने । रजसः । सुऽदंससम् । दिवःपृथिव्योः । अरतिम् । नि । एरिरे ।
रथम्ऽइव । वेद्यम् । शुक्रऽशोचिषम् । अग्निम् । मित्रम् । न । क्षितिषु । प्रऽशंस्यम् ॥
tám ǀ devā́ḥ ǀ budhné ǀ rájasaḥ ǀ su-dáṃsasam ǀ diváḥpṛthivyóḥ ǀ aratím ǀ ní ǀ erire ǀ
rátham-iva ǀ védyam ǀ śukrá-śociṣam ǀ agním ǀ mitrám ǀ ná ǀ kṣitíṣu ǀ pra-śáṃsyam ǁ
tam ǀ devāḥ ǀ budhne ǀ rajasaḥ ǀ su-daṃsasam ǀ divaḥpṛthivyoḥ ǀ aratim ǀ ni ǀ erire ǀ
ratham-iva ǀ vedyam ǀ śukra-śociṣam ǀ agnim ǀ mitram ǀ na ǀ kṣitiṣu ǀ pra-śaṃsyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.002.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.20.03
- Maṇḍala · Anuvāka · Ṛk
- 02.01.019
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.